संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|संस्कृतकाव्यानि| मंत्ररामायणम्|उत्तरकांडम्| काव्य १५१ ते २०० उत्तरकांडम् काव्य १ ते ५० काव्य ५१ ते १०० काव्य १०१ ते १५० काव्य १५१ ते २०० काव्य २०१ ते २५० काव्य २५१ ते ३०० काव्य ३०१ ते ३५० काव्य ३५१ ते ४०० काव्य ४०१ ते ४५० काव्य ४५१ ते ५०० काव्य ५०१ ते ५५० काव्य ५५१ ते ६०० काव्य ६०१ ते ६५० काव्य ६५१ ते ७०० काव्य ७०१ ते ७५० काव्य ७५१ ते ८०० काव्य ८०१ ते ८५० काव्य ८५१ ते ९०० काव्य ९०१ ते ९५० काव्य ९५१ ते १००० काव्य १००१ ते १०२७ मंत्रगणना उत्तरकांडम् - काव्य १५१ ते २०० उत्तरकाण्डम् या प्रकरणातील श्लोकातील सातवे अक्षर श्री रा म ज य रा म ज य ज य रा म असे आहे. Tags : mayurramramayanमयूररामरामायणसंस्कृत काव्य १५१ ते २०० Translation - भाषांतर स गत्वा राजरा ज स्य समीपं तमथाब्रवीत्, ‘ प्रेषितोऽहं तव भ्रात्रा दशग्रीवेण सुव्रत ! ॥१५१॥भ्राता ब्रवीति ते य त्स तत्त्वं मम मुखाच्छृणु,सुमालिप्रमुखैर्लंका भुक्तपूर्वा निशाचरैः. ॥१५२॥लंका तदेषा र ज नीचराणां साधु दीयताम्, तमाह धनदः, ‘ पित्रादत्ता शून्या निशाचरैः ॥१५३॥निवेशिता मया य त्नाद्दानमानादिभिर्गुणैः गच्छ ब्रूहि दशग्रीवं प्रहस्त ! त्वं वचो मम. ॥१५४॥लंकापुरी तथा रा ज्यं यच्च द्रव्यमुपार्जितम् तवाप्येतन्महाबाहो ! भुंक्ष्वेदं त्वमकंटकम्. ॥१५५॥अविभक्तं वसु म म राज्यं चेदं त्वया सह. ’ एवमुक्त्वा धनाध्यक्षो जगाम पितुरंतिकम्. ॥१५६॥अभिवाद्य गुरुं श्री दः प्राह भ्रातुर्यदीप्सितम्. स प्रांजलिं सुतं प्राह, ‘ शृणु पुत्र ! वचो मम. ॥१५७॥लंकापुरापहा रा र्थमुक्तवान्मम संनिधौ मया निर्भर्त्सितश्चासौ बहुशो न शमं गतः. ॥१५८॥वरप्रदानसं म त्तो मान्यामान्यं न वेत्ति सःक्रूरात्मा मम शापाच्च दारुणां प्रकृतिं गतः. ॥१५९॥कैलासं राजरा ज ! त्वं गच्छ तात ! सहानुगःनिवेशय पुरं तत्र निवासार्थं सुखी भव. ’ ॥१६०॥पित्रैवमुक्तः सु य शाः कैलासं गिरिशालयम्सदारपुत्रसचिवः सधनः सानुगो गतः. ॥१६१॥प्रहस्तोऽथ मुदा रा त्रिंचराधीशं दशाननम् प्राह, लंकापुरी शून्या त्यक्त्वैनां धनदो गतः. ’ ॥१६२॥दशाननः प्राप्त म हः सानुजः सबलस्तदा विवेश स सुहृत्त्यक्त्वा शंकां लंकां महामहाः. ॥१६३॥तत्राभिषिक्तः स्वं ज नैरवसद्दशकंधरः. अलकायां च कैलासे रचितायां धनेश्वरः. ॥१६४॥विद्युज्जिह्वाभिधा य स्वां स्वसारं दानवाय सः ददौ शूर्पणखां प्रीत्या कालकेयाय राक्षसः. ॥१६५॥मंदोदरीं मय ज निं वृतवान् दशकंधरः मायाविदुंदुभ्यनुजां हेमाकुक्षिसमुद्भवाम्. ॥१६६॥वैरोचनस्य प्र य तां दौहित्रीं समकल्पयत् वज्रज्वालाभिधां भार्यां कुंभकर्णस्य रावणः. ॥१६७॥गंधर्वाणां तथा रा ज्ञः शैलूषस्य महात्मनः सरमां नाम धर्मज्ञा भार्यां लेभे बिभीषणः. ॥१६८॥मंदोदरीयशोऽ म त्रं द्यौः पाथोदमिवातुलम्पुत्रं महेंद्रजेतारं मेघनादमजीजनत्. ॥१६९॥जातमात्रेण हि श्री मंस्तेन राघवसूनुना रुदता सुमहान्मुक्तो नादो घनरवोपमः. ॥१७०॥स मत्तो रक्षसां रा जा जगत्पीडामथाकरोत् तच्छ्रुत्वा धनदो दूतं प्रेषयामास कोविदम्. ॥१७१॥तत्संदेशं स सु म तिः कथयामास तद्धितम्‘ मैवं कुरु जगत्पीडां धर्म एव स्थितिर्हिता. ॥१७२॥निराकृतोऽस्मग्र ज स्ते बहुशो रक्षसाधिप ! सापराधोऽपि बालो हि रक्षितव्यः स्वबांधवैः. ॥१७३॥कैलासे वसतो य न्मे वृत्तं शृणु दशानन ! तत्र देवो मया दृष्ट उमया सहितः प्रभुः. ॥१७४॥ सव्यं चक्षुर्मया रा जन् ! दैवाद्देव्यां निपातितम् का न्वेषेत्येव सहजं न खल्वन्येन हेतुना. ॥१७५॥जगद्धात्र्यास्तु सु म हत्तेजो निरुपमं हि तत्देव्या दिव्यप्रभावेण दग्धं सव्यं ममेक्षणम्. ॥१७६॥भगवत्यास्तु ते ज स्तद्द्रष्टुं चक्षुर्न मे क्षमम् रेणुध्वस्तमिव ज्योतिः पिंगलत्वमुपागतम्. ॥१७७॥ततो गतोऽहं नि य तस्तटं तस्य गिरेः परम् तूष्णीं वर्षशतान्यष्टौ सुव्रतं समधारयम्. ॥१७८॥समाप्ते नियमेऽ ज न्मा तत्र देवो महेश्वरः ततः प्रीतेन मनसा प्राह वाक्यमिदं प्रभुः, ॥१७९॥‘ प्रीतोऽस्मि जनिता य त्त्वत्तपसानेन सु व्रत ! मया चैतद्व्रतं चीर्णं त्वया चापि मदुत्थितम्. ॥१८०॥व्रतादस्माद्दुष्क रा त्त्वं सखा भव ममानघ ! पिंगलत्वमवाप्तं यच्चक्षुर्देव्या निरीक्षणात्. ॥१८१॥एकपिंगेति ना म त्वं प्राप्य ख्यातो भविष्यसि ’ एवं प्राप्तप्रसादेन लब्ध्वानुज्ञां च शंकरात् ॥१८२॥आगतेन मया श्री मन् ! श्रुतस्ते पापनिश्चयः तदधर्मान्निवर्तस्व मृत्युदात्कुलदूषणात्. ॥१८३॥वशे स्थाप्य मनो रा जन् ! पुण्यां कीर्तिमुपार्जय,चिंत्यते हि वधोपायः सर्षिसंघैः सुरैस्तव. ’ ॥१८४॥एवमुक्तः क्रूर म तिः कोपसंरक्तलोचनः हस्तान् दंतांश्च संपिष्य दशास्यो वाक्यमब्रवीत्. ॥१८५॥‘ ज्ञातं वचस्ते सु ज ड ! ब्रूहि मा पुनरीदृशम् नैव त्वमसि नैवासौ भ्राता येनासि चोदितः. ॥१८६॥ रुद्रसख्यं श्राव य ते मूढो ब्रूते न मे हितम् नैवैतत्क्षमणीयं मे यदेतद्भाषितं त्वया. ॥१८७॥न हंतव्यो राज रा जो ज्येष्ठो भ्रातेति मर्षितम् त्रीन् लोकानपि जेश्यामि तस्यैकस्य कृतेऽचिरात्. ॥१८८॥तेन सार्द्धं तान्य म स्य क्षयं नेष्यामि लोकपान् इत्युक्त्वाऽत्तुं ददौ हत्वा दूतमाज्ञां स रक्षसाम्. ॥१८९॥भंक्त्वाज्ञां राजरा ज स्य वरसंपन्मदोद्धतः सेना आज्ञापयामास रक्षसां कामरूपिणाम्. ॥१९०॥ततः कृतस्त्वस्त्य य नो रथमारुह्य रावणः त्रैलोक्यविजयाकांक्षी ययौ यत्र धनेश्वरः. ॥१९१॥बलेन यक्षान ज यन्माणिभद्रमुखान् रणे जहार पुष्पकं जित्वा माययास्त्रैश्च सोग्रजम्. ॥१९२॥वार्यमाणो मया, ‘ यत्त्वं नावगच्छसि दुर्मते ! पश्चादस्य फलं प्राप्य तप्स्यसे निरयं गतः. ’ ॥१८३॥इति शप्त्वा राज रा जो युद्धं तेन सहाकरोत् पपात मूर्च्छितो नीतः स यक्षैर्नंदनं वनम्. ॥१९४॥आरुह्य पुष्पक म थ प्रहृष्टः स दशाननः जितं त्रिभुवनं मेने गर्वोत्स्रेकात्सुदुर्मतिः. ॥१९५॥ततः शरवणे श्री मत्पुष्पकं ब्रह्मनिर्मितम् दिव्यं निरुद्धसंचारमभवत्सहसाद्भुतम्. ॥१९६॥‘ कुतो नु स्तंभितं रा जव्योमयान’मिति स्वकैःमीमांसमाने सचिवैः सह तस्मिन् दशानने ॥१९७॥नंदीश्वरोऽमित म हा आजगाम त्रिशूलभृत्उवाच स तमुत्सिक्तं राक्षसेंद्रमशंकितः. ॥१९८॥‘ निवर्तस्वाशु र ज नीचर ! क्रीडति शंकरः प्रभुणा सर्वभूतानामगम्योऽयं कृतो गिरिः. ’ ॥१९९॥तच्छ्रुत्वा रक्तन य नः पुष्पकादवरुह्य सः ‘ कोऽयं शंकर ’ इत्युक्त्वा तं दृष्ट्वा वानराननम्. ॥२००॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP