संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|संस्कृतकाव्यानि| मंत्ररामायणम्|उत्तरकांडम्| काव्य ५५१ ते ६०० उत्तरकांडम् काव्य १ ते ५० काव्य ५१ ते १०० काव्य १०१ ते १५० काव्य १५१ ते २०० काव्य २०१ ते २५० काव्य २५१ ते ३०० काव्य ३०१ ते ३५० काव्य ३५१ ते ४०० काव्य ४०१ ते ४५० काव्य ४५१ ते ५०० काव्य ५०१ ते ५५० काव्य ५५१ ते ६०० काव्य ६०१ ते ६५० काव्य ६५१ ते ७०० काव्य ७०१ ते ७५० काव्य ७५१ ते ८०० काव्य ८०१ ते ८५० काव्य ८५१ ते ९०० काव्य ९०१ ते ९५० काव्य ९५१ ते १००० काव्य १००१ ते १०२७ मंत्रगणना उत्तरकांडम् - काव्य ५५१ ते ६०० उत्तरकाण्डम् या प्रकरणातील श्लोकातील सातवे अक्षर श्री रा म ज य रा म ज य ज य रा म असे आहे. Tags : mayurramramayanमयूररामरामायणसंस्कृत काव्य ५५१ ते ६०० Translation - भाषांतर एवं रघूत्तम ! य थाप्रज्ञं बहुविधा गिरः वदंति नगरे राष्ट्रे सर्वत्रोच्छृंखला जनाः. ’ ॥५५१॥श्रुत्वा दूतवचो रा जा राघवः परमार्तवत्उवाच, ‘ सुहृदस्तत्त्वं भवंतोऽपि वदंत्विति. ’ ॥५५२॥ सर्वेऽपि शिरसा म ह्यामभिवाद्य नताननाः प्रत्यूचू रागह्वं दीन‘मेवमेतन्न संशयः. ’ ॥५५३॥विसर्जयामास ज गन्नाथस्तान्त्सुहृदस्ततः अनुजांस्तूर्णमानाय्य न्याय्यमाह कृतांजलीन्. ॥५५४॥‘ सीता प्रिया मे प्र य ता दिव्योत्तीर्णा कुलोद्भवा तथापि पौरास्तां मां च निंदंतीति मया श्रुतम्. ॥५५५॥अप्यहं जीवितं ज ह्यां युष्मान् वा पुरुषर्षभाःअपवादभयाद्भीतः किं पुनर्जनकात्मजाम्. ॥५५६॥अहमिक्ष्वाक्कन्व य जः, कीर्त्यर्थं जीव्यते बुधैः श्वस्त्वं लक्ष्मण ! वाल्मीकेराश्रमे त्यज जानकीम्. ॥५५७॥प्रह्याख्यानं त्वया रा ज्ञो न कर्तव्यं विजानता अप्रीतिर्मे परा वत्स ! कार्येऽस्मिन्प्रतिवारिते. ॥५५८॥पूर्वमुक्तोऽस्मि सु म ते ! ऽनयाहं तापसाश्रमान् पश्येयमिति तस्याश्च कामोऽनुष्ठीयतामयम्. ’ ॥५५९॥एवमुक्त्वाथ स श्री मान् बाष्पेणापिहिताननः तान्विसृज्यानुजान्त्साश्रून्प्रविवेश स्वमंदिरम्. ॥५६०॥शापितास्तेन धी रा स्ते पादाभ्यां जीवितेन च नोचुः किंचन शोकार्ताः केवलं रुरुदुस्तदा. ॥५६१॥धर्मन्यायस्थिर म तिर्लक्ष्मणः स्वप्रजावतीम् प्रातः प्रोवाच, ‘ मातस्त्वामहं नेतुं तपोवनम्. ॥५६२॥आज्ञया रघुरा ज स्य प्राप्तोऽस्म्येष रथस्तव. ’ तच्छ्रुत्वा मुदिता देवी बभूव जनकात्मजा. ॥५६३॥वस्त्राणि रत्नानि य यावादायारुह्य तं रथम्पथि दृष्ट्वा निमित्तानि सीता चिंतान्विताभवत्. ॥५६४॥अब्रवीच्च तदा रा ज्ञी लक्ष्मणं विहितांजलिम्, ‘ अशुभानि बहून्येव पश्यामि रघुनंदन ! ॥५६५॥मनोऽस्वस्थं किं नु म म स्फुरत्यक्ष्यद्य दक्षिणम् औत्सुक्यमधृतिश्चापि गात्रोत्कंपश्च जायते. ॥५६६॥पश्यामि भूमिं वि ज नामिवाद्य पृथुलोचन ! अपि स्वस्ति भवेत्तस्य भ्रातुस्ते भ्रातृवत्सल ! ॥५६७॥श्वश्रूणां चैव मे य श्च सुहृद्वर्गोऽत्र वर्तते अपि सर्वस्य कुशलं जनस्य पुरवासिनः. ’ ॥५६८॥इति प्रांजलिरा ज न्मशुद्धाचारा महाव्रता सर्वेषां कुशलार्थ सा देवता अभ्ययाचत. ॥५६९॥कृतांजलिस्तां प्र य तो नत्वा सौमित्रिरात्मवान्शिवमित्यब्रवीद्धृष्टो हृदयेन विशुष्यता. ॥५७०॥सा गौतम्यास्तटे रा मा रामारामावसन्निशाम् सुमंत्रयोजितरथे प्रातः संस्थाप्य मैथिलीम् ॥५७१॥ययौ सौमित्रिर म रस्रवंतीं विश्ववंदिताम्निरीक्ष्य तामथो दीनः प्ररुरोद महास्वनः. ॥५७२॥तमुवाच ततः श्री मद्द्रामस्य महिषी प्रिया,‘ स्वस्थो भव महाबुद्धे ! किमर्थं रुद्यते त्वथा ? ॥५७३॥हर्षस्य काले वी रा द्य विषादयसि मां कुतः ? कच्चिद्विनाकृतस्तेन द्विरात्रं शोकमागतः. ॥५७४॥प्रियो ममापि सु म ते ! राघवो जीवितादपि न चाहमेवं शोचाभि मैवं त्वं बालिशो भव. ॥५७५॥तारयस्वाशु मां ज ह्नुकन्यां दर्शय तापसान्ततो मुनिभ्यो वासांसि ददाम्याभरणानि च. ॥५७६॥महर्षीणां वीर ! य था योग्यं कृत्वाभिवादनम् तत्र चैकां निशामुष्य यास्यामस्तां पुरीं पुनः. ॥५७७॥द्रष्टुं रामं पुष्क रा क्षं ममापि त्वरते मनः. ’ लक्ष्मणस्तद्वचः श्रुत्वा प्रमृज्य नयने शुभे ॥५७८॥आरुरोह तरिं म न्युमांस्तामारोप्य मैथिलीम् सुमंत्रं स्थीयतामाह प्रयाहीति च नाविकम्. ॥५७९॥गंगातटं प्राप्य ज वात्प्रांजलिं प्राह जानकीम्, ‘ मातर्मे हृदये शल्यं महदेतत्सुदुःसहम्. ॥५८०॥कर्मण्यस्मिन्यो ज य ता निंद्योऽहं प्रभुणा कृतः अकार्यं कुर्वतो मातः ! श्रेयो मरणमद्य मे. ॥५८१॥प्रसीद त्वं सह ज या दययाढ्यासि शोभने ! न मेऽघमर्हसि ज्ञातुं भो मातः ! परवानहम्. ’ ॥५८२॥इति प्रांजलिरा य त्तो निपपात क्षितौ रुदन्तं सीतोवाच, ‘ किमिदं नावगच्छामि लक्ष्मण ! ॥५८३॥ब्रूहि त्वं तत्वतो रा ज्ञा शापितोऽसि मयानघ श्रोतुमिच्छामि हृच्छल्यमहमाज्ञापयामि ते. ’ ॥५८४॥एवमुक्तः खिन्न म नाः प्राह प्रांजलिरीश्वरीम्, ‘ देवि ! पौरापवादेन त्यक्तासि प्रभुणा वने. ॥५८५॥वक्तुं शक्यो न स श्री मत्यपवादस्तवाग्रतः पितुः सखा मे वाल्मीकिर्वसत्यत्राश्रमे प्रभुः. ॥५८६॥पादच्छायां तपो रा शेरुपागम्यास्य सन्मुनेः उपवासपरैकाग्रा वस त्वं जनकात्मजे ! ॥५८७॥व्रतमास्थाय वि म लं रामं कृत्वा सदा हृदि श्रेयस्ते परमं देवि ! तथा कृत्वा भविष्यति. ’ ॥५८८॥श्रुत्वा जनकरा ज स्य सुता तद्देवरोदितम्परं विषादमागम्य निपपात धरातले. ॥५८९॥संज्ञामवाच्य प्र य ता विललाप भृशं तदा, ‘ धात्रा मम तनुर्नूनं सृष्टा दुःखाय लक्ष्मण ! ॥५९०॥यस्यास्तथा दुःख रा शिर्दारुणोऽध प्रदृश्यते याहं शुद्धसमाचारा त्यक्ता नृपतिना सती. ॥५९१॥पापं कृतं किंनु म हत्को वा दारैर्वियोजितः कुन्नु वक्ष्यामि मुनिषु कर्म त्यागोचितं कृतम्. ॥५९२॥न खल्वद्यैवात्र ज ले जाह्नव्या जीवितं निजम्त्यजेयं, राजवंशो मे भर्तुर्मयि रघूत्तम ! ॥५९३॥आज्ञां कर्तुं साधु य त त्यज मां दुःखभागिनीम्श्वश्रूणां चरणौ नत्वा कुशलं ब्रूहि पार्थिवम्. ॥५९४॥वक्तव्यश्च स रा ज न्यश्रेष्टो भर्ता महायशाः अपवादभयात्त्यक्ता त्वयाहमुचितं कृतम्. ॥५९५॥सद्वृत्तिर्भ्रातृषु य था पौरेष्वपि तथास्तु तेस्वदेहं नानुशोचामि देवो बंधुर्गुरुः पतिः. ॥५९६॥प्राणैरपि प्रियं रा जन् ! भर्तुः कार्यं स्त्रिया सदा तस्मादहं न शोचामि सुयशास्त्वं सुखी भव. ॥५९७॥इति मद्वचसा म ह्या वक्तव्यः स पतिस्त्वया निरीक्ष्य माद्य गच्छ त्वमृतुकालातिवर्तिनीम्. ’ ॥५९८॥शोकम्लानमुख श्री कः शिरसा स्पृश्य मेदिनीम्प्रदक्षिणं च तां कृत्वा व्याहर्तुं न शशाक सः. ॥५९९॥ध्यात्वा मुहूर्तं तां रा ज्ञीमाह रामानुजो रुदन्, ‘ किं मां निरीक्ष्य गच्छेति त्वं वदस्यद्य शोभने ! ॥६००॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP