उत्तरकांडम् - काव्य ७५१ ते ८००

उत्तरकाण्डम् या प्रकरणातील श्लोकातील सातवे अक्षर श्री रा म ज य रा म ज य ज य रा म असे आहे.


भरतं लक्ष्मणं ज न्मप्रभृत्यात्ममतानुगम्
रामोऽपृच्छद्राजसूयं कर्तुं मंत्रविनिश्चयम्. ॥७५१॥
तं प्रभुः राजसू य स्य क्रियां कर्तुं समुत्सुकम्
प्रांजलिर्दर्शयन् दोषं तोषं दातुं महामतिः ॥७५२॥
प्रोवाच भरतो, ‘ रा जसूयाद्बहुनृपक्षयः
भविष्यति दयालोस्तेऽयुक्त’मित्यसकृत्सुधीः. ॥७५३॥
अश्वमेधे कुरु म नो मनोरन्वयभूषण ! ’
इत्याह लक्ष्मणो रामं कामं सर्वसतां मतम्. ॥७५४॥
‘ हत्वा वृत्रासुरं श्री मान् देवराजः शचीपतिः
अदर्शनं गतो राम ! ब्रह्महत्यानिपीडितः. ॥७५५॥
अश्वमेधेन घो रा या दुःसहाया रघूत्तम !
विमुक्तो ब्रह्महत्यायाः शक्रो विष्णुप्रसादतः. ’ ॥७५६॥
तमाह रामः, ‘ सु म ते ! हयमेधोऽतिपावनः
मुक्तः स्त्रीत्वादिलः पुत्रः कर्दमस्य प्रजापतेः. ॥७५७॥
महासेनो यत्र ज ज्ञे यत्रोमां भगवान् हरः
रमयामास तं देशमाजगाम इलो नृपः. ॥७५८॥
कृत्वात्मानं शिवो य त्र स्त्रीरूपं पुरुषाभिधम्
वृक्षादि च प्रभू रेमे देव्याः प्रियचिकीर्षया. ॥७५९॥
तं देशं स इलो रा जा मृगयायाः प्रसंगतः
प्रविश्यापश्यदात्मानं स्त्रीकृतं सानुगं तदा. ॥७६०॥
ज्ञात्वा तत्प्रभुसा मर्थ्यं जगाम शरणं हरम्
तं प्रहस्याह भगवान् बहुरूपो महेश्वरः. ॥७६१॥
‘ वरं वरय रा ज न् ! मे पुरुषत्वं विनेप्सितम्. ’
प्रणिपत्य शिवा स्तुत्वा प्रार्थयामास खिन्नधीः ॥७६२॥
उमाह, ‘ कार्दमे य ! त्वं मत्तश्चेद्वरमिच्छसि
अर्धस्य दाता देवोऽयं वरस्यार्धस्य चाप्यहम्. ’ ॥७६३॥
प्रजापतेरात्म ज स्तामित्युवाच कृतांजलिः,
‘ मासं स्त्रीत्वं प्राप्य मातर्मासं स्यां पुरुषः पुनः. ’ ॥७६४॥
देव्याह, ‘ कार्दमे य ! त्वं पुमान्मासं भविष्यसि
न स्मरिष्यसि पुंभावे स्त्रीत्वं स्त्रीत्वे च पौरुषम् ॥७६५॥
एवं लब्ध्वा वरं रा जा स इलो मुदमाययौ
स्त्रीत्वे पुत्रं बुधाल्लेभे पुरूरवसमुत्तमम्. ॥७६६॥
एवंभूतोऽपि सु म हत्कृच्छ्रान्मुक्तः स भूपतिः
अश्वमेधेन सौमित्रे ! प्रसादात्परमेशितुः. ॥७६७॥
प्रतिष्ठाने ततः श्री मान् उवास बहुलाः समाः
अश्वमेधसमो यज्ञो न भूतो न भविष्यति. ॥७६८॥
तस्मादावश्यको रा ज्ञामश्वमेधः सतां मतः
मयापि खलु कर्तव्यो वसिष्ठस्याभ्यनुज्ञया. ॥७६९॥
तद्वरिष्ठं मति म तां वामदेवादिभिः सह
वसिष्ठं द्रष्टुमिच्छामि तं त्वं गुरुमिहानय. ॥७७०॥
वसिष्ठादिर्मुनि ज नः समानीतस्तमानतः
रामः प्रांजलिराचख्यावश्वमेधमनोरथम्. ॥७७१॥
तमूचुर्मुनयो, ‘ य ष्टुमश्वमेधेन राघव !
समर्थस्त्वं वयं सर्वे सहायास्तव कर्मणि. ’ ॥७७२॥
गुरूणामाज्ञया रा जा भरतं गोमतीतटे
प्राहिणोन्नैमिषे कर्तुं यज्ञवाटं यथोचितम्. ॥७७३॥
दूतान्प्रस्थाप्य सु म तीन् शत्रुघ्नं कपिनायकम्
बिभीषणं नृपान् विप्रानानयामास सानुगान्. ॥७७४॥
अश्वस्य रक्षणे ज न्यप्रवीणं लक्ष्मणं प्रभुः
व्यादिदेश प्रववृते स यज्ञः परमाद्भुतः. ॥७७५॥
कांचनीं जानकीं य ज्ञक्रियार्हां रघुनंदनः
कारयित्वा ततो दीक्षां जग्राह जगदीश्वरः. ॥७७६॥
तस्मिमन्यज्ञे जनोऽज स्रं हृष्टः पूर्णमनोरथः
दत्तं सर्वं मुखाद्यावद्देहीति न विनिःसृतम्. ॥७७७॥
न बभूवेदृशो य ज्ञः शक्रस्य वरुणस्य वा
यमस्य सोमस्येत्यूचुः सर्व एव तपोधनाः. ॥७७८॥
रात्रिंचरा वान रा श्च सुवेषाः प्रयताः प्रियाः
यज्ञागतानां सर्वेषामासन् सर्वेऽपि किंकराः ॥७७९॥
वाल्मीकिवाटः सु म हान् रुचिरो गोमतीतटे
आसीत्सुमहितो भूपैर्मुनिभिश्च महात्मभिः. ॥७८०॥
शिष्यावुवाच स श्री मान् ‘ युवां गत्वा समाधिना
कृत्स्त्रं रामायणं काव्यं गायतां परया मुदा. ॥७८१॥
यदि पृच्छेद्युवां रा जा रामः कस्येति दारकौ
वाल्मीकेरथ शिप्यौ द्वावेवं ब्रूतां सुनिस्पृहौ. ॥७८२॥
लोभो युवाभ्यां न म नाक्कर्तव्यो धनवांछया
किं धनेनाश्रमस्थानां फलमूलाशिनां सदा. ॥७८३॥
गेयं समग्रं सु ज नौ नावज्ञेयश्च पार्थिवः
पिता हि सर्वभूतानां राजा भवतिधर्मतः. ’ ॥७८४॥
संदिष्टौ तौ विन य तस्तथेति रचितांजली
यथोक्तमृषिणा पूर्वं तत्र तत्राभ्यगायताम्. ॥७८५॥
तां शुश्राव सदा रा ध्यः सत्कृतिं मुनिनिर्मिताम्
बालाभ्यां मधुरं गीतां कौतूहलपरोभवत्. ॥७८६॥
कर्मांतरे सभा म ध्ये समाहूय महामुनीन्
बालौ कुशलवौ गातुं स्थापयामास राघवः. ॥७८७॥
सर्वज्ञसत्समा ज स्थौ श्रोतॄणां हर्षवर्धनम्
गेयं प्रचक्रतुस्तत्र तावुभौ मुनिदारकौ. ॥७८८॥
प्रवृत्तस्य सुगे य स्य श्रवणेनातिहारिणा
नैव तृप्तिं ययुः सर्वे श्रोतारो रामसंसदि. ॥७८९॥
हृष्टा विप्राश्च रा ज न्या वैश्याः शूद्राश्च दारकौ
पिबंत इव चक्षुर्भ्यां पश्यंति स्म मुहुर्मुहुः. ॥७९०॥
ऊचुः परस्परं य ज्ञे संगताह सर्व एव ते
उभौ रामस्य सदृशौ बिंबाद्विंबमिवोद्धृतौ. ॥७९१॥
जटावल्कधरौ रा शी न स्यातां यदि तेजसाम्
विशेषं नाधिगच्छामो गायतो राघवस्य च. ॥७९२॥
ततोऽपराह्णस म ये सर्गान् श्रुत्वा स विंशतिम्
अष्टादशसहस्राणि सुवर्णस्य महात्मनोः. ॥७९३॥
प्रयच्छेति तदा श्री मान् राघवः प्राह लक्ष्मणम्
ददौ स शीघ्रं सौमित्रिस्तयोः स्वर्ण पृथक् पृथक्. ॥७९४॥
दीयमानं कुमा रा भ्यां फलमूलाशिनोर्वने
किमनेनेति ताभ्यां तत्सुवर्णं नोररीकृतम्. ॥७९५॥
तथो तयोः पर म कं वाक्यं श्रुत्वा निरिच्छयोः
श्रोतारश्चैव रामश्च सर्वं एव सुविस्मिताः. ॥७९६॥
पप्रच्छ तौ सुते ज स्कौ रामः कौतूहलान्वितः
‘ कर्ता काव्यस्य कः कास्ते कौ युवा’मिति सादरम्. ॥७९७॥
तमूचतुस्तौ ‘ सु य शा वाल्मीकिर्भगवान्मुनिः
काव्यस्य कर्ता संप्राप्तो यज्ञस्य सविधं प्रभुः. ॥७९८॥
यदि बुद्धिः कृता रा जन् ! श्रवणाय महारथ !
कर्मातरे क्षणीभूतस्तच्छ्टणुष्व सहानुजः. ’ ॥७९९॥
बाढमित्याह सु म ना रामस्तावथ तं तदा
आपृच्छय जग्मतुर्हृष्टौ यत्रास्ते मुनिपुंगवः. ॥८००॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP