TransLiteral Foundation

उत्तरकांडम् - काव्य ४५१ ते ५००

उत्तरकाण्डम् या प्रकरणातील श्लोकातील सातवे अक्षर श्री रा म ज य रा म ज य ज य रा म असे आहे.


काव्य ४५१ ते ५००
‘ सत्यमेतत्प्रभो ! य त्त्वं ब्रवीष्यस्मिन् हनूमति
न बले विद्यते त्युल्यो न गतौ न मतौ परः. ॥४५१॥
अमोघशापैर्द्वि जपैः शापो दत्तोऽस्य राघव !
न वेत्ता स्वं बलं सर्वं बली सन्नित्ययं पुरा. ॥४५२॥
श्रोतु तवाभिप्रा य श्चेच्छिशुनानेन यत्कृतम्
समाधाय मतिं राम ! निशामय वदाम्यहम्. ॥४५३॥
प्रशास्ते केसरी रा ज्यं मेरौ सोऽस्य पिता प्रभो !
तस्य भार्यांजना तस्यां वायोर्जातोऽयमात्मजः. ॥४५४॥
फलं मत्वा दिन म णिं जपापुष्पचयोपमम्
उत्पपात नभो बलः क्षुधितोऽत्तुमयं विभो ! ॥४५५॥
सर्वेऽब्रुवंस्तदा श्री मान् यथायं पवनात्मजः
नाप्येवं बलवान् वायुर्न गरुत्मान्मनोऽपि नो. ’ ॥४५६॥
संत्रस्तोऽपसृतो रा हुः शक्रं गत्वा तमब्रवीत्.
‘ पुरा दत्तं मह्यमन्नं तदन्यस्मै कथं त्वया. ॥४५७॥
अद्य पर्वण्यर्क मत्तुमागतोऽन्य सुरेश्वर !
आरुह्यैरावतं शक्रस्तच्छ्रुत्वागाद्यतो रविः. ॥४५८॥
अथ राहुं कृत ज वं शक्रात्पूर्वं समागतम्
उत्पपात फलं मत्वा तं गृहीतुमयं शिशुः. ॥४५९॥
त्रस्तस्य तस्याभ य दः परावृत्तस्य वज्रभृत्
बभूवाभिमुखः शक्रस्तदैन रघुनंदन ! ॥४६०॥
फलबुद्ध्या हस्ति रा जं तमादातुमयं यदा
अभिदुद्राव वज्रेण हरिरेनमताडयत्. ॥४६१॥
ततः पपातैव म हत्यचले‍ऽयं रघूत्तम !
पतमानस्य चैतस्य वामा हनुरभज्यत. ॥४६२॥
तदवस्थे तनु ज नौ पतिते वज्रताडिते
चुक्रोधेंद्राय पवनः प्रजानामहिताय सः. ॥४६३॥
प्रचारं स तु सं य म्य प्रजास्वंतर्गतं प्रभुः
गुहां प्रविष्टः स्वसुतं शिशुमादाय मारुतः. ॥४६४॥
रुरोध भूतानि ज गत्प्राणः सर्वाणि रोषितः
विण्मूत्राशयमावृत्य प्रजानां परमार्तिकृत. ॥४६५॥
ततः प्रजा देव य क्षगंधर्वासुरमानुषाः
प्रोचुः प्रजापतिं देवं ‘ दुःखं नो नुद दुःखहन् ! ’ ॥४६६॥
तद्दुःखपरिहा रा य प्रजानां स प्रजापतिः
वायोः समीपमागत्य शिशुं पस्पर्श पाणिना. ॥४६७॥
स्पृष्टमात्रः स क म लप्रभवेण महात्मना
जलसिक्तं यथा सस्यं पुनर्जीवितमाप्तवान्, ॥४६८॥
चचार पवनः श्री मान् यथापूर्वं शरीरिषु
मरुद्रोधाद्विनिर्मुक्ता अभवन्मुदिताः प्रजा ॥४६९॥
अथोवाच सुरा रा ध्यः सुरान्त्सर्वान् हितं वचः,
‘ अनेन शिशुना कार्यं कर्तव्यं वो भविष्यति. ॥४७०॥
वरान् ददध्वम म रा मारुतस्यास्य तुष्टये. ’
स्वर्णपद्ममयीं मालां दत्त्वोवाच शतक्रतुः ॥४७१॥
‘ मारुतायं काय ज स्ते वज्रावध्यो भविष्यति
हनुर्हता ततो नाम्ना भविता हनुमानिति. ’ ॥४७२॥
सूर्यश्चाह, ‘ मदी य स्य तेजसः शतिकां कलाम्
ददामि शास्त्राण्यप्यस्मै दास्यामि समये स्वयम्. ’ ॥४७३॥
वरुणोऽप्याह वा रा वा मत्पाशैर्वास्य मारुतेः
वर्षायुतशतैर्मृत्युर्नं भविष्यति सर्वथा. ॥४७४॥
प्रीत्योवाचाथो य म श्च, ‘ मम दंडादवध्यता
अनामयत्वं संग्रामेऽप्यविषादः सदास्त्वि’ति. ॥४७५॥
गदेयं मामिका ज न्ये नैनं जातु वधिष्यति
इत्येवं वरदः प्राह श्रीदस्त्र्यक्षसखः प्रभुः. ॥४७६॥
‘ अवध्योऽयं मदी य स्य शस्त्रास्त्रस्य भविष्यति ’
इत्येवं शंकरेणापि दत्तोऽस्य परमो वरः. ॥४७७॥
विश्वकर्माप्याह, ज गत्प्राणपुत्रो मदायुधैः
अवध्यत्वमयं प्रपतश्चिरंजीवी भविष्यति. ’ ॥४७८॥
ब्रह्माह, ‘ शत्रुभ य दो मित्राणामभयंकरः
अजेयो भविता पुत्रस्तव मारुत ! मारुतिः. ’ ॥४७९॥
कामरूपः समी रा यं सुतः कामगतिस्तव
रोमहर्षकराण्येव कर्ता कर्माणि संयुगे. ॥४८०॥
प्रीतिं संपाद्य रा म स्य रावणारेर्महात्मनः
साहाय्यमतुलं कृत्वा कीर्तिमान् प्रभविष्यति. ॥४८१॥
इत्युक्त्वा वरदः श्री मान् ब्रह्मामंत्र्य समीरणम्
जगाम त्रिदशैः सार्धं सत्यलोकमृषिस्तुतः. ॥४८२॥
पुत्रं केसरिदा रा णां गृहं नीत्वा स मारुतः
वरदानं समाख्याय तानापृच्छय विनिर्गतः. ’ ॥४८३॥
प्राप्तातिवरसा म र्थ्य आश्रमेषु तपस्विनाम्
अग्निहोत्राणि पात्राणि वल्कलानि व्यनाशयत्. ॥४८४॥
पीडिताः शांतिभा ज स्ते वरज्ञानातिमन्यवः
शेपुरेनं ‘ नात्मबलं वेत्तासि स्वयमित्यलम्. ॥४८५॥
कीर्तिस्तवान्येन य दा भवित्री स्मारिता पुनः
तदांजनेय ! नचिराद्बलवृद्धिर्भविष्यति. ’ ॥४८६॥
एवं शप्तः साप रा धो हृततेजा मरुत्सुतः
मृदुभावं गतो राम ! स्वबले जातसंशयः. ॥४८७॥  
शापान्न तस्मिन्स म ये वेदायं बलमात्मनः
वालिसुग्रीवयोर्वैरं यदा राम ! समुत्थितम्. ॥४८८॥
गुणाधिः कोऽपि ज नो मारुते रघुराज ! नो
असौ व्याकरणादीनि शास्त्राण्यर्कात्समग्रहीत्. ॥४८९॥
जगामाद्रेरुद य तो ह्ययमस्तगिरिं तदा
सूर्योन्मुखः पृष्ठगामी सादरो रचितांजलिः. ॥४९०॥
अस्य वायोस्तनू ज स्य प्रलयांभोनिधेरिव
कः स्थास्यत्यंतकस्येव पुरस्ताद्रघुनंदन ! ॥४९१॥
राघवैषोऽद्भुत य शाः सुग्रीवप्रमुखा इमे
त्वत्कारणात्सुरैः सृष्टास्तारनीलनलांगदाः. ’ ॥४९२॥
अगस्त्यात्सानुजो रा मो वानरा राक्षसाश्च ते
श्रुत्वेत्थं मारुतेः कर्म विस्मयं परमं गताः. ॥४९३॥
अथोवाच प्रपय म हं राघवं कुंभसंभवः
‘ दृष्टः संभावितश्चासि राम ! गच्छामहे वयम्. ’ ॥४९४॥
तच्छ्रुत्वा प्रांजलिः श्री मान् महर्षीन् राघवोऽब्रवीत्,
‘ अद्य मे देवतास्तुष्टाः पितरश्च मुनीश्वराः. ॥४९५॥
दर्शनाद्भवतां रा ज्यं धन्यं पूतं कुलं श्रुतम्
विज्ञाप्यं मेऽस्ति तत्कार्यं भवद्भिरनुकंपया. ॥४९६॥
अहं करिष्यामि म न्यून् प्रभावाद्भवतां सताम्
भविष्यथ सदस्या मे ममानुग्रहकांक्षिणः. ’ ॥४९७॥
‘ एवमस्त्वि’ति ते ज ग्मर्मुनयोऽनुनयोद्यताः
सूर्येंदुवह्निभिस्तुल्यरुचयः शुचयः सदा. ॥४९८॥
जनकं प्रभुरा य त्तः पूजयित्वा कृतांजलिः
मिथिलां प्रेषयामास दर्शनोत्कां चिरोषितम्. ॥४९९॥
जामात् रघुवी रा द्यत्प्राप्तं रत्नादि तत्स्वयम्
सीतायै प्रददौ प्राज्यं प्रेम्णा दुहितृवत्सलः. ॥५००॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:54:40.0830000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

वाटणें

  • v t  Levigate; mash. 
  • $Fig$. Discuss. 
RANDOM WORD

Did you know?

ज्ञान माहित आहे. पण भ्रमज्ञान म्हणजे काय?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.