TransLiteral Foundation

उत्तरकांडम् - काव्य ३०१ ते ३५०

उत्तरकाण्डम् या प्रकरणातील श्लोकातील सातवे अक्षर श्री रा म ज य रा म ज य ज य रा म असे आहे.


काव्य ३०१ ते ३५०
प्रविवेश पुरीं रा जा पूज्यमानो निशाचरैः
एतस्मिन्नंतरे घोरा तत्स्वसा विललाप सा. ॥३०१॥
शोके शूर्पणखां म ग्नां सांत्वयन्नाह रावणः,
‘ सुखं मातुः स्वसुः सूनोः खरस्य वस संनिधौ. ॥३०२॥
खरोऽय यातुरा ज स्ते करिष्यति वचः सदा. ’
इत्युक्त्वा दंडकारण्यं प्रेषयामास तं तदा. ॥३०३॥
निकुंभिला नाम य त्तल्लंकोपवनमुत्तमम्
कर्मसिद्धेर्हेतुभूतं प्रविवेश दशाननः. ॥३०४॥
तत्रापश्यत्सुरा रा तिर्मेधनादं स दीक्षितम्
कृष्णाजिनधरं मूर्तं तेजोराशिमिव स्थितम्. ॥३०५॥
तमालिंग्योत्सुक म ना ब्रह्मचारिणमात्मजम्
पप्रच्छ विस्मितो राजा स्वयं किमिदमित्यथ. ॥३०६॥
तमाह शुक्रो, य ज ने रतोऽयं तव नंदनः
अग्निष्टोमादयो यज्ञाः सप्तानेन कृताः प्रभो ! ॥३०७॥
सत्रं माहेश्वरं य ज्वा कृत्वा पशुपतेः प्रभोः
वरान् सुदुर्लभान् प्राप्तो घननादो महायशाः. ’ ॥३०८॥
अब्रवीद्यातुरा ज स्तं, ‘ न शोभनमिदं कृतम्
पूजिताः शत्रवो यस्माद्द्रव्यैरिंद्रपुरोगमाः. ॥३०९॥
एहीदानीं कृतं य द्धि सुकृतं तन्न संशयः
आवच्छ सौम्य ! गच्छामः स्वमेव भवनं प्रति. ’ ॥३१०॥
ततो गत्वा गृहं रा जा सपुत्रः सबिभीषणः
स्त्रियोऽवतारयामास विमानाद्बाष्पगद्गदाः. ॥३११॥
बिभीषणोऽथ सु म ति‘र्माल्यवत्तनयानला
तस्याः कुंभीनसी कन्या सास्माकं धर्मतः स्वसा. ॥३१२॥
मधुना सा हृता श्री मन्नेतस्य परयोषिताम्
हरणस्य फलं मन्ये स्वसुर्धर्षणमल्पतः ॥३१३॥
आसक्तेऽस्मिन्नध्व रा णां कर्भण्येतदभूत्प्रभो !
कुंभकर्णेऽपि संसुप्ते उदवासं गते मयि. ’ ॥३१४॥
इत्याह रावणोऽ म र्षी निर्जगाम पुराद्द्रुतम्
चत्वार्यक्षौहिणीनां स सहस्राणि गृहीतवान्. ॥३१५॥
पृष्ठगोपो सोऽनु ज न्मा कुंभकर्णो महाबलः
अग्रतो मेघनादोऽभूद्दशकंठस्य गच्छतः. ॥३१६॥
बिभीषणः स न य विल्लंकायां रक्षणे स्थितः
गतो मधुपुरं दैत्यैर्दानवैः सह रावणः. ॥३१७॥
न ददर्श मधुं रा म ! भगिनीं तत्र दृष्टवान्
भीता कुंभीनसी भ्रातुः शिरसा चरणौ गता. ॥३१८॥
व्याकुलां पतितां म ह्यां दृष्ट्वा स दशकंधरः
तां समुत्थापयामास ‘ न भेतव्य’मिति ब्रुवन्. ॥३१९॥
साब्रवी‘द्यदि रा ज न् ! मे प्रसन्नस्त्वं महाभुज !
भर्तारं न ममेहाद्य हंतमर्हसि मानद. ’ ॥३२०॥
स तामाह, ‘ क्क प्रि यस्ते मम शीघ्रं निवेद्यताम्
सह तेन गमिष्यामि सुरलोकं जयोद्यतः. ॥३२१॥
तच्छ्रुत्वा यातुरा जस्य वचः कुंभीनसी मधुम्
सुप्तमुत्थाप्य तं भ्रात्रे दर्शयामास सादरा. ॥३२२॥
तस्याः स्वसुःस प्रि य कृन्मधुना पूजितः सुखम्
तत्रैकां रजनीमुष्य ततः कैलासमागतः. ॥३२३॥
तत्र चंद्रोदये रा त्रौ कामार्तो रम्यकानने
दैवाद्ददर्श रंभां तां करे जग्राह रावणः. ॥३२४॥
नत्वा तमाह सा, ‘ म ह्यमनुज्ञां दातुमर्हसि
स्नुषास्मि तव धर्मेण नलकूबरभोगदा. ’ ॥३२५॥
तामाह रावणः श्री मान्, ‘ मर्यादेयं सुरैः कृता
पतिरप्सरसां नास्ति न चैकस्त्रीपरिग्रहः. ’ ॥३२६॥
इत्युक्त्वा तां स स्म रा र्तो बलाद्भुक्त्वा महाबलः
मुमोच सा पपातार्ता नलकूबरपादयोः. ॥३२७॥
श्रुत्वा तयोक्तं सोऽम र्षादशपन्नलकूबरः,
‘ धर्षयिष्यत्यकामां चेत्कामार्तः परयोषितम्. ॥३२८॥
मत्तस्य मोहाद्व्र ज तो मार्गेणानेन दुर्मतेः
मूर्धा तु सप्तधा तस्य शकलीभविता ध्रुवम्. ’ ॥३२९॥
एवं दशास्यः स य दा शप्रस्तेन महात्मना
देवदुंदुभयो नेदुः पुष्पवृष्टिः पपात खात्. ॥३३०॥
श्रुताच्छापात्सुघो रा त्स त्रस्तो रात्रिंचराधमः
नारीषु मैथुनीभावं नाकामास्वभ्यरोचयत्. ॥३३१॥
ततः स जेतुम मरान्प्रययावमरावतीम्
विष्णोः समीपमागत्य सुदीनो जिष्णुरब्रवीत्. ॥३३२॥
विष्णो ! नारायणा ज ! त्वमुपायं वद मे प्रभो !
वरदृप्तो दशमुखः समरार्थं समागतः. ’ ॥३३३॥
तमाह देवोऽति य शाश्चक्री शक्रं भयाकुलम्,
‘ परित्रासो न कर्तव्यः श्रूयतामिंद्र ! मे वचः. ॥३३४॥
नैवेष रावणो ज य्यस्त्रिदशेंद्र ! सुरासुरैः
काल एनं हनिष्यामि नंदयिष्यामि वश्चिरम्. ॥३३५॥
देवैः सह स्वयः य त्तो भव युध्यस्व निर्भयः. ’
इत्युक्तो विष्णुना जिष्णुर्युयुधे रक्षसा समम्. ॥३३६॥
राक्षसा युधि शू रा स्ते सुराश्च सुमहाबलाः
चक्रुरत्यद्भुतं कर्म प्राज्यनानोद्यतायुधाः. ॥३३७॥
सुमालिना ते स म रे हन्यमाना महौजसा
न व्यतिष्ठंत जलदा वातेनेव निपीडिताः. ॥३३८॥
रावणेन यथा श्री दः पूर्वं युद्धे निपातितः
तथैव मेघनादेन जयंतः शक्रनंदनः. ॥३३९॥
दौहित्रो मूर्छितो रा जन् ! पुलोम्नाश्वपवाहितः
स तं जयंतं संगृह्य प्रविष्टोऽब्धिं महासुरः. ॥३४०॥
कुंभकर्णोऽपि स म रं चकार परमाद्भुतम्
प्राप्ताः पराभवं देवाः सर्वे तस्माद्यथांतकात्. ॥३४१॥
रावणो देवरा ज श्च चक्रतुस्तुमुलं रणम्
तत्र ये प्रेक्षकास्ते खे चित्रतां भेजिरे क्षणम्. ॥३४२॥
शक्रः सुरानाह, ‘ य न्मे रोचते शृणुतामराः !
अवध्योऽयं दशग्रीवो जीवन्नेव निगृह्यताम्. ॥३४३॥
त्रैलोक्यं भुज्यतेऽ रा तौ संनिरुद्धे बलौ मया
एवमेतस्य पापस्य निरोधो रोचते मम. ’ ॥३४४॥
मंत्रं कृत्वैवम म रैः सार्धं त्यक्त्वा दशाननम्
तं ग्रहीतुमना राम ! सोऽकरोद्रक्षसां क्षयम्. ॥३४५॥
मेघनादस्तदा ज न्ये प्राप्तां पशुपतेर्वरात्.
वितत्यतामसीं मायां शक्रं जग्राह मोहितम्. ॥३४६॥
स्वतातग्रहणे य त्तं गृहीत्वाजौ शतक्रतुम्
बद्ध्वा स्थाप्य स्वसेनायां स्वयं रावणमब्रवीत्. ॥३४७॥
‘ तात ! जातो‍ऽद्य वि ज यो गृहीतो मघवा मया
विजितो मायया कामी ना यथाऽनघ वामया. ’ ॥३४८॥
रोमांचितोऽतिप्रि य वाक्श्रावणाद्रावणस्तु तम्
सुतं धन्यस्त्वमित्याह मंत्रिबंदिशतै स्तुतम्. ॥३४९॥
पुनराह सुरा रा तिः ‘ पृष्ठतस्त्वानुयाम्यहम्,
शतांगमधिरोप्य त्वं नय लंकां शतक्रतुम्. ’ ॥३५०॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:54:39.9270000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

methods engineer

  • कार्यपद्धति अभियंता 
RANDOM WORD

Did you know?

mahavakya panchikaran he pustak upalabdha hoil ka ?
Category : Dictionary
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.