TransLiteral Foundation

उत्तरकांडम् - काव्य २५१ ते ३००

उत्तरकाण्डम् या प्रकरणातील श्लोकातील सातवे अक्षर श्री रा म ज य रा म ज य ज य रा म असे आहे.


काव्य २५१ ते ३००
शक्रो मयूरं भु ज गान्न भयं तव सर्वथा
इदं नेत्रसहस्रं मे त्वद्बर्हेषु भविष्यति. ॥२५१॥
वर्षमाणेऽतिश य तो मयि त्वं प्राप्स्यसे मुदम्
इत्यब्रवीद्धर्मराजो वायसं ‘ त्वमरोगभाक्. ॥२५२॥
स्वतो मृत्युर्मद्व रा त्ते न भविष्यति सर्वथा,
त्वयि तृप्ते संतु तृप्ता ये च मद्विषये स्थिताः. ’ ॥२५३॥
‘ वर्णस्तवास्तु वि मलश्चंद्रमंडलसंनिभः ’
हंसमित्यब्रवीद्राजा यादसां वरदस्तदा. ॥२५४॥
प्रसन्नो राजरा ज श्च कृकलासं तदाब्रवीत्,
‘ स्वर्णवर्णं तव शिरो मम प्रीत्या भवत्विति. ’ ॥२५५॥
एवं दत्तवरा य ज्ञे समाप्ते भूभुजा सह
देवाः स्वभवनं याताः सर्वे शक्रपुरोगमाः. ॥२५६॥
केचिद्धतास्तेन ज गत्यधिपाः शासनातिगाः
निर्जिताः स्मेत्यभाषंत केचिन्नीतिविशारदाः. ॥२५७॥
धीमान् दुष्यंतो ग य श्च गाधिश्च सुरथस्तथा
पुरूरवाश्चोचुरेते ‘ वयं तात त्वया जिताः. ’ ॥२५८॥
अयोध्याधिपती रा जा यो‍ऽनरण्याभिधो महान्
निर्जिता राक्षसास्तेन हरिणा हरिणा इव. ॥२५९॥
पातयामास तं म ह्यां तलेनाहत्य रावणः
उपहासं दशग्रीवश्चक्रे वरमदोद्धतः. ॥२६०॥
सोऽन्यरण्यो नृपः श्री मानब्रवीत्तं दशाननम्,
‘ यदि सम्यक्कृतो धर्मस्तर्हि सत्यं वचोऽस्तु मे. ॥२६१॥
उत्पत्स्यते कुले रा ज्ञामिक्ष्वाकूणां सतामिह
रामो दाशरथिर्नाम यस्ते प्राणान् हरिष्यति. ’ ॥२६२॥
महानादः प्राप्त म हैस्ताडितो देवदुंदुभिः
तस्मिन्नुदाहृते शापे पुष्पवृष्टिश्च खाच्च्युता. ॥२६३॥
ततोऽनरण्यो रा ज न्यश्रेष्ठः प्राप्तस्त्रिविष्टपम्
ददर्श घनपृष्ठस्थं नारदं राक्षसेश्वरः. ॥२६४॥
कृताभिवादनं य त्तं विजये दशकंधरम्
देवर्षिरब्रवी‘द्युक्तं नेदं ते मृतमारणम्. ॥२६५॥
हत एव ह्ययं रा जन् ! लोको मृत्युवशो यतः
किमयं बाध्यते तात ! त्वयावध्येन दैवतैः. ॥२६६॥
जित एव त्वया म र्त्यलोकोऽयं नात्र संशयः.
अवश्यमेभिः सर्वैश्च गंतव्यं यमसादनम्. ॥२६७॥
तन्निगृह्णीष्व ते ज स्विन् ! यमं परपुरंजय
तस्मिन् जिते जितं सर्वं भवत्येव न संशयः. ’ ॥२६८॥
जगाम जेतुं स य मं देवर्षिप्रेरितो बली
तत्पूर्वं नारदो गत्वा स्वयमंतकमब्रवीत्. ॥२६९॥
‘ विजेता राजरा ज स्य ससैन्यो दशकंधरः
उपयाति वशं नेतुं विक्रमैस्त्वां सुदुर्जयम्. ’ ॥२७०॥
अत्रांतरे तद्वि य द्गं पुष्पकं दर्शनं गतम्
प्राणिनो मोचितास्तेन बलिना निरयं गताः. ॥२७१॥
प्रेतसंरक्षका रा ज्ञः पितॄणां सचिवास्तदा
मंत्रिणो दशकंठस्य युयुधुस्ते परस्परम्. ॥२७२॥
भग्ना वीरास्ते य म स्य रौद्रणास्त्रेण रक्षसा
ततः स्वयं धर्मराजो युयुधे तेन शत्रुणा. ॥२७३॥
सप्तरात्रं रणः श्री दभ्रात्रा तेनामितौजसा
कृतः स्वयं कृतांतेन सार्धं परमदारुणः. ॥२७४॥
रयराक्षसयो रा सीत्तद्युत्तं तुमुलं प्रभो !
प्रजापतिं पुरस्कृत्य द्रष्टुं तत्रागताः सुराः. ॥२७५॥
राक्षसेंद्रोऽपि स म रे धर्मराजोऽपि राघव !
आत्मनो जयमाकांक्षन् परं चक्रे परिश्रमम्. ॥२७६॥
मृत्युराह यमं ज न्ये, ‘ मुंच त्वं धर्मराज ! माम्
न हि कश्चिन्मया दृष्टो बलवानपि जीवति. ॥२७७॥
शंभुर्विरोचनो य श्च नमुचिः शंबरः स च
हतो हिरण्यकीशपुः किमुतायं निशाचरः. ’ ॥२७८॥
उवाच तं धर्म रा ज‘स्त्वं तिष्ठैनं निहन्म्यहम्. ’
इत्युक्त्वा कालदंडं स तोलयामास पाणिना. ॥२७९॥
प्रहर्तुकामे श म ने तेन दंडेन रावणम्
पितामहः प्रभुः साक्षाद्दर्शयित्वा तमब्रवीत्. ॥२८०॥
‘ कुरूक्तमर्कात्म ज ! मे न खल्वमितविक्रम !
न हंतव्यस्त्वयानेन दंडनैष निशाचरः. ॥२८१॥
मया प्रसन्नेन य म ! प्रदत्तोऽस्मै वरः खलु
स त्वया नानृतः कार्यो दंडं मा मुंच रक्षसि. ’ ॥२८२॥
इत्युक्तो धर्मरा ज स्तं चतुर्वदनमब्रवीत्,
‘ एष व्यावर्तितो दंडः प्रभविष्णुर्हि नो भवान्. ’ ॥२८३॥
एवमुक्त्वाथ स य मस्तत्रैवांतर्हितोऽभवत्
रावणो नाम विश्राव्य निर्गतः कालसादनात्. ॥२८४॥
ततो रसातलं रा जा राक्षसानां जगाम सः
तत्र भोगवतीं जित्वा पुरीं वासुकिपालिताम् ॥२८५॥
ययौ पुरीं मणि म यीं निवातकवचैः सह
चक्रे युद्धं राक्षसेंद्रस्तत्र संवत्सरो गतः. ॥२८६॥
आजगाम विधिः श्री मान् दैत्यांस्तानित्युवाच सः,
‘ न ह्ययं रावणो युद्धे शक्यो जेतुं सुरासुरैः. ॥२८७॥
भवंतोऽपि प्रवी रा नो शक्या जेतुं सुरादिभिः
रावणस्य सखित्वं मे भवद्भिः सह रोचते. ’ ॥२८८॥
ब्रह्माज्ञया ते स म रान्निवृत्ताः स च रावणः
सख्यं निवातकवचैः सार्धं चक्रेऽग्निसाक्षिकम्. ॥२८९॥
तत्रोष्य वर्षं र ज नीचरेंद्रो हततापसः
असुरेभ्यः सखित्वेन मायानां शतमाप सः. ॥२९०॥
गत्वाश्मनगरं य त्तः कालकेयान् बलोत्कटान्
अवधीत्सूर्पणख्याश्च भर्तारमसिनाच्छिनत्. ॥२९१॥
वरुणस्थालयं रा ज्ञः कैलासमिव भास्वरम्
अपश्यत्सुरभिं तत्र क्षीरोदो यत्पयोभवः. ॥२९२॥
संपूज्य तां प्रीत म तिः सोऽजयद्वरुणात्मजान्
श्रुत्वा प्रचेतसं ब्रह्मलोकस्थं निर्गतस्ततः. ॥२९३॥
निवृत्तो राक्ष्जसो ज हे मार्गे राजर्षिकन्यकाः
देवपन्नगगंधर्वयक्षासुरवरात्मजाः. ॥२९४॥
दर्शनीयां हि यां य त्र सोऽपश्यद्दशकंधरः
हत्वा बंधुजनं तस्या विमाने तां रुरोध सः. ॥२९५॥
ताः सर्वा योषितोऽज स्रं मुमुचुर्बाष्पजं जलम्
अलं निनिंदुः शोकार्ताः सपंत्यस्तं महाखलम्. ॥२९६॥
निनिंदुस्ताः स्वनि य तिं कन्यकाश्च सभर्तृकाः
विलेपुः सभृशं स्मृत्वा पितॄन्मातॄः पतीन्सुतान्. ॥२९७॥
क्रोधादूचुः समं रा मा, ‘ यस्मात्परवधूरतः
तस्मात्प्राप्स्यत्ययं मृत्युं स्त्रीकृतेनैव दुर्मतिः. ’ ॥२९८॥
सतीभिः परमा म र्षादेवं वाक्येऽभ्युदीरिते
दिव्या दुंदुभयो नेदुः पुष्पवृष्टिः पपात च. ॥२९९॥
स बभूव गत श्री कः सतीभिः शप्त उद्धतः
शुद्धतस्तद्व्रतात्तस्य तेजोहानिर्न युद्धतः. ॥३००॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:54:39.8670000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

finger simo chart

  • एकसमयावर्ती गति तक्ता 
RANDOM WORD

Did you know?

शंकराला अर्धी प्रदक्षिणा कां घालतात ?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.