संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|संस्कृतकाव्यानि| मंत्ररामायणम्|उत्तरकांडम्| काव्य ५०१ ते ५५० उत्तरकांडम् काव्य १ ते ५० काव्य ५१ ते १०० काव्य १०१ ते १५० काव्य १५१ ते २०० काव्य २०१ ते २५० काव्य २५१ ते ३०० काव्य ३०१ ते ३५० काव्य ३५१ ते ४०० काव्य ४०१ ते ४५० काव्य ४५१ ते ५०० काव्य ५०१ ते ५५० काव्य ५५१ ते ६०० काव्य ६०१ ते ६५० काव्य ६५१ ते ७०० काव्य ७०१ ते ७५० काव्य ७५१ ते ८०० काव्य ८०१ ते ८५० काव्य ८५१ ते ९०० काव्य ९०१ ते ९५० काव्य ९५१ ते १००० काव्य १००१ ते १०२७ मंत्रगणना उत्तरकांडम् - काव्य ५०१ ते ५५० उत्तरकाण्डम् या प्रकरणातील श्लोकातील सातवे अक्षर श्री रा म ज य रा म ज य ज य रा म असे आहे. Tags : mayurramramayanमयूररामरामायणसंस्कृत काव्य ५०१ ते ५५० Translation - भाषांतर युधाजितं प्रीत म ना रामः सत्कृत्य मातुलम् प्राहिणोज्जयहृष्टात्मा स्वपुरं स ययौ मुदा. ॥५०१॥अन्यानाप्तान्भूभु ज श्च साहाय्यं कर्तुमागतान् स्वराष्टं प्रेषयामास सत्कृत्य भरताहृतान्. ॥५०२॥नृपाणां समुदा य स्तं रामं त्यक्त्वा ततो व्रजन् दुःखितोऽभूत्तथात्यंतं देही देहमिव त्यजन्. ॥५०३॥यैः सहायैः प्रप ज यं हत्वा रावणमाहवे तेभ्यः कपिभ्यः प्रददौ रत्नाकल्पान् रघूत्तमः. ॥५०४॥सुग्रीवस्य सहा य त्वं कीर्तयित्वा पुनःपुनःतस्मै ददौ महार्हाणि भूषणानि रघूद्वहः. ॥५०५॥बिभीषणं यातु रा जं तस्यामात्यांश्च राक्षसान्प्रशस्य तेभ्यः प्रायच्छद्रत्रालंकारसंचयान्. ॥५०६॥अथांकमारोप्य म रुद्वालिपुत्रु सुताविव सुग्रीवमाह श्रीरामः ‘ सत्कारार्हाविमौ सखे ! ॥५०७॥मंत्रे युक्तौ तव श्री मन् ! ममापि च हिते रतौ एतौ त्वया मयाप्यंग ! पूजनीयौ कपीश्वर ! ’ ॥५०८॥इत्युक्त्वा स्वशरी रा त्स व्यवमुच्यातिवत्सलः भूषणानि महार्हाणि तदांगदहनूमतोः ॥५०९॥बबंधांगेषु स म लंचक्रे नक्रेभतारकः बहून्मासान् दत्तमहान् वासयामास सन्निधौ. ॥५१०॥अथ काकुत्स्थरा ज स्तं सुग्रीवं सबिभीषणम् जाम्बवत्प्रमुखान् सर्वान्यूथपानिदमब्रवीत्. ॥५११॥‘ यूयं मे सुहृदो य त्नाद्भवद्भिरहमुद्धृतः धन्यो राजा सुकंठोऽयं धन्योऽयं च बिभीषणः. ॥५१२॥धन्या यूयं शरी रा न्मे प्राणेभ्यो वसुतः प्रियाःहिया स्वर्गद्रुमा व्याप्ता श्रुत्वा युष्मदुपक्रियाः. ॥५१३॥सौम्य ! सुग्रीव धा म त्वं किष्किंधायामलंकुरुभुंक्ष्व निष्कंटकं राज्यं प्राज्यं सुखमवाप्नुहि. ॥५१४॥बिभीषण सखे !ऽ ज स्रं लंकायां वस हर्षितः स्मर्तव्योऽहं त्वया प्रीत्या गच्छ त्वं विगतज्वरः. ’ ॥५१५॥श्रुत्वा वाक्यं सत्प्रि य स्य रामस्यर्क्षाश्च वानराः, ‘ साधु साध्वि’ति तं सर्वे प्रशशंसुः पुनःपुनः. ॥५१६॥‘ तव बुद्धिर्वरा ज ह्वुकन्येव त्रिजगद्धिता माधुर्य परमं राम ! भवतो वचसि स्थितम्. ॥५१७॥त्वं संश्रितानां श्रे य स्कृत् वीर्यमत्यद्भुतं तव ’ तेष्वित्यादि ब्रुवाणेषु हनूमान् प्रणतोऽब्रवीत्. ॥५१८॥‘ स्नेहो म परमो रा जंस्त्वयि तिष्ठतु नित्यदा भक्तिश्च नियता वीर ! भावो नान्यत्र गच्छतु. ॥५१९॥यावद्रामकथा म ह्यां चरिष्यति तवाद्भुता तावच्छरीरे वत्स्यंतु प्राणा मम न संशयः. ॥५२०॥यच्च तच्चरितं श्री मन् कथां ते रघुनंदन ! तन्ममाप्सरसो राम ! श्रावयेयुर्नरर्षभ ! ’ ॥५२१॥ तच्छ्रुत्वा‘हमुदा रा ख्य ! तव चर्यामृतं प्रभो ! उत्कंठां प्रहरिष्यामि मेघलेखामिवानिलः. ’ ॥५२२॥ एवं ब्रुवाणं रा म स्तु हनूमंतं वरासनात् उत्थाय सस्वजे स्नेहाद्वाक्यमेतदुवाच च. ॥५२३॥‘ एवमेतद्वायु ज ! भो ! भविता नात्र संशयः चरिष्यति कथा यावदेषा लोकेषु मामिका. ॥५२४॥ तावद्भविष्यति य शस्तव देहेऽसवस्तथा लोका हि यावत्स्थास्यंति तावत्स्थास्यंति मे कथाः. ॥५२५॥ शेषस्येहोपका रा णां भवाम ऋणिनो वयम्एकैकस्योपकारस्य प्राणान् दास्यामि ते कपे ! ॥५२६॥तज्जीर्णतां यातु म यि यत्त्वयोपकृतं कपे ! नरः प्रत्युपकाराणामापत्स्वायाति पात्रताम्. ’ ॥५२७॥तस्यांजनातनू ज स्य मौक्तिकं हारमात्मनः उत्तार्य कंठे श्रीरामो बबंध स्वयमादरात्. ॥५२८॥ मायामानुषका य स्य नत्वा पादौ पुनःपुनः जग्मुः स्वं स्वं गृहं रक्षः कपयः साश्रुलोचनाः. ॥५३९॥विमानो राजरा ज स्य निदेशात्पुनरागतः स राममाह, ‘ राजेंद्र ! शृणु विज्ञापनां मम. ॥५३०॥मामाह स प्रभो ! य क्षस्वामी पुष्पक ! रावणम् हत्वा त्वं निर्जितस्तस्मात्तमेव वह राघवम्. ॥५३१॥प्रीतिर्मे परमा रा तौ हते तस्मिन् दशानने कामो ममैष स्वीकारः कर्तव्यः प्रभुणा तव. ॥५३२॥ गच्छ रामं वह म नाक् नास्ति कश्चिव्द्यतिक्रमः अहमाज्ञापयामि त्वां प्रभुसन्निहितो भव. ’ ॥५३३॥‘ एवमाज्ञामहं श्री दात्प्राप्याद्य त्वामपस्थितः भो राम ! परमात्मस्त्वं निर्विशंकः प्रतीच्छ माम्. ॥५३४॥पूजयित्वा पुण्य रा शी रामः प्रीत्या तमब्रवीत्,‘ गच्छ श्रीदांतिकं सौम्य ! त्वमागच्छ स्मृतो यदा. ’ ॥५३५॥नत्वा चकार ग म नं तमनंतयशःप्रदम् तत्पुष्पकं यक्षराजसमीपमवसत् पुनः. ॥५३६॥ततो‘तिभद्रं प्र ज या प्राप्तं राज्ये तव प्रभो ! इत्येवं भरतःघ प्राह रामं राजशतोत्तमम्. ॥५३७॥सर्वप्रजानां प्रि य कृद्राघवः सीतया सह नंदनप्रतिमाशोकवनेऽथ विजहार सः. ॥५३८॥अथ गर्भवती रा ज्ञी बभूव जनकात्मजा तामाह रामः ‘ कामस्ते देवि ! कः क्रियतामि’ति. ॥५३९॥स्मितं कृत्वा सुता म ह्याः सा श्रीरामं तदाब्रवीत्,‘ तपोवनानि पुण्यानि द्रष्टुमिच्छामि रागह्व ! ॥५४०॥कामोऽयमेव रा ज न् ! मे फलमूलाशिनां सताम् अप्येकरात्रिं काकुत्स्थ ! निवसेयं तपोवने. ’ ॥५४१॥ वदान्यकोटिगे य स्तां सीतामाह प्रियः प्रियाम्, ‘ विश्रब्धा भव वैदेहि ! श्वो गमिष्यस्यसंशयम्. ’ ॥५४२॥ भद्रं दूतं सर्व ज न प्रवृत्तिज्ञं रघूत्तमः पप्रच्छ, ‘ काः कथा भद्र ! नगरे विषये च नः. ॥५४३॥ मदाश्रितानि न्या य ज्ञ ! कानि सीताश्रितान्यपिवाक्यान्याहुर्जना ब्रूहि, मा शंकां कुरु चेतसि. ॥५४४॥वदंति खलु पौ राः किं किं वा जानपदा जनाः अनुजान् वापि मे शूरान् कैकेयीं मातरं स्पश ! ॥५४५॥ वक्तव्यतां व रा म ह्या वने राज्ये व्रजंति हि श्रुत्वेदानीं शुभं कुर्यां न कुर्यामशुभान्यहम् ’ ॥५४६॥उवाच स स्पशः, श्री मन् ! कथयंति शुभाशुभम् दुष्करं कृतवान् रामः समुद्रे सेतुबंधनम्. ॥५४७॥वशं नेता वान रा श्च दुर्धर्षो रावणो हतः.दुराचारेण चौर्येण दशकंठेन या हृता. ॥५४८॥तामाहृत्य महा म र्षं विस्मृत्य, जनकात्मजाम् गृहमानीतवान् रामः कथं नायं जुगुप्सते. ॥५४९॥अस्माकं स्त्रीष्वप्य ज स्रं सहनीयं भविष्यतियथा हि कुरुते राजा वर्तंते तमनु प्रजाः. ॥५५०॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP