TransLiteral Foundation

उत्तरकांडम् - काव्य ८५१ ते ९००

उत्तरकाण्डम् या प्रकरणातील श्लोकातील सातवे अक्षर श्री रा म ज य रा म ज य ज य रा म असे आहे.


काव्य ८५१ ते ९००
एवमुक्त्वा सदा रा ध्यः श्वोभूते मुनिभिः सह
तं जनौघं निवृत्यागात्पर्णशालां महामुनेः. ॥८५१॥
कुशीलवै श्रोतु म नाः सोऽब्रवीद्राघवः सुतौ
गीयतामविशंकाभ्यामिति वाल्मीकिसंनिधौ. ॥८५२॥
तेषूपविष्टेषु ज गत्पूजितेषु महात्मसु
भविष्यदुत्तरं काव्यं जगतुस्तौ कुशीलवौ. ॥८५३॥
श्रुत्वा रहस्यं प्र य तैर्मुनिभिः सह राघवः
ततो विसर्जयामास सर्वान् यज्ञागतान्नृपान्. ॥८५४॥
यज्ञावसाने स्व ज नैः सहितः सकलैरपि
एकाकिनमिवात्मानं मेने जनकजां विना. ॥८५५॥
यदा वियुक्तः प्रि य या तया सद्गुणसंपदा
बभूव तत्स्मृतिस्तस्य सुधीरस्यापि कंपदा. ॥८५६॥
बभूव दुःखभा रा र्तः सीतां स्मृत्वा क्षणे क्षणे
रामः शून्यं जगन्मेने न शांतिं मनसागमत्. ॥८५७॥
सर्वान्विसृज्य प्र म दां हृदि कृत्वानुजैः सह
प्रविवेश ततोऽयोध्यां रामो राजीवलोचनः. ॥८५८॥
न सीतायाः परां श्री मान् वव्रे भार्यां रघूत्तमः
यज्ञे यज्ञे च पत्न्यर्थं सैवाभूत्कांचनी प्रभोः. ॥८५९॥
धर्मेण राघवो रा ज्यं चकार स महायशाः
दशवर्षसहस्राणि वाजिमेधानथाकरोत्. ॥८६०॥
चक्रेऽत्यद्भुत सा म र्थ्यस्ततो दशरथात्मजः
वाजपेयान्दशगुणांस्तथा बह्वाप्तदक्षिणान्. ॥८६१॥
अग्निष्टोमैश्च ते ज स्वी सोऽतिरात्रैश्च राघवः
ईजे क्रतुभिरन्यैश्च श्रीमान् बहुसुवर्णकैः ॥८६२॥
सदैव धर्मे प्र य तमानस्यैवं धरापतेः
स कालो व्यत्ययात्तस्य राघवस्य महात्मनः. ॥८६३॥
वानरास्तं महा रा जमृक्षा रात्रिंचराश्च ये
सदानुरंजयंत्याज्ञानिरता रघुनंदनम्. ॥८६४॥
वृष्टिर्बभूव स म ये नाकाले निधनं तदा
हृष्टपुष्टजनाकीर्णं पुरं जनपदास्तथा. ॥८६५॥
अथ ता मातरो ज ग्मुः स्वर्गं रामस्य सुव्रताः
पुत्रपौत्रैः परिवृताः प्रापुर्दशरथं पतिम्. ॥८६६॥
तासां चकार सु य शाः स्वयं धर्म्याः क्रियाः प्रभुः
ता उद्दिश्य ब्राह्मणेभ्यो ददौ दानानि वत्सलः. ॥८६७॥
युधाजिताथ द्वि ज पो गार्ग्यो निजपुरोहितः
दत्त्वायुतं हयान्नानावस्त्रवत्रधनं बहु. ॥८६८॥
संप्रेषितस्तं प्रि य कृत् राघवो भ्रातृभिः सह
प्रत्युद्गम्य क्रोशमात्रं पूजयामास सादरम्. ॥८६९॥
संपूज्य तमृषिं राजा तद्धनं प्रतिगृह्य च
पृष्ट्वाथ कुशलं सर्वं मातुलस्य युधाजितः. ॥८७०॥
‘ किमाह मातुलो म ह्यं यदर्थं त्वमिहागतः
तत्सर्वं भगवन् ! ब्रूहि ’ स श्रीमानित्युवाच तम्. ॥८७१॥
गार्ग्यःप्राह, ‘ तव श्री मान्मातुलस्त्वाह राघव ?
सिंधोर्नदस्योभयतः पार्श्वेऽयं विषयो महान्. ॥८७२॥
शैलूषस्य सुता रा ज्ञो गंधर्वाणां महाबलाः
तिस्रः कोठ्य इमं देशं रक्षंति रणकोविदाः. ॥८७३॥
तान्निर्जित्य रणे म त्तान् गंधर्वनगरं च तत्
निवेशय पुरे द्वे स्वे देशोऽयमतिशोभनः. ’ ॥८७४॥
तमाह बाढं रा ज र्षिस्तक्षपुष्कलनामकौ
भरतस्यात्मजौ वीरौ तं देशं विचरिष्यतः. ’ ॥८७५॥
एवमुक्त्वा पुण्य य शाः कुमारावभ्यषिच्य तौ
प्रेषयामास भरतं महत्या सेनया सह. ॥८७६॥
मातुलेन सहा रा त्तद्गंधर्वनगरं ततः
सप्तरात्रं महायुद्धं भरतस्तैः सहाकरोत्. ॥८७७॥
ततस्तेषु महा म न्युर्भरतो राघवानुजः
संवर्तमस्त्रं मत्तेषु गंधर्वेष्यभ्यचोदयत्. ॥८७८॥
कालपाशसिता ज ग्मुर्विलयं सर्व एव ते
क्षणेनाभिहतास्तेन तिस्रः कोट्यो महात्मना. ॥८७९॥
नानायुधधरा य त्ता गंधर्वा भस्मसात्कृताः
तद्युद्धं तादृशं घोरं न स्मरंति दिवौकसः ॥८८०॥
ततो रामस्यानु ज न्मा तस्मिन् देशे पुरे वरे
निवेशयामास तयोः स्थापयामास नंदनौ. ॥८८१॥
तक्षस्य धर्मन्या य प्रज्ञवरस्य महामतेः
अलका धनदस्येव पुरी तक्षशिला मता. ॥८८२॥
पुष्कलस्यापि वी रा णां धीराणां संमतस्थितेः
पुष्कलावतमत्याढ्यं नगरं नगरंजितम्. ॥८८३॥
निवेश्य सद्रत्र म ये पुरेऽब्दैः पंचभिस्ततः
पुनरायान्महाबाहुरयोध्यां राघवानुजः. ॥८८४॥
आगते भरते श्री मान् रामः सौमित्रिमब्रवीत्,
‘ अंगदश्चंद्रकेतुश्च तव पुत्राविमावहम्. ॥८८५॥
अभिषेक्ष्यामि वी रा द्य देशः साधु विलोक्यताम्. ’
अब्रवीद्भरतो ‘ देशो रम्यः कारुपथं प्रभो ! ’ ॥८८६॥
गुरुवाक्यसमं म त्वा भरतस्य वचः प्रभुः
लक्ष्मणं प्राह, ‘ गच्छ त्वं कुरु तत्र पुरद्वयम्. ’ ॥८८७॥
स गुरूक्तः स्वात्म ज योश्चकार द्वे पुरौ शुभे
अंगदस्यांगदीयाख्या पुरी परमशोभना. ॥८८८॥
चंद्रकेतोश्चाश्च य दा सतां साधुगुणैर्युता
चंद्रकांतामिधा रम्या गम्या जातु न या द्विषाम्. ॥८८९॥
रामाभिषिक्तं स्वं रा काकांतकांतप्रभुं सुतम्
अंगदं स्थापयित्वागादयोध्यां लक्ष्मणोऽब्दतः. ॥८९०॥
भरतोपि तथा म ल्लं चंद्रकेतुं महाबलम्
निवेश्य राज्ये साकेतमगात्संवत्सरोषितः. ॥८९१॥
उभौ रामांघ्रिभ ज ने सौमित्रिभरतौ रतौ
कालं गतमपि स्नेहान्न विजानीत एव तौ. ॥८९२॥
पौरकार्येषु प्र य तमानानां धर्मचारिणाम्
एवं वर्षसहस्त्राणि दश तेषामयुस्तदा. ॥८९३॥
अथ काले गते ज स्य निदेशेन महात्मनः
कालस्तापसरूपेण राजद्वारमुपागमत्. ॥८९४॥
‘ दूतोऽहं तस्य भो ! य स्य महर्षेरमितं बलम्
रामं दिदृक्षुरायातः कार्येणे’त्याह तत्र सः ॥८९५॥
तच्छ्रुत्वा लक्ष्मणो रा ज्ञे न्यवेदयत ‘ तापसः
दूतस्त्वां द्रष्टुमायातस्तं त्वं पश्य रघूत्तम ! ’ ॥८९६॥
रामः प्रोवाच, ‘ सु म ते ! वत्स ! मत्सविधं द्रुतम्
प्रवेश्यतां मुनिस्तात ! महौजा द्वारि मास्तु सः. ॥८९७॥
सौमित्रिणा ततः श्री मांस्तापसः स प्रवेशितः
अभिगम्य रघुश्रेष्ठं वर्धस्वेत्याह सादरम्. ॥८९८॥
सत्कृत्याह मुनिं रा जा, ‘ यस्य दूतस्त्वमागतः
तस्य संदेशवाक्यानि समग्राणि निवेदय. ’ ॥८९९॥
एवमुक्तः स स म यं तापसः प्राह, ‘ राघव !
रहस्येतत्प्रवक्तव्यं किंचान्यदपि भूपते ! ॥९००॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:54:40.5530000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

प्रथमप्रासे मक्षिकापातः।

  • जेवावयास बसले असतां पहिल्‍याच घासास माशी लागली म्‍हणजे ज्‍याप्रमाणें सर्व जेवणाचा बिघाड होतो, त्‍याप्रमाणें कोणत्‍याहि कार्याच्या आरंभीच विघ्‍न उपस्‍थित झाले असतां कार्यहानि होते. प्रथम पहा. 
RANDOM WORD

Did you know?

Sarva namaskar havet.
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.