संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|संस्कृतकाव्यानि| मंत्ररामायणम्|उत्तरकांडम्| काव्य ६०१ ते ६५० उत्तरकांडम् काव्य १ ते ५० काव्य ५१ ते १०० काव्य १०१ ते १५० काव्य १५१ ते २०० काव्य २०१ ते २५० काव्य २५१ ते ३०० काव्य ३०१ ते ३५० काव्य ३५१ ते ४०० काव्य ४०१ ते ४५० काव्य ४५१ ते ५०० काव्य ५०१ ते ५५० काव्य ५५१ ते ६०० काव्य ६०१ ते ६५० काव्य ६५१ ते ७०० काव्य ७०१ ते ७५० काव्य ७५१ ते ८०० काव्य ८०१ ते ८५० काव्य ८५१ ते ९०० काव्य ९०१ ते ९५० काव्य ९५१ ते १००० काव्य १००१ ते १०२७ मंत्रगणना उत्तरकांडम् - काव्य ६०१ ते ६५० उत्तरकाण्डम् या प्रकरणातील श्लोकातील सातवे अक्षर श्री रा म ज य रा म ज य ज य रा म असे आहे. Tags : mayurramramayanमयूररामरामायणसंस्कृत काव्य ६०१ ते ६५० Translation - भाषांतर रूपं दृष्टं नहि म या पदौ दृष्टौ तवानघे ! कथं त्वामद्य पश्यामि रामेण रहितां वने ? ’ ॥६०१॥इत्युक्त्वा तामग्र ज स्य प्रियां नत्वा रुदन् पुनःनावा गंगां समुत्तीर्य रथमध्यारुहद्द्रुतम्. ॥६०२॥शोकाकुलः स प्र य यावनाथामिव तां सतीम् परतीरस्थितां दृष्ट्वा परावृत्य मुहुर्मुहुः. ॥६०३॥दृष्ट्वा मुनिकुमा रा स्तां रुदती जानकीं वने प्राद्रवन् यत्र भगवान् वाल्मीकिस्तपसांनिधिः. ॥६०४॥ते कृत्वैवाशु न म नं मुनिपुत्रा महर्षयेसर्वे निवेदयामासुस्तास्तु रुदितस्वनम्. ॥६०५॥‘ भगवान् ! मुनिरा ज स्त्री कस्याप्येषा महात्मनः श्रीरिवादृष्टपूर्वात्र विरौति त्राहि पश्य ताम्. ’ ॥६०६॥स ज्ञात्वा ज्ञानन य नः प्राद्रवद्यत्र मैथिली अर्घ्यमादाय रुचिरं जान्हवीतीरमागमत्. ॥६०७॥दृष्ट्वा सीतां स द्वि ज न्मश्रेष्ठो वाल्मीकिरब्रवीत्, ‘ स्रुषा दशरथस्य त्वं रामस्य महिषी प्रिया. ॥६०८॥जनकस्यात्मजा यत्नाद्द्रष्टच्या सत्यधीश्वरी.वत्से ! जानकि ! धर्मज्ञे ! स्वागतं ते पतिव्रते ! ’ ॥६०९॥तां सीतां शोकभा रा र्तां वाल्मीकिर्मुनिपुंगवः उवाच मधुरां वाणीं ल्हादयन्निव तेजसा. ॥६१०॥‘ वृत्तं तवैतत्सु म ते ! विदितं मम तत्वतः सर्वं च दिव्यज्ञानेन त्रैलोक्ये यद्धि वर्तते. ॥६११॥मुनिपत्न्योऽन्न सु श्री काः सुव्रतास्तपसि स्थिताः तास्त्वां वत्से ! यथा वत्सं पालयिष्यंति नित्यशः. ॥६१२॥त्वामपापां वेद्मि रा ज्ञि ! ध्यानलब्धेन चक्षुषा विश्रब्धा भव वत्से ! मे समीपे निवसिष्यसि. ’ ॥६१३॥वचस्तदाकर्ण्य म हं प्रपता परममद्भुतम्सीता नत्वा मुनेः पादौ तथेत्याह कृतांजलिः. ॥६१४॥सीता प्रयांतं द्वि ज पं प्रांजलिः पृष्ठतोऽन्वगात्तापस्यस्तं नमश्चक्रुस्ताः स वाल्मीकिरब्रवीत्. ॥६१५॥‘ राजा दशरथो य ज्वा स्नुषेयं तस्य सुव्रता रामस्य महिषी सीता जनकस्यात्मजा सती. ॥६१६॥इयं त्यक्ता सती रा ज्ञा परिपाल्या मया सदा इमां भवत्यः पश्यंतु स्नेहेन वचनान्मम. ’ ॥६१७॥मुहुर्मुहुः प्राज्य म हास्तां ताभ्यः परिदाय सःस्वमाश्रमं शिष्यवृतः पुनरायान्महातपाः. ॥६१८॥उदक्कोले स्थितो ज न्हुकन्याया मुनिना सतीम् दृष्टा प्रवेशितां भव्ये स्वाश्रमे लक्ष्मणस्तदा. ॥६१९॥अब्रवीत्तप्तका य स्तं सुमंत्रं मंत्रसारथिम्, सीतावियोगजं तापं पश्य रामस्य सारथे ! ॥६२०॥यो हि देवान्सभु ज गान् गंधर्वासुरराक्षसान् निहन्याद्राघवः क्रुद्धः स दैवं पर्युपासते. ॥६२१॥हंतास्मिन्कर्मणि य शोनाशके समनुष्ठिते प्राप्तः सुमंत्र ! रामेण को नु धर्मपरिग्रहः ? ’ ॥६२२॥सुमंत्रः प्राह तं रा मानुजं शोकाकुलं भृशम्, ‘ न संतापस्त्वया कार्यो दृष्टमेतत्पुरातनैः. ॥६२३॥भृगुशापफलं म न्ये प्राप्तं रामेण विष्णुना तस्य पत्नी हतानेन यत्पुराभयदा द्विषाम्. ॥६२४॥वसिष्ठस्याश्रमे श्री मान् दुर्वासा मम सन्निधौपुरा दशरथायैतत्कथयामास लक्ष्मण ! ॥६२५॥त्वयापि विरहं रा जा प्राप्स्यत्येतत्कथंचन भरते नैव वक्तव्यं शत्रुघ्नेऽपि च लक्ष्मण ! ॥६२६॥भृगुशापादयं म र्त्यलोके जन्माप्तवान् प्रभुः रहस्यं कथितं तुभ्यं सीतात्यागार्तिभेषजम्. ॥६२७॥नृलोके चक्रिणो ज न्म जातं हंतुं दशाननम्. ’ इति श्रुत्वाथ सौमित्रिस्तामयोध्यां जगाम सः. ॥६२८॥ततस्तस्योरुगा य स्य साश्रुनेत्रस्य लक्ष्मणः जग्राह चरणौ, पश्चाद्वाक्यमेतदुवाच सः. ॥६२९॥त्यक्त्वा देवीं त्वद्रि रा हं वाल्मीकेराश्रमे शुभे पुनरप्यागतो वीर ! पादमूलमुपासितुम्. ॥६३०॥मा शुचः संस्कृत म ते ! कालस्य गतिरीदृशी त्वद्विधा न हि शोचंति बुद्धिमंतो मनस्विनः. ॥६३१॥ यदर्थं मैथिल ज निस्त्यक्ता शोकं न मुंचतः सोऽपवादः पुरे राजन् ! भविष्यति न संशयः. ’ ॥६३२॥तमाह रामो, ‘नि य तं हितमुक्तं त्वयानघ ! मया सीतावियोगोत्थः स्वसंतापो निराकृतः. ॥६३३॥राजकार्यं मया ज स्त्रं कर्तव्यं तदकुर्वतः निष्फला मम सौमित्रे ! चत्वारो दिवसा गताः. ॥६३४॥पौरकार्याणि यो य त्तो न करोति दिने दिने संवृते नरके घोरे पतितः स भवेत् ध्रुवम्. ॥६३५॥नृगेण हि पुरा रा ज्ञा कोटीः स्पर्शयता गवाम्गौः संगादागतान्यस्य दत्तान्यस्मै द्विजन्मने. ॥६३६॥विवदंतौ तौ स म न्यू गोः स्वामिग्राहकावुभौ नृगद्वारि स्थितौ प्राप्तौ न प्रवेशं चिरं द्विजौ. ॥६३७॥ताभ्यां शप्तो रुषा श्री मान् कृकलासो भवेति सः निर्दिष्टो यादवः कृष्ण उद्धर्ता विष्णुरीश्वरः. ॥६३८॥अद्यापि शापं तं रा जा भुंक्ते वतस ! सुदारुणम् कार्यार्थिनां विमर्दो हि राज्ञां दोषाय कल्पते. ॥६३९॥इक्ष्वाकुतनयो म ह्याः पतिर्निमिरुदारधीः वसिष्ठेन पुरा शप्तो निमिनापि स लक्ष्मण ! ॥६४०॥मित्रावरुणते ज स्त्वमाविशेति चतुर्मुखः वसिष्ठमुक्तवान् देवो विदेहः स तथाकरोत्. ॥६४१॥ उर्वशीहेतुतो य स्तु मित्रावरुणतेजसा पूर्णः कुंभस्ततो जातो वसिष्ठोऽगस्त्य एव च. ॥६४२॥प्रतीक्षा न कृता रा ज्ञा सत्रे यस्मात्पुरोधसः तेनापराधेन निमिः शप्तस्तेन महात्मना. ॥६४३॥स निमिः साधुर म रान्प्रोवाच वरदांस्तदा,‘ नेत्रेषु सर्वभूतानां वसेयं सुरसत्तमाः. ॥६४४॥तदुक्तमेवम ज राः श्रुत्वोचुस्तं निमिं नृपम्, ‘ नेत्रेषु सर्वभूतानां वायुभूतश्चरिष्यसि. ॥६४५॥मथितस्तस्य का य स्तैस्तत्संतानार्थिभिर्द्विजैः अरण्यां मथ्यमानायां प्रादुर्भूतो महातपाः. ॥६४६॥नाम्ना मिथिः स रा ज न्यो मथनाद्रघुनंदन ! जननाज्जनको जातो वैदेहो यद्विदेहजः ॥६४७॥ययातिर्न समो य स्माद्देवयान्यां स भूपतिः शप्तः शुक्रेण सौमित्रे ! जरां प्राप सुदःसहाम्. ॥६४८॥एवं रामो सद्दु रा पः कथयामास सत्कथाः श्वोलूकयोरप्यहरन्न्यायकर्ता मनोव्यथाः. ॥६४९॥अथागता भये म ग्ना मुनयो यमुनाश्रिताः संपूज्य रामस्तान्कार्यं प्रप्रच्छ प्रांजलिः प्रभुः. ॥६५०॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP