संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|संस्कृतकाव्यानि| मंत्ररामायणम्|उत्तरकांडम्| काव्य १ ते ५० उत्तरकांडम् काव्य १ ते ५० काव्य ५१ ते १०० काव्य १०१ ते १५० काव्य १५१ ते २०० काव्य २०१ ते २५० काव्य २५१ ते ३०० काव्य ३०१ ते ३५० काव्य ३५१ ते ४०० काव्य ४०१ ते ४५० काव्य ४५१ ते ५०० काव्य ५०१ ते ५५० काव्य ५५१ ते ६०० काव्य ६०१ ते ६५० काव्य ६५१ ते ७०० काव्य ७०१ ते ७५० काव्य ७५१ ते ८०० काव्य ८०१ ते ८५० काव्य ८५१ ते ९०० काव्य ९०१ ते ९५० काव्य ९५१ ते १००० काव्य १००१ ते १०२७ मंत्रगणना उत्तरकांडम् - काव्य १ ते ५० उत्तरकाण्डम् या प्रकरणातील श्लोकातील सातवे अक्षर श्री रा म ज य रा म ज य ज य रा म असे आहे. Tags : mayurramramayanमयूररामरामायणसंस्कृत काव्य १ ते ५० Translation - भाषांतर प्राप्तराज्यो यदा श्री मान् रामोऽयोध्यापतिस्तदा आजग्मुर्मुनयः सर्वे प्रेम्णा तं प्रतिनंदितुम्. ॥१॥विश्वामित्रस्तपो रा शिर्यवक्रीतोऽथ गालवः अगस्त्योऽत्रिश्च भगवानन्ये च मुनिसत्तमाः. ॥२॥प्रत्युज्जगाम रा म स्तान् द्वारपालनिवेदितान्पूजयामास संस्थाप्य स्वासनेषु यथार्हतः. ॥३॥कुशलं रघुरा ज स्तांस्ततोऽपृच्छत्सुसत्कृतान्ते तमूचु‘र्महाबाहो ! सर्वत्र कुशलं हि नः. ॥४॥त्वां तु दिष्ट्या स्वाल य स्थं वीरं कुशलिनं प्रभो ! सानुजं कीर्तिसंपन्नं पश्यामो हतशास्त्रवम्. ॥५॥दिष्ट्यात्वया हतो रा जन् ! रावणो लोकरावणः स भारस्ते न सधनुर्विज्येथास्त्वं जगन्नयम्. ॥६॥लक्ष्मणेन च सं म र्दे शक्रजित्प्रमुखा द्विषः दिष्ट्या हता महाभाग ! भ्रात्रा त्वद्दितकारिणा. ॥७॥कुंभकर्णोऽपि च ज गत्कालो दिष्ट्या हतो रणे यस्य प्रमाणाद्विपुलं प्रमाणं नेह विद्यते. ॥८॥सेंद्रा लोकेश्वरा य स्मान्त्रस्ताः सर्पादिवाखवःदिष्ट्या दशास्यो निहतो द्वंद्वयुद्धगतस्त्वया. ॥९॥वधो राक्षसरा ज स्य तव भारो न राघव ! द्वंद्वयुद्धमनुप्रपतः स दिष्ट्या रावणिर्हतः. ॥१०॥रामास्माकं विस्म य स्तु श्रुत्वा शक्रजितं हतम्अवध्यं सर्वभूतानां हंतु कोऽपि क्षमो न तम्. ॥११॥ दिष्ट्या त्वं वर्धसे रा कापतिस्वच्छमहायशाः दत्वाद्य विपुलां राम ! विप्रेभ्योऽभयदक्षिणाम्. ’ ॥१२॥ श्रुत्वा तद्विस्मये म ग्नो रामः प्रांजलिरब्रवीत्, ‘ अतिक्रम्य दशग्रीवं किं प्रशंसथ रावणिम् ? ’ ॥१३॥अथ कुंभोद्भवः श्री मानुवाच रघुनंदनम् ‘ शृणु राम पुरावृत्तं तस्य सर्वं ब्रवीमि ते. ॥१४॥प्रजापतिसुतो रा जन् ! पुलस्त्यो भगवान्मुनिः तृणबिंद्वाश्रमं गत्वा तपस्तेपे महातपाह. ॥१५॥विघ्नं कुर्वंत्याश्र म स्थे मुनौ तस्मिंस्तु कन्यकाः गायंत्यो वादयंत्यश्च लासयंत्यो यथासुखम्. ॥१६॥रुष्टः स मुनिरा ज स्तास्तत्र प्रोवाच कन्यकाः, ‘ या मे दर्शनमागच्छेत्सा गर्भं धारयिष्यति. ’ ॥१७॥ताः कन्याः शापभय तस्तं देशं नोपचक्रमुः तृणबिंदोस्तु राजर्षेस्तनया न शृणोति तत्. ॥१८॥साश्रमे वित्तचा रा थ कांचिदभ्यागतां सखीम् अदृष्ट्वा तं तदापश्यत्तस्य श्रुत्वा श्रुतिध्वनिम्. ॥१९॥मुनेर्वचनसा म र्थ्यात्सहसा गर्भवत्यभूत् पित्रा पृष्टाब्रवीद्धेतुं मुनेर्दर्शनमेव सा. ॥२०॥ध्यानं विवेश रा ज र्षिर्ज्ञात्वा शापं महात्मनः तस्मै पुलस्त्याय ददौ कन्यां सोऽप्यग्रहीन्मुदा. ॥२१॥मुनेर्वरात्सा प्र य ताऽसूत विश्रवसं सुतम् पितेव तपसा युक्तः सोऽभविद्विश्रवा मुनिः. ॥२२॥तस्मै विश्रवसेऽ ज स्य पौत्रायाद्भुततेजसे भरद्वाजो ददौ कन्यां तस्या वैश्रवणः सुतः ॥२३॥तस्मै ब्रह्माथ द य या लोकपालत्वमीप्सितम्निधीनां रक्षणं चादात् तपसाराधितश्चिरम्, ॥२४॥पुष्पकं च प्रचा रा य विमानं प्रददौ प्रभुः. विष्णोर्भीतैः परित्यक्तां राक्षसैस्त्वष्टृनिर्मिताम् ॥२५॥त्रिकूटस्थां हेम म यीं लंकां तस्मै पिताप्यदात्,तां विश्वकर्मरचितां सोऽध्यावसदुदारधीः. ’ ॥२६॥पप्रच्छ घटजं श्री मान् रामो राजीवलोचनः,‘ ये लंकायां स्थिताः पूर्वं राक्षसाः कथितास्त्वया. ॥२७॥भगवंस्ते तपो रा शे कस्माज्जाताः कथं स्थितः अपराधं कमुदृइश्य निहता विष्णुना रणे. ॥२८॥अगस्त्यः प्राह र म यन्मनो रामस्य सुक्तिभिः,‘ प्रजापतिरपः सृष्ट्वा तद्रक्षार्र्थं महातपाः. ॥२९॥व्यसृजद्वारिज ज निः स भूतानि पुरा प्रभुः ‘ अपो रक्षध्व’मित्याह तानि सत्त्वानि भूतकृत्. ॥३०॥रक्षामेत्यब्जन य न ! प्रोक्तं यैस्ते तु राक्षसाः यक्षामेति च यैरुक्तं यक्षास्ते नामतोऽभवन्. ॥३१॥‘ हेतिः प्रहेतिश्च रा जन् मुख्यौ तत्र बभूवतुः प्रहेतिर्धार्मिको नित्यं तपोवनरतोऽभवत्. ॥३२॥हेतिस्तु संतान म तिः कालस्य भगिनीं भयाम् उपयेमे सुतस्तस्यां विद्युत्केशाभिधोऽभवत्. ॥३३॥विद्युक्तेशोऽपि ते ज स्वी संध्यादुहितरं प्रियाम् उदावहद्रघूत्तंस ! नाम्ना सालकटंकटाम्. ॥३४॥गर्भं प्राप्ता सा प्रि य तो भंदरे तं घनस्वनम् तत्याज घनसंकाशं विद्युक्तेशरतार्थिनी. ॥३५॥तस्मिन् काले गिरि ज रा सहारुह्य वृषं शिवः गच्छन्मारुतमार्गेण शुश्राव रुदितं शिशोः. ॥३६॥तत्र प्रसादं प्रि य या प्रेरितः शंकरोऽकरोत् सद्योऽमरत्वं तारुण्यं पुरमाकाशगं ददौ. ॥३७॥स सुकेशो यातु रा जः प्रख्यातोऽभूद्रघूत्तम ! गंधर्वो ग्रामणीस्तस्मै ददौ देववतीं सुताम्. ॥३८॥स पुत्रांस्त्रीन्प्रति म ना जनयामास राघव ! माल्यवंतं सुमालिं च मालिं च बलिनां वरम्. ॥३९॥तपस्तुष्टो ददौ श्री मान् वरांस्तेभ्यः सुदुर्लभान् अजेयाः शत्रुहंतारो जातास्ते चिरजीविनः. ॥४०॥देवा दैत्याश्च तै रा सन् पीडिता वरनिर्भयैः विश्वकर्मकृता लंका प्राप्ता शक्रपुरीसमा. ॥४१॥गंधर्वी नर्मदा म त्वा युक्तं कन्यात्रयं स्वयम् अलंकृत्य ददौ तेभ्यो नक्षत्रे भगदैवते. ॥४२॥सुंदरी यातुरा ज स्य भार्या माल्यवतोऽभवत् तत्सुता वज्रमुष्टिश्च विरूपाक्षश्च दुर्मुखः ॥४३॥सुप्तघ्नश्च तथा य ज्ञकोपो मत्तश्च राक्षसः उन्मत्तनामा, कन्या च सुंदरयामनलाभिधा. ॥४४॥भार्या सुमालिनो रा म ! नाम्ना केतुमती प्रिया प्रहस्तोऽकंपनश्चैव विकटः कालिकामुखः. ॥४५॥धूम्राक्षश्च तथा म र्त्यशत्रू दंडसुपार्श्वकौ संह्रादिः प्रघसश्चैव भासकर्णश्च तत्सुताः. ॥४६॥कन्या च रक्षोरा ज स्य राका पुष्पोत्कटाभिधा कैकस्यथ चतुर्थी सा नाम्ना कुंभीनसी प्रभो ! ॥४७॥मालेस्तु वसुदा य स्यामनलानिलनामकौ हरः संपातिरित्येते बिभीषणहिते रताः. ॥४८॥अथ तैर्बहुधाऽ ज स्य वरदानेन पीडीताःत्रिदशाः शरणं जग्मुर्भगवंतं महेश्वरम्. ॥४९॥तानुवाच त्रिन य नो, ‘ ममावध्या हि तेऽसुराः गच्छध्वं शरणं विष्णुं हनिष्यति स तान्प्रभुः. ’ ॥५०॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP