TransLiteral Foundation

उत्तरकांडम् - काव्य ८०१ ते ८५०

उत्तरकाण्डम् या प्रकरणातील श्लोकातील सातवे अक्षर श्री रा म ज य रा म ज य ज य रा म असे आहे.


काव्य ८०१ ते ८५०
ततः स राघवोऽ ज स्रं तद्गीतं परमं शुभम्
शुश्राव मुनिभिः सार्धं नृपवानरराक्षसैः. ॥८०१॥
तस्मिन् गीते सुनि य तौ ज्ञात्वा तौ जानकीसुतौ
दूतान् परिषदो मध्ये रामो वचनब्रवीत्. ॥८०२॥
दूताः शृणुध्वमृ ज वः प्रयतेनांतरात्मना
मद्वचो ब्रूत गच्छध्वमितो भगवतोंऽतिके. ॥८०३॥
सीता सदा चेत्प्र य ता सा पुनर्वीतकल्मषा
करोत्विहात्मनः शुद्धिमनुमान्य महामुनिम्. ॥८०४॥
अभिप्रायं मुने रा दौ ज्ञात्वा तस्याश्च हृद्गतम्
प्रत्ययं दातुकामायास्ततः शंसत मे लघु. ॥८०५॥
श्वः प्रभाते सुता म ह्याः सीता शपथमात्मनः
करोतु परिषन्मध्ये शोधनार्थं ममापि च. ’ ॥८०६॥
नत्वा दूता गताः श्री मान् वाल्मीकियंत्र तत्र ते
तं नमस्कृत्य तत्कार्यं कथयामासुरानताः. ॥८०७॥
श्रुत्वा तद्भाषितं रा ज्ञो मुनिर्ज्ञात्वा मनोगतम्,
‘ एवं करिष्यते सीता दैवतं हि पतिः स्त्रियाः. ’ ॥८०८॥
इत्याह यत्सोऽति म हा, ‘ दूताः प्रत्येत्य राघवम्
बभाषिरे स तच्छ्रुत्वा प्राह सर्वानृषीन् नृपान्. ॥८०९॥
‘ भगवंतो मुनि ज नाः सशिष्याः सानुगा नृपाः
पश्यंतु सीताशपथं यश्चैवान्योऽपि कांक्षते. ’ ॥८१०॥
श्रुत्वा तद्धर्मन य वद्वाक्यं तस्य महात्मनः
ऋषीणां च नृपाणां च साधुवादो महानभूत्. ॥८११॥
कृत्वैवं निश्चयं रा जा श्वो भूत इति राघवः
विस्रर्जयामास तदा सर्वाञ् शत्रुनिषूदनः. ॥८१२॥
रात्रौ गतायां स म ये वसिष्ठादीन्मुनीन्नृपान्
राम आह्वयति स्मार्यान्सभायामितरानपि. ॥८१३॥
सर्व एव समा ज ग्मुर्वैश्याः शूद्राः सहस्रशः
सीताशपथवीक्षार्थं कुतूहलपरा जनाः. ॥८१४॥
प्राचेतसोऽतिप्र य तः ससेतः समुपागमत्
तमृषिं पृष्ठतः सीताप्यन्वगच्छदवाड्मुखी. ॥८१५॥
कृतांजलिर्बाष्प ज लव्याप्ताक्षी जनकात्मजा
श्रुतिं ब्रह्माणमिव तां वाल्मीकिमनुगामिनीम्. ॥८१६॥
देवीं समालोक य तां साधुवादो महानभूत्
रामं सीतामुभौ केचित्प्रशशंसुस्तदा जनाः. ॥८१७॥
जनौघमध्ये धी रा र्यः प्रविश्य मुनिसत्तमः
सीतासहायो वाल्मीकिरिति प्रोवाच राघवम्. ॥८१८॥
‘ इयं राम ! स्वच्छ म तिः सुव्रता धर्मचारिणी
अपवादात्परित्यक्ता ममाश्रमसमीपतः. ॥८१९॥
लोकापवादात्ते श्री मन् राम ! भीतस्य सुव्रत !
प्रत्ययं दास्यते सीता तामनुज्ञातुमर्हसि. ॥८२०॥
इमौ तव सुतौ रा जन्नमलौ यमलौ बुधौ
न स्मराम्यनृतं पुत्रो दशमोऽहं प्रचेतसः ॥८२१॥
बहूनि वर्षाणि म या तपश्चर्यास्ति या कृता
नोपाश्नीयां फलं तस्या दुष्टेयं यदि मैथिली. ॥८२२॥
भूतपूर्वं न मे ज न्मन्यस्मिन् राघव ! किल्बिषम्
फलमश्नामि तस्याहमपापा यदि मैथिली. ॥८२३॥
विचिंत्य सीतां प्र य तां मनःषष्ठेंद्रियेष्विमाम्
गृहीतवानहं सेयं प्रत्ययं तव दास्यति. ’ ॥८२४॥
तमाह प्रांजली रा जा, ‘ यथा वदसि धर्मवित् !
प्रत्ययस्तु मम ब्रह्मंस्तव वाक्यैरकल्म षैः. ॥८२५॥
वृत्तः पुरापि सु म हान्प्रत्ययः सुरसन्निधौ
सेयं लोकभयात्त्यक्ता तद्भवान् क्षंतुमर्हति. ॥८२६॥
शुद्धा प्रिया च मेऽ ज स्रमियं सीता मुनीश्वर !
पुत्रौ च मम जानामि यमजातौ कुशीलवौ. ’ ॥८२७॥
रामस्य तेऽभिप्रा य ज्ञाः पुरस्कृस्य विधिं सुराः
सीतायाः शपथे तस्मिन्त्सर्व एव समागताः. ॥८२८॥
समागतेष्वब्ज ज न्मप्रभृतिष्वमरेषु सा
बद्धांजलिरधोदृष्टिराह काषायवासिनी. ॥८२९॥
‘ हृदाप्यान्यं नैव य था राघवाच्चिंतयाम्यहम्,
तथा मे माधवी देवी विवरं दातुमर्हति. ॥८३०॥
मनोवाक्कर्मभी रा मं चिंतयामि सदा यथा
तथा मे माधवी देवी विवरं दातुमर्हति. ॥८३१॥
सत्या यथैषा म म वाक् वेद्मि रामात्परं न चेत्
तथा मे माधवी देवी विवरं दातुमर्हति. ॥८३२॥
शपंत्यां हृदये श्री शं ध्यात्वा तस्यां रघूत्तमम्,
भूतलादुत्थितं दिव्यं सिंहासनमनुत्तमम्. ॥८३३॥
तस्मिंश्च धरणी रा ज्ञीं बाहुभ्यां गृह्य मैथिलीम्,
स्वागतेनाभिनंद्येमां स्थापयामास सादरा. ॥८३४॥
तदा तां दिव्यसु म नोवृष्टिः सीतामवाकिरत्,
श्रियं सिंहासनगतां प्रविशंतीं रसातलम्. ॥८३५॥
साधुकारस्तदा ज ज्ञे देवानामंबरे महान्,
व्याजह्रुर्बहुधा वाचो दृष्ट्वा सीताप्रवेशनम्. ॥८३६॥
नृपा महर्षयो य ज्ञवाटस्था इतरे जनाः,
दृष्ट्वा प्रवेशं सीताया विस्मयान्नोपरेमिरे. ॥८३७॥
भुवि प्रविष्टां तां रा ज्ञीं दृष्ट्वा बाष्पाकुलेक्षणः,
अवाक्शिरा दीनमना राम आसीत्सुदुःखितः. ॥८३८॥
चिरं रुदित्वाह, ‘ म नःशोको मे स्प्रष्टुमिच्छति,
पश्यतो मम सीताद्य नष्टा श्रीरिव रूपिणी. ॥८३९॥
रावणेन हृता ज ह्रुकन्येव प्रयता सती,
तदाहं सन्निधौ नासं पश्यतो मे भुवाद्य सा. ॥८४०॥
रक्षःपतेराल य तः सिंधोः पारात्प्रिया मया,
आनीता येन मे तस्य क्मगम्यं रसातलम्. ॥८४१॥
वसुधे ! देवि ! भ ज तः सीता निर्यात्यतां मम,
दर्शयिष्यामि वा रोषं किं न जानासि मद्बलम्. ॥८४२॥
श्वश्रूस्त्वमसि मे य त्सा त्वत्सकाशान्महात्मना,
कर्षता हलहस्तेन जनकेनोद्धृता पुरा. ॥८४३॥
तस्मान्निर्यात्यतां रा मा विवरं वा प्रयच्छ मे,
पाताले नाकपृष्ठे वा वसेयं सहितस्तया. ॥८४४॥
त्वमानयाशु तां म त्तस्तत्कृ तेऽहं वसुंधरे.
नो चेद्विनाशस्ते मत्तो मत्तोषं विनिहंसि यत्. ’ ॥८४५॥
एवं क्रुद्धं प्रभुं श्री मानुवाच चतुराननः,
राम ! राम ! न संतापं कर्तुमर्हसि सुव्रत ! ॥८४६॥
स्मर त्वं पूर्वकं रा जन् ! मंत्रं भावमरिंदम !
सुखेन नागलोकं सा प्राप्ता सीता तव प्रिया. ॥८४७॥
भूयः स्वर्गे संग म स्ते भविष्यति तया सह
शेषं भविष्यं काकुत्स्थ ! काव्यं रामायणं शृणु. ॥८४८॥
महाकाव्यं तु रा ज र्षे ! मया देवैः सह श्रुतम्. ’
एवमुक्त्वा सुरैः सार्धं ब्रह्मा स्वभवनं ययौ. ॥८४९॥
रामो मुनिं विन य तः प्रार्थयामास सांजलिः
भगवन् ! यद्भविष्यं तच्छ्वोभूते संप्रवर्त्यताम्. ॥८५०॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:54:40.4900000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

disbench

  • न्यायासनच्युत करणे 
RANDOM WORD

Did you know?

मनुष्य देहाचे प्रकार किती व कोणते?
Category : Hindu - Philosophy
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.