संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|संस्कृतकाव्यानि| मंत्ररामायणम्|उत्तरकांडम्| काव्य ९०१ ते ९५० उत्तरकांडम् काव्य १ ते ५० काव्य ५१ ते १०० काव्य १०१ ते १५० काव्य १५१ ते २०० काव्य २०१ ते २५० काव्य २५१ ते ३०० काव्य ३०१ ते ३५० काव्य ३५१ ते ४०० काव्य ४०१ ते ४५० काव्य ४५१ ते ५०० काव्य ५०१ ते ५५० काव्य ५५१ ते ६०० काव्य ६०१ ते ६५० काव्य ६५१ ते ७०० काव्य ७०१ ते ७५० काव्य ७५१ ते ८०० काव्य ८०१ ते ८५० काव्य ८५१ ते ९०० काव्य ९०१ ते ९५० काव्य ९५१ ते १००० काव्य १००१ ते १०२७ मंत्रगणना उत्तरकांडम् - काव्य ९०१ ते ९५० उत्तरकाण्डम् या प्रकरणातील श्लोकातील सातवे अक्षर श्री रा म ज य रा म ज य ज य रा म असे आहे. Tags : mayurramramayanमयूररामरामायणसंस्कृत काव्य ९०१ ते ९५० Translation - भाषांतर यः श्रोता कोपि रा ज न् ! यो द्रष्टा वा रघुनंदन ! स वध्यस्तव रामाज्ञा मुनींद्रस्येदृशी स्फुटा. ’ ॥९०१॥सुदृढव्यवसा य स्तच्छ्रुत्वा तापसभाषितम् तथेति स प्रतिज्ञाय रामो लक्ष्मणमब्रवीत्. ॥९०२॥‘ द्वारि तिष्ठ प्रवी रा द्य द्वास्थं त्वमपसारय,वाचं यः शृणुयाद्वा नौ पश्येद्वध्यः स मे भवेत्. ’ ॥९०३॥द्वारि निक्षिप्य सु म तिं लक्ष्मणं लक्ष्मणाग्रजःतमुवाच मुनिं वाक्यं कथयस्वेति सोऽब्रवीत्. ॥९०४॥‘ वचनं शृणु रा ज न्मे यदर्थमहमागतः पितामहेन देवेन प्रेषितोऽस्मि महाबल ! ॥९०५॥कालोऽहं भूरि गा य स्य तव पुत्रो रघूत्तम ! समयो यः कृतः पूर्वं परिपूर्णः स सत्पते ! ॥९०६॥हत्वा दशास्यं त्रि ज गत्त्वया निष्कंटकं कृतम् समयोऽयं निजं लोकमागंतुं जगदीश्वर ! ॥९०७॥नृलोके समयो य स्ते कृतो वस्तुं सुरेश्वर ! दशवर्षसहस्राणि दशवर्षशतानि च, ॥९०८॥स संपूर्णो महा रा ज ! प्रजाः संरक्षितुं यदि भूयोऽपीच्छसि भद्रं ते वस राम ! यथासुखम्. ’ ॥९०९॥एवं पितामह म तं श्रुत्वा कालमुखात्प्रभुः प्रहसन्नब्रवीत् ‘ काल ! मान्यं ब्रह्मवचो मम. ॥९१०॥कार्यमेव मया श्री मान् यथैवाह पितामहः. ’ ‘ भद्रं तेऽस्तु गमिष्यामि यत एवाहमागतः. ’ ॥९११॥तथा तयोः काल राजश्रेष्ठयोर्वदतोर्मिथः दुर्वासा भगवान् योगी राजद्वारमुपागमत्. ॥९१२॥स पुत्रोऽत्रेरुग्र म हा द्वास्थं सौमित्रिमब्रवीत्, ममार्थोतिक्रमत्याशु, रामं दर्शय कुत्र सः. ’ ॥९१३॥नत्वा रामस्यानु ज स्तं मुनिमाह कृतांजलिः,‘ कोऽर्थस्ते भगवन् ! रामो व्यग्रस्तिष्ठ क्षणं मुने ! ॥९१४॥स चंड आह, ‘ मां य त्रादस्मिन्नेव क्षणे द्रुतम्प्रतिवेदय रामाय दुर्वासा विश्रुतो ह्यहम्. ॥९१५॥नो चेत्त्वामथ तं रा मं शत्रुघ्नं भरतं तथासंततिं नगरं राष्ट्रं, शप्त्वा यास्येऽवमानितः. ’ ॥९१६॥स ‘ एकस्यास्तु म म मा सर्वेषां मरणं समम् ’ इति बुद्ध्या विनिश्चित्य राघवाय न्यवेदयत्. ॥९१७॥ कालं विसृज्य स ज गद्भर्ता दुर्वाससं मुनिम्प्रत्युद्गम्य प्रणम्याह, ‘ किं कार्यं भगवन्निति. ’ ॥९१८॥रामं प्रत्याह स य मिप्रवरोऽनशनव्रतम् अयुताब्दं कृतं सिद्धमन्नमिच्छामि राघव !’ ॥९१९॥श्रुत्वाशु रघुरा ज स्तद्वाक्यं सुप्रीतमानसःभोजनं मुनिमुख्याय यथासिद्धमुपाहरत्. ॥९२०॥स तद्भुक्त्वास्तूद य स्ते सदेत्युक्त्वा महातपाःतृप्तोऽमृतसान्नेन स्वमाश्रममुपागमत्. ॥९२१॥ स्मृत्वा कालवचो रा जा स्वां प्रतिज्ञां च वत्सलः दुःखितोऽवाड्मुखस्तूष्णीं तस्थौ तं लक्ष्मणोऽब्रवीत्. ॥९२२॥‘ महाराज ! त्वम म लां स्वां कीर्तिं सुस्थिरां कुरु,जहि मां सौम्य ! विस्रब्धं प्रतिज्ञां परिपालय. ॥९२३॥भग्नप्रतिज्ञा ये श्री मंस्ते यांति नरकं नराः जहि मां निर्विशंकस्त्वं धर्म वर्धय राघव ! ’ ॥९२४॥तथोक्तः शोकभा रा र्तो बभूवाकुलमानसःतद्वृत्तं सुहृदां मध्ये कथयामास सन्नवाक्. ॥९२५॥मंत्रिणो गतसा म र्थ्यास्तूष्णीमासन्विचेतसः अथोव्बाच वसिष्ठस्तं सत्यसंधं महामतिः. ॥९२६॥‘ दृष्टं मयैतद्रा ज र्षे ! तत्त्वज्ञाच्च श्रुतं पुरा लक्ष्मणेन वियोगोऽयं भवितैव तव प्रभो ! ॥९२७॥त्यजैनं राम ! सु य शाः प्रतिज्ञा मा वृथा कृथाः प्रतिज्ञायां विनष्टायां धर्मः सर्वोऽपि नश्यति. ’ ॥९२८॥स गुरोः सत्यसा रा त्तच्छ्रुत्वा वाक्यमकल्पषम् धैर्यात्परिषदो मध्ये रामो लक्ष्मणमब्रवीत्. ॥९२९॥‘ विसर्जये त्वां सु म ते ! मा भूद्धर्मविपर्ययःत्यागो वधो वा विहितः साधूनामुभयं समम् ’ ॥९३०॥इत्युक्तः साश्रुर ज नि प्रभुं नत्वा स लक्ष्मणः विवेश वेश्म न प्रायातसरयूतीरमात्मवान्. ॥९३१॥तत्रोपस्पृश्य स य तस्रोता बध्वासनं दृढम् योगयुक्तोऽभवद्धीमान् संस्मरन् राममात्मनि. ॥९३२॥शक्रादयस्तम ज रा दिव्यैः पुष्पैर्मनोहरैः अवकीर्य मुदा स्तुत्वा गीतैर्वाद्यैश्च नर्तनैः. ॥९३३॥सत्कृत्य सर्वप्रि य कृत्प्रवरं राघवानुजम् सशरीरं विमानेन स्वर्गं निन्युः कृतोत्सवाः. ॥९३४॥विसृज्य लक्ष्मणं रा मो दुःखशोकसमन्वितः पुरोधसो मंत्रिणश्च नैगमांश्चेदमब्रवीत्. ॥९३५॥‘ अयोध्यायां पतिं म ह्या भरतं धर्मवत्सलम्वीरमद्याभिषेक्षामि ततो यास्याम्यहं वनम्. ॥९३६॥ राजास्तु भरतः श्री मान्त्संभारानानयंत्विहअद्यैवाहं गमिष्यामि लक्ष्मणेन गतां गतिम्. ’ ॥९३७॥तच्छ्रुत्वा वचनं रा ज्ञः सर्वाः प्रकृतयो भृशम्शिरोभिः प्रणता भूमौ गतसत्त्वा इवाभवन्. ॥९३८॥भरतश्चापि वि म ना विसंज्ञोऽभूत्तदा भृशम्राज्यं विगर्हयामास वचनं चेदमब्रवीत्. ॥९३९॥‘ वचनं शृणु रा ज न् ! मे राज्यं स्वर्गं त्वया विना न कामये क्षणं स्वप्ने सत्येनाहं शपे प्रभो ! ॥९४०॥कुशो लवश्च न य विद्धर्मवित्प्रवरः प्रभो ! कोसलेषूत्तरेष्वेतावभिषेक्तुं त्वमर्हसि. ॥९४१॥इतो दूताः सत्व रा स्तं शत्रुघ्नं प्रति राघव ! गच्छंत्वाख्यातुमस्माकं गमनं भक्तवत्सल !’ ॥९४२॥ततो गुरुः प्राह, ‘ म हीं पश्येमाः प्रकृतीर्गताः ज्ञात्वासामीप्सितं कार्यं वत्स ! मा विप्रियं कृथाः. ’ ॥९४३॥दयालुरुत्थाप्य ज नान् किं करोमीत्यथाब्रवीत्ततः सर्वेपि ते भक्ता रामं वचनमब्रुवन्. ॥९४४॥‘ सदाराः ससुता य त्तास्त्यक्त्वा सर्वस्वमीश्वर ! गच्छंतमनुगच्छामो यत्र राम ! गमिष्यसि. ’ ॥९४५॥भक्तान्त्समस्तान्त्स्व ज नान् बाढमित्येव सोऽब्रवीत्ततोऽभिषिच्य तौ पुत्रावंकमारोप्य वत्सलः. ॥९४६॥परिष्वज्य स्वप्रि य कृन्मूर्ध्न्युप्राघ्राय चासकृत् स्वे पुरे प्रेषयामास सुसंपन्नौ कुशीलवौ. ॥९४७॥ततः परं सदा रा ध्यो रामो राजीवलोचनः दूतान्त्संप्रेषयामास शत्रुघ्नाय महात्मने. ॥९४८॥प्रभुणा प्रेषिता म ध्येऽकृतवासा महाजवाःदूतास्त्रिभिरहोरात्रैः साकेतन्मधुरां ययुः. ॥९४९॥शत्रुघ्नायाय ते श्री मद्वृत्तमाचख्युरद्भुतम्लक्ष्मणस्य परित्यागं प्रतिज्ञां रागह्वस्य ताम्. ॥९५०॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP