TransLiteral Foundation

उत्तरकांडम् - काव्य ६५१ ते ७००

उत्तरकाण्डम् या प्रकरणातील श्लोकातील सातवे अक्षर श्री रा म ज य रा म ज य ज य रा म असे आहे.


काव्य ६५१ ते ७००
विप्राः प्रोचु‘र्मधुः श्री मान् दैत्यो भक्तोंऽबिकापतेः
शूलं शूलाद्विनिष्कृष्य तस्मै दत्तं स्मरारिणा. ॥६५१॥
तत्पुत्रो लवणो रा जन् ! बाधते शूलतेजसा,
तं शूलरहितं हत्वा ब्राह्मणांस्त्रातुमर्हसि. ॥६५२॥
अभिषिच्यात्मसा म र्थ्यं शत्रुघ्नं तैर्द्विजैः सह
राघवः प्रेषयामास लवणं हंतुमोजसा. ॥६५३॥
रामादमोघम ज तः संभूतं शरमद्भुतम्
प्राप्य प्रणम्य तं प्रायाच्छत्रुघ्नः सेनया वृतः. ॥६५४॥
पुण्यकीर्तराल य स्य वाल्मीकेराश्रमे‍ऽवसत्
तत्र कल्माषपादस्य स मुनेरशृणोत्कथाम्. ॥६५५॥
यस्यां स राघवो रा त्रौ पर्णशालां समाविशत्
तस्यां सीताप्यर्धरात्रे प्रसूता दारकद्वयम्. ॥६५६॥
प्रसूतौ पुण्यस म ये बालचंद्रसमप्रभौ
दृष्टौ वाल्मीकिना प्रीत्या मार्जितौ तौ कुशैर्लवैः. ॥६५७॥
वाल्मीकिर्द्विजरा ज स्तं कुश इत्याह यः कुशैः
पुत्रः संमार्जितो ज्येष्ठो लवं च प्रोक्षितं लवैः. ॥६५८॥
अर्धरात्रे सोऽन्व य स्य वृद्धिं श्रुत्वा प्रभोर्मुदा
पर्णशालां ततो गत्वा मातर्दिष्ट्येति चाब्रवीत्. ॥६५९॥
प्रजावत्याः पुत्र ज न्मप्रहृष्टो लक्ष्मणानुजः
मुनिं प्रांजलिरामंत्र्य प्रययौ यमुनातटम्. ॥६६०॥
इक्ष्वाकोरन्ववा य स्य भूषणं यो महायशाः
स मांधाता हतोऽनेव लवणेन दुरात्मना. ॥६६१॥
इति शुश्राव सू रा त्मप्रभवायास्तटे मुनेः
च्यवनात्स सुमित्राया नंदनो विस्तरात्कथाम्. ॥६६२॥
ततः प्रभाते स म धोर्निर्गतः स्वपुरात्सुतः
भक्ष्यमाहर्तुमटवीं गतो दूरं महाबलः. ॥६६३॥
ज्ञात्वा तदैव स श्री मान् गृहीतवरकार्मुकः
उत्तीर्य यमुनां तूर्णं तस्थौ द्वारि मधोः पुरः. ॥६६४॥
प्राप्तेऽर्धे दिवसे रा त्स क्रूरकर्मा मधोः सुतः
आगच्छद्बहुसाहस्रं प्राणिनां भारमुद्वहन्. ॥६६५॥
ददर्श लवणो म द्यमांसमत्तः स राघवम्
तमाह, ‘ किमनेन त्वमायुधेन करिष्यसि ? ’ ॥६६६॥
ईदृशानां मया ज न्ये सायुधानां नराधम !
भक्षितानि सहस्त्राणि कालेनानुगतो ह्यसि. ’ ॥६६७॥
श्रुत्वा वचो निर्भ य स्य हसतश्च मुद्दुर्मुहुः
शत्रुघ्नः कुपितः प्राह भ्राता रामस्य धीमतः. ॥६६८॥
‘ शत्रुघ्नोऽहं भूसु रा रे ! वधाकांक्षी तवागतः
द्वंद्वयुद्धं देहि मत्तो न त्वं जीवन् गमिष्यसि. ’ ॥६६९॥
तच्छ्रुत्वा लवणो म त्तस्तमाह प्रहसन्मुहुः
‘ दिष्ट्या प्राप्रोसि मंद ! त्वं भ्राता मन्मातुलद्विषः. ॥६७०॥
जन्मकामस्य ते ज न्यमहं दास्यामि दुर्मते !
मुहूर्तं तिष्ठ तावत्त्वं यावदायुधमानये. ’ ॥६७१॥
तमाह राघवो य त्तः, ‘ क्क मे जीवन् गमिष्यसि
स्वयमेवागतः शत्रुर्न मोक्तव्यः कृतात्मना. ’ ॥६७२॥
तल्लक्ष्मणस्यानु ज स्य वचः श्रुत्वा स राक्षसः
क्रोधमाहारयत्तीव्रं ‘ तिष्ठ तेष्ठे’ति चाब्रवीत्. ॥६७३॥
तं ब्रुवाणं तथा य ज्ञद्विजघ्नं घोरदर्शनम
शत्रुघ्नो देवशत्रुघ्न इदं वचनमब्रवीत्. ॥६७४॥
‘ शत्रुघ्नो न तदाऽ रा ते जातो भूपा हता यदा
तदद्य मद्वाणहतो व्रज त्वं यमसादनम्. ॥६७५॥
सर्वे हृष्टा भूम्य म रास्त्वां मया निहतं रणे
पश्यंतु रक्षोपसद ! त्रिदशा इव रावणम्. ’ ॥६७६॥
यदैवं प्राह स श्री मांश्चुक्षुभेऽतितरामरिः
चिक्षेप वृक्षांच्छत्रुघ्नः शरैस्तांच्छतधाच्छिनत्. ॥६७७॥
ततोऽन्यागप्रहा रा त्स स्रतांगो मूर्च्छितोऽभवत्
तमवज्ञाय तु हतं शत्रुघ्नं भुवि पातितम्, ॥६७८॥
रक्षो लब्धांतर म पि न विवेश स्वमालयम्
वज्राननं वज्रवेगं जग्राहामोघमद्भुतम्. ॥६७९॥
लब्धसंज्ञः स ते ज स्विप्रवरस्तं महाशरम्
वज्राननं वज्रवेगं जग्राहामोघमद्भुतम्. ॥६८०॥
तस्मिन् धृते प्रल य जज्वलनप्रतिमे शरे
भीतान् सुरर्षीनभयं ददौ देवः पितामहः. ॥६८१॥
संधाय बाणं सा रा ढ्यं विकृष्य धनुराश्रुति
शत्रुघ्नः स महातेजा मुमोच लवणोरसि. ॥६८२॥
सायकोऽतुलसा म र्थ्यो विदार्यारेरुरस्तदा
गत्वा रसातलं हस्तं पुनरेवागमद्द्रुतम्. ॥६८३॥
निर्भिन्नवक्षा र ज नीचरः स लवणः खलः
पपात सहसा भूमौ वज्राहत इवाचलः. ॥६८४॥
तच्छूलं तन्निल य तः समुत्पत्य महाप्रभम्
पश्यतां सर्वदेवानां रुद्रस्य दशमागमत्. ॥६८५॥
पूजितः प्राप्तवि ज यः शत्रुघ्नः स महर्षिभिः
शक्रादिभिश्च त्रिदशैर्लवणे दुर्जये हते. ॥६८६॥
सुरास्तमूचुः प्र य तं ‘ वरं वरय सुव्रत ! ’
तान्प्रत्युवाच शत्रुघ्नो बद्धांजलिपुटस्तदा. ॥६८७॥
‘ पुरीयं मधुरा रा जधानीत्वं प्राप्नुयादिति ’
वरयामास ते प्रीताः सर्वे प्रोचुस्तथास्त्विति. ॥६८८॥
ततो निवेश्य सु म ना राजधानीं मनोहराम्
जगाम द्वादशे वर्षे द्रष्टुं रामं चिरोषितः. ॥६८९॥
वाल्मीकेराश्रमे श्री मानवसत्तेन पूजितः
शुश्राव रामचरितं गायतोस्तत्कुमारयोः. ॥६९०॥
श्रुत्वा रामयशो रा गी विसंज्ञो बाष्पलोचनः
मुहूर्तमात्रमभवद्विनिश्वस्य मुहुर्मुहुः. ॥६९१॥
आश्चर्ये सैनिका म ग्नाः शत्रुघ्नमिदमब्रुवन्,
‘ अद्भुतं किमिदं राजन् ! वाल्मीकिं पृच्छ तत्त्वतः. ’ ॥६९२॥
स तानाहाश्रमे‌ऽ ज स्रं संत्याश्चर्याण्यनेकशः
अद्भुतोऽर्थः परिप्रष्टुं न क्षमोऽस्माकमीदृशः. ’ ॥६९३॥
अलब्धनिद्रः प्र य तः प्रातर्नत्वा मुनीश्वरम्
अयोध्यामगमद्रामं नत्वाभूद्धर्षनिर्भरः. ॥६९४॥
स उषित्वा सप्त रा त्रमाज्ञप्तः प्रभुणा पुनः
जगाम मधुरां भव्यां राजधानीं मनोरमाम्. ॥६९५॥
ततः कदाचिद्वि म ना मृतमादाय बालकम्
वृद्धो जानपदो विप्रो राजद्वारमुपागमत्. ॥६९६॥
चक्रे विलापं स ज रन् पुत्रशोकाकुलो भृशम्,
‘ नाहं पापी मृतोऽसि त्वं बाल ! दोषेण भूपतेः. ॥६९७॥
राम ! बालं जीव य मे नो चेद्वार्यत्र निश्चितम्
सदारोऽहं मरिष्यामि ब्रह्महत्यां त्वमाप्नुहि. ॥६९८॥
न दृष्टो न श्रुतो ज न्मी मृतः कश्चन कुत्रचित्
तवैव राज्येऽभिनवं मयैतदनुभूयते. ’ ॥६९९॥
एवं पुत्रस्यात्य य तः शोकाक्रांतो द्विजोऽब्रवीत्
ततोप्यतितमां रामो दुःखं प्रप सतां गतिः. ॥७००॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:54:40.3330000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

तणसरणे

  • अ.क्रि. ( कों . ) ( माणूस , जनावर इ० ) शरीराने भरणे ; पुष्ट होणे ; लठ्ठ बनणे . [ सं . तन ; प्रा . तण + सर प्रत्यय ] 
RANDOM WORD

Did you know?

श्रीदत्तपुराणटीका and more books for shree dattaray
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.