संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|संस्कृतकाव्यानि| मंत्ररामायणम्|उत्तरकांडम्| काव्य २०१ ते २५० उत्तरकांडम् काव्य १ ते ५० काव्य ५१ ते १०० काव्य १०१ ते १५० काव्य १५१ ते २०० काव्य २०१ ते २५० काव्य २५१ ते ३०० काव्य ३०१ ते ३५० काव्य ३५१ ते ४०० काव्य ४०१ ते ४५० काव्य ४५१ ते ५०० काव्य ५०१ ते ५५० काव्य ५५१ ते ६०० काव्य ६०१ ते ६५० काव्य ६५१ ते ७०० काव्य ७०१ ते ७५० काव्य ७५१ ते ८०० काव्य ८०१ ते ८५० काव्य ८५१ ते ९०० काव्य ९०१ ते ९५० काव्य ९५१ ते १००० काव्य १००१ ते १०२७ मंत्रगणना उत्तरकांडम् - काव्य २०१ ते २५० उत्तरकाण्डम् या प्रकरणातील श्लोकातील सातवे अक्षर श्री रा म ज य रा म ज य ज य रा म असे आहे. Tags : mayurramramayanमयूररामरामायणसंस्कृत काव्य २०१ ते २५० Translation - भाषांतर अवज्ञाय समा रा ध्यं द्वितीयमिव शंकरम् श्रीमदांधो जहासोच्चैर्नंदीश्वरमसत्तमः. ॥२०१॥नंदी तमाह सा म र्षो, ‘ यस्मान्मां कपिरूपिणम्अवज्ञाय प्रहासं त्वं कृतवान् बलदर्पितः. ॥२०२॥तस्मान्मद्रूपते ज स्का मनःसंपातरंहसः उत्पत्स्यंति वधार्थं हि कुलस्य तव वानराः. ’ ॥२०३॥एवं शप्ते तत्क्ष य स्य निश्चयोत्थप्रहर्षतः देवदुंदुभयो नेदुः पुष्पवृष्टिश्च खाच्च्युता. ॥२०४॥अचिंतयित्वा स ज गत्पतिप्रतिनिधेर्वचःपर्वतं तं समासाद्य वाक्यमाह दशाननः. ॥२०५॥‘ क्रीडा ते गोपते ! य त्र पुष्पकस्य गतिस्त्वयायतश्छिन्ना तं तवेमं समुन्मूलं करोम्यगम्. ॥२०६॥केनौजसात्र मा रा रिर्नित्यं क्रीडति राजवत् विज्ञातव्यं न जानीते भयस्थानमुपस्थितम्. ’ ॥२०७॥एवमुक्त्वा स सा म र्थ्याद्विक्षिप्याधो गिरेर्भुजान् तोलयामास तं शीघ्रं, स शैलः समकंपत. ॥२०८॥गिरेश्चालनतः श्री मत्युमा सा भगवत्यपि चचालालिंगितवती मानिन्यपि महेश्वरम्. ॥२०९॥ततो राम ! पुरा रा तिर्देवानां प्रभवो हरः पादांगुष्ठेन तं शैलं पीडयामास लीलया. ॥२१०॥पीडितास्तद्भुजा म ध्ये मूलं राम ! महागिरेः विस्मिताश्चाभवंस्तत्र सचिवास्तस्य रक्षसः. ॥२११॥तेनातिरोषाद्भु ज गप्रभबाह्वतिपीडनात् मुक्तो विरावः सहसा त्रैलोक्यं येन कंपितम्. ॥२१२॥‘ महादेवं तोष य स्व नीलकंठमुमापतिम्तमृते शरणं नान्यं पश्यामोऽत्र दशानन ! ’ ॥२१३॥इत्युक्तो रक्षसां रा जा सचिवैः स तथाकरोत्,संवत्सरसहस्रं तु रुदतो रक्षसो गतम्. ॥२१४॥ततः प्रणम्य स म नः स्थिरीकृत्य महेश्वरम्तुष्टाव सामभिः स्तोत्रैर्विविधैः करुणार्णवम्.॥२१५॥ततः प्रीतः प्राह ज गत्पतिर्मुक्त्वा भुजान्नतम्, ‘ शैलाक्रांतेन यो मुक्तस्वयारावः सुदारुणः. ॥२१६॥भीतं च शब्दितं य स्माद्तल्लोकत्रयं भृशम्तस्मात्त्वं रावणो नाम्ना ख्यातो राजन् ! भविष्यसि. ॥२१७॥अनुज्ञातोऽद्य व्र ज त्वमि’त्युक्तो रावणोऽब्रवीत्, ‘ यदि देव ! प्रसन्नोऽसि वरं मे देहि याचतः. ॥२१८॥ अवध्यत्वं मया य त्रात्प्राप्तं देव ! चतुर्मुखात् निर्विघ्नमायुषः शेषं शस्त्रं च त्वं प्रयच्छ मे. ’ ॥२१९॥ एवमुक्तः स्मरा रा तिश्चंद्रहासमसिं वरम् शापाद्यनाश्यं च ददावायुषः शेषमीश्वरः. ॥२२०॥आज्ञामवाप्य न म नंस कृत्वारुह्य पुष्पकम् ततो महीतलं राम ! पर्यक्रामत रावणः. ॥२२१॥ क्षत्रियान् बलिनः श्री मान् बाधमानश्चरन् भुवि कन्यामपश्यद्धिमवद्वनेऽजिनजटाधराम्. ॥२२२॥तामपृच्छत्स स्म रा र्तः ‘ का त्वं कस्ये’ति सा सती विधिना तस्य चातिथ्यं कृत्वोवाच तपस्विनी. ॥२२३॥ ‘ कुशध्वजो नाम म म ब्रह्मर्षिरमितप्रभः बृहस्पतिसुतस्तातो बुद्ध्या यो गुरुणा समः. ॥२२४॥तस्याहं कुर्वतोऽ ज स्रं वेदाभ्यासं महात्मनः संभूता वाड्मयी कन्या नाम्ना वेदवती स्मृता. ॥२२५॥सुरादिभिः कृतो य त्रो मदर्थं राक्षसेश्वर ! विष्णुरेवात्यभिप्रेतो जामाता मत्पितुः प्रभुः. ॥२२६॥दैत्येन शंभुना रा त्रौ सुप्तस्तातो हतस्ततः तनुं तस्य परिष्वज्य प्रविष्टाग्निं प्रसूर्मम. ॥२२७॥पितुर्मनोरथ म हं स्त्यं कर्तुं निरंतरम् तमेव जगतां नाथं हृदयेन समुद्वहे. ॥२२८॥कर्तुं स्वं सफलं ज न्म चरामि विपुलं तपः कथितं वृत्तमेतन्मे गच्छ पौलस्त्यनंदन ! ’ ॥२२९॥श्रुत्वाब्रवीत्स भू य स्तां, ‘ यौवनं तेऽतिवर्तते, त्रैलोक्यसुंदरि ! त्वं मे भव भार्या शुचिस्मिते ! ॥२३०॥कष्टैरलं, न वि ज ने वने वस्तुं त्वमर्हसि वीर्येण तपसा भोगैर्न स विष्णुर्मया समः. ’ ॥२३१॥ प्रोवाच तं सा प्र य ता, ‘ मां मैवं जगदीश्वरम् त्वदृते राक्षसेंद्रान्यः कोऽवमन्येत बुद्धिमान् ? ॥२३२॥एवमुक्ते त या रा जन् ! कन्यां तां मूर्धजेषु सः बलाज्जग्राह कामांध, सा चुकोप तपस्विनी. ॥२३३॥केशान् परात्तान्स म लान् कन्या वेदवती तदा कराग्रेणाच्छिनत्खड्गभावं नीतेन तेजसा. ॥२३४॥मर्तुं कृतत्वरा श्री मन्नुवाच तमघाचलम् ‘ धर्षितायास्त्वयानार्य ! न मे जीवनमिष्यते. ॥२३५॥ वधार्थं ते पुना रा त्रिंचरोत्पत्स्ये तपोऽस्ति चेत् प्रख्यातायोनिजा साध्वी भवेयं धर्मिणः सुता. ’ ॥२३६॥ इत्युक्त्वा सा तप्त म नाः प्रविष्टा जातवेदसम् सैषा श्रीर्जानकी भार्या तव त्वं विष्णुरव्ययः. ॥२३७॥ प्रायादुशीरबी ज स्थं मरुत्तं रावणस्ततः भयन्महेंद्रः संवृत्तो मयूरस्तस्य रक्षसः. ॥२३८॥वायसोऽभूत्तत्र य मः कृकलासो धनेश्वरः संवृत्तो वरुणो हंसस्तिर्यग्योनिं गताः सुराः. ॥२३९॥ तमासाद्य महा रा जं मरुत्तं राक्षसाधिपः प्राह, ‘ युद्धं प्रयच्छेति निर्जितोऽस्मीति वा वद. ’ ॥२४०॥ स द्विषन्नीरद म रुन्मरुत्तःप्राह, ‘ को भवान् ? ’अवहासं ततो मुक्त्वा रक्षसां पतिरब्रवीत्. ॥२४१॥‘ अविस्मयेन रा ज न्य ! भृशं प्रीतोऽस्म्यहं तव धनदस्यानुजं यो मां नावगच्छसि रावणम्. ॥२४२॥लाके कोन्योस्त्यहो य स्तं मां न जानाति विश्रुतम् भ्रातरं येन निर्जित्य विमानमिदमाहृतम्. ॥२४३॥तं दशास्यं मनु ज राट् स मरुत्तस्तदाब्रवीत्, ‘ धन्यः खलु भवान् येन ज्येष्ठो भ्राता रणे जितः. ॥२४४॥श्लाघ्यो जगत्सु सु य शास्त्वादृशोऽन्यो न विद्यते,कं त्वं प्राक्केवलं धर्मं चरित्वा लब्धवान् वरम्. ॥२४५॥श्रुतपूर्वं न मे राजन् ! यादृशं भाषसे स्वयम्तिष्ठेदानीं न मे जीवन् प्रतियास्यसि दुर्मते ! ॥२४६॥प्रेषयामि त्वां य म स्य क्षयं तीक्ष्णैः शरैरहम् इत्युक्त्वेषुधनुष्पाणिः संगराय स निर्ययौ. ॥२४७॥बृहस्पत्यनुजः श्री मान्त्संवर्तो दीक्षितं नृपम् वारयामास सत्रस्थं, स निर्वृत्तो गुरोर्गिरा. ॥२४८॥तं मत्वा निर्जितं रा जन् ! राक्षसः शुकनामकः ‘ रावणो जयती ’ त्युच्चैर्घोषयामास हर्षितः. ॥२४९॥भक्षयित्वा तत्र म त्तो यज्ञवाटस्थितानृषीन् गतो दशाननोन्यत्र नृपानन्यान् जयन् भुवि. ॥२५०॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP