TransLiteral Foundation

उत्तरकांडम् - काव्य ३५१ ते ४००

उत्तरकाण्डम् या प्रकरणातील श्लोकातील सातवे अक्षर श्री रा म ज य रा म ज य ज य रा म असे आहे.


काव्य ३५१ ते ४००
नीते पुरीं शत म खे घननादेन तेजसा
प्रजापतिं पुरस्कृत्य ययुर्लंकां सुरास्तदा. ॥३५१॥
आसाद्य राक्षसं श्री मानब्रवीत्तं पितामहः.
‘ वत्स ! रावण ! तुष्टोऽस्मि पुत्रस्य तव विक्रमात्. ॥३५२॥
जितो यतो देव रा जो मेघनादेन संगरे
जगतींद्रजिदित्येवमेष ख्यातो भविष्यति. ॥३५३॥
तन्मुच्यतां शत म खो महाबाहो ! दशानन !
किं चास्य मोक्षणार्थाय प्रयच्छंतु दिवौकसः ’ ॥३५४॥
अथाह तत्काय ज स्तमिंद्रजित्समितिंजयः,
‘ अमरत्वमहं देव वृणे यद्येष मुच्यते. ’ ॥३५५॥
ततोऽब्रवीद्भूरि य शा मेघनादं प्रजापतिः,
‘ नास्ति सर्वामरत्वं हि प्राणिनः कस्यचिद्भुवि. ’ ॥३५६॥
स तमाह सुरा रा ध्यं ‘ स्यंदनेऽग्नेः समुत्थिते
तिष्ठतोऽमरता मे स्याद्वर एष वृतो मया. ’ ॥३५७॥
‘ एवमस्त्वि’ति सा म ज्ञस्तमुवाच प्रजापतिः
मुक्तश्चेंद्रजिता शक्रः सुराश्च त्रिदिवं गताः. ॥३५८॥
दीनोऽभूद्देवरा ज स्तं ब्रह्मोवाच, ‘ शतक्रतो !
अहल्याधर्षणस्यैतत्फलं प्रपतं खलु त्वया. ॥३५९॥
प्रजानां परमं य त्तन्मया रूपं समुद्धृतम्
ततः स्त्री निर्मिता पूर्वं रत्नभूता जगन्नये. ॥३६०॥
हलं वैरूप्यमो ज स्विन् ! हल्यं तत्प्रभवं तु यत्
तन्निंद्यत्वं न यस्याः सा नाम्नाहल्येति कीर्तिता. ॥३६१॥
कस्य भार्या महा य स्य भवित्रीयं जगत्स्विति
मम चिंताभवद्रत्रभूतां निर्माय तां भृशम्. ॥३६२॥
स्थानाधिकतया रा मां त्वं जानीषे ममेति ताम्
गौतमे सा मया न्यस्ता न्यासभूतावसच्चिरम्. ॥३६३॥
तेन प्रत्यर्पिता म ह्यमविकारेण चेतसा
मुनेर्ज्ञात्वा महाधैर्यं तस्मै सा स्पर्शिता मया. ॥३६४॥
सा त्वया धर्षिता श्री मन् ! कामार्ते समन्युना
दृष्टस्त्वं गौतमेनासि सप्तश्चात्युग्रतेजसा. ॥३६५॥
धर्षणान्मम दा रा णां शत्रुहस्तं गमिष्यसि
मौतमेनैवमुक्तस्त्वं तस्यैतत्फलमागतम्. ॥३६६॥
अहल्यां चाप्यति म हा गौतमः स तदाब्रवीत्
दुर्विनीतेऽधुना ध्वंस ममाश्रमसमीपतः. ॥३६७॥
यस्मात्सुरूपता ज न्याद्रर्वात्त्वमनवस्थिता
तस्माद्रूपवती लोके न त्वमेका भविष्यसि. ॥३६८॥
इत्युक्ता सा विन य तः प्रांजलिर्मुनिमब्रवीत्,
‘ वंचतास्मि मुने ! तेन त्वद्रूषेण दिवौकसा ॥३६९॥
नाहं दुष्टा तपो रा शे ! प्रसादं कर्तुमर्हसि. ’
तयैवं प्रार्थितः शांतक्रोधस्तामाह गौतमः, ॥३७०॥
‘ उत्पत्स्यत्यद्भुत महा इक्ष्वाकूणां महारथः
आतिथ्यं तस्य कृत्वा त्वं पूता मां पुनराप्स्यसि. ॥३७१॥
स्मर तद्देवरा ज त्वं दुष्कृतं यत्त्वया कृतम्
शापोत्सर्गाद्धि तस्येदं मुनेः सर्वमुपस्थितम्. ॥३७२॥
तच्छीघ्रं वैष्णवं य ज्ञं कुरु शक्र ! यथाविधि
पावितः ऋतुना तेन प्राप्स्यसे त्रिदिवं पुनः. ॥३७३॥
प्रहारार्तस्तनू ज स्ते पुलोम्नाश्वपवाहितः
नीतः समुद्रे कुशली स त्वागंताऽचिराद्धरे. ॥३७४॥
तच्छ्रुत्वा वैष्णवं य ज्ञमिष्ट्वा देवेश्वरस्ततः
पुनस्त्रिदिवमाक्रामदन्वशासच्च पूर्ववत्. ॥३७५॥
एतद्बलं महा रा ज ! प्रोक्तमिंद्रजितो मया
निर्जितस्तेन देवेंद्रः प्राणिनोऽन्ये तु किं पुनः. ॥३७६॥
‘ आश्चर्यमिति ’ रा म श्च लक्ष्मणश्चाब्रवीत्तदा
अगस्त्यवचनं श्रुत्वा वानरा राक्षसाश्च ते. ॥३७७॥
अगस्त्यं राघवः श्री मानब्रवी ‘ द्भगवन् ! यदा
बभ्राम पृथिवीं सर्वां रावणो राक्षसेश्वरः. ॥३७८॥
तदा लोकास्तपो रा शे ! शून्या आसन्किमंग ! यत्
धर्षणं यत्र न प्रप्तो, हतवीर्या उताभवन्. ॥३७९॥
तमगस्त्योऽगाध म तिः प्रहसन्नाह राघवम्,
‘ चचार रावणो भूमिं बाधमानो धरापतीन्. ॥३८०॥
ततो माहिष्मतीं ज न्यकामः प्राप्तो वरोद्धतः
यत्रासीदर्जुनो राजा साक्षादग्निश्च सर्वदा. ॥३८१॥
स दशास्यो दिने य स्मिन्प्राप्तो माहिष्मतीं पुरीम्
तस्मिन्नेव दिने रंतुमर्जुनो नर्मदां गतः. ॥३८२॥
आख्याते सचिवै रा ज्ञोऽसांनिध्ये सर्वशर्मदाम्
विंध्यं, चित्रं महाशैलं ययौ पश्यन्त्स नर्मदाम्. ॥३८३॥
प्रशस्य नर्मदां म ध्येपुलिनं दशकंधरः
जांबूनदमयं लिंगं पूजयामास सादरम्. ॥३८४॥
ननर्त सामानि ज गावीश्वरस्याग्रतस्तदा
नर्मदायाः प्रतिस्तोतः प्रवृद्धं जलमाययौ. ॥३८५॥
नर्मदापुलिने य त्र राक्षसेंद्रः स रावणः
शिवस्य पूजामकरोत्तस्माद्देशाददूरतः. ॥३८६॥
तत्र रेवासिंधु ज ले सदारः सोऽर्जुनः प्रभुः
क्रीडन् रुरोध कुतुकी दोःसहस्त्रेण तां नदीम्. ॥३८७॥
तस्याः स वेगः प य सः संप्रेषित इवाद्भुतः
पुष्पोपहारं सकलं जहार त्रिदशद्विषः. ॥३८८॥
तं वेगप्रभवं रा जा सोऽन्वेष्टुं शुकसारणौ
आदिशत्तौ गतौ व्योममार्गगौ पश्चिमामुखौ. ॥३८९॥
गत्वार्धयोजनं म ध्ये नर्मदं महिलाशतम
सहस्रबाहुं क्रीडंतं पुरुषं समपश्यताम्. ॥३९०॥
तावागत्योचतुः,‘  श्री मन् ! कोऽपि तालोच्छ्रितः पुमान्
योषितः क्रीडयत्यारान्नदीं रुद्ध्वा भुजैः प्रभो ! ’ ॥३९१॥
ज्ञात्वा तमर्जुनं रा हुः प्रभाकरमिव स्वयम्
प्रमत्तो रावणः प्रागात्तं नृपं युद्धलालसः. ॥३९२॥
तन्मंत्रिणः क्रुधा मत्तः प्राह गंभीरया गिरा,
‘ युद्धार्थं रावणः प्रपत इत्याख्याताशु हैहयम्. ’ ॥३९३॥
उत्तस्थुः सायुधा ज न्यकामं तं ते तदाब्रुवन्,
‘ युद्धस्य कालो विज्ञातः साधु भो साधु रावण ! ॥३९४॥
क्षीबं योषिद्गतं य स्त्वं योद्धुमुत्सहसे नृपम्
श्वो वा युध्यस्व हत्वास्मानर्जुनेन सहाद्य वा. ’ ॥३९५॥
ततोऽतिदुष्टाचा रा स्ते सचिवास्तस्य रक्षसः
हत्वा तान् भक्षयामासुः क्षुधिताः कुणपाशनाः. ॥३९६॥
तदा बभूव सु म हांस्तीरे हलहलाध्वनिः
हैहयाधिपयोधानां युध्यतां चापि रक्षसाम्. ॥३९७॥
दक्षास्यसचिवा ज घ्नुः कार्तवीर्यस्य तद्बलम्
तस्य कर्माशु कथितं पुरुषैरर्जुनाय तत्. ॥३९८॥
तच्छ्रुत्वा शत्रुभ य दः स्त्रीजनं नर्मदांभसः
उत्ततार न भेतव्यमित्युक्त्वा कुपितोऽर्जुनः ॥३९९॥
गदामादाय स ज वः स सहस्रभुजोऽर्जुनः
अभिदुद्राव रक्षांसि तमांसीव दिवाकरः. ॥४००॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:54:39.9730000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

पगडा बसणें-बसविणें

  • पगडयाचें दान पडलें असतां मेलेली नरद बसवितां येते यावरुन डावास जोर येणें, दुसर्‍यावार छाप पडणें 
  • वरचष्मा होणें 
  • प्रभाव पडणें. ‘इंग्रजीसारख्या प्रबल परभाषेचा मराठीवर अगदीं पगडा बसून तिचें स्वत्व नष्ट होण्याच्या बेतांत आहे.’ -नि. ६. 
RANDOM WORD

Did you know?

घर के मंदिर में कौनसी बातों का ध्यान रखना चाहिये?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.