संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|संस्कृतकाव्यानि| मंत्ररामायणम्|उत्तरकांडम्| काव्य ४०१ ते ४५० उत्तरकांडम् काव्य १ ते ५० काव्य ५१ ते १०० काव्य १०१ ते १५० काव्य १५१ ते २०० काव्य २०१ ते २५० काव्य २५१ ते ३०० काव्य ३०१ ते ३५० काव्य ३५१ ते ४०० काव्य ४०१ ते ४५० काव्य ४५१ ते ५०० काव्य ५०१ ते ५५० काव्य ५५१ ते ६०० काव्य ६०१ ते ६५० काव्य ६५१ ते ७०० काव्य ७०१ ते ७५० काव्य ७५१ ते ८०० काव्य ८०१ ते ८५० काव्य ८५१ ते ९०० काव्य ९०१ ते ९५० काव्य ९५१ ते १००० काव्य १००१ ते १०२७ मंत्रगणना उत्तरकांडम् - काव्य ४०१ ते ४५० उत्तरकाण्डम् या प्रकरणातील श्लोकातील सातवे अक्षर श्री रा म ज य रा म ज य ज य रा म असे आहे. Tags : mayurramramayanमयूररामरामायणसंस्कृत काव्य ४०१ ते ४५० Translation - भाषांतर स्थितं प्रहस्तम य नं रुद्ध्वा तन्मुसलं कृती वंचयित्वा तं गदया पातयामास मूर्छितम्. ॥४०१॥तं दृष्ट्वा पतितं रा ज्ञो भीताः सर्वे निशाचराः शुक्रसारणमारीचा अपसृष्टा रणाजिरात्. ॥४०२॥दशाननः सोऽति म न्युर्नृपमभ्यद्रवत्तदा रावणार्जुनयोर्युद्धमभवद्रामेहर्षणम्. ॥४०३॥स्तनांतरेऽर्जुनः श्री मान् गदिनं राक्षसेश्वरम् सर्धप्राणेनाजघान गदया भीमवेगया. ॥४०४॥रक्षसो वज्रसा रा सा वरत्राते महोरसि दुर्बलेव गदा राम ! द्विधाभूतापतत्क्षितौ. ॥४०५॥दशाननोऽप्यति म हाः प्रहारेणापराड्मुखः अपासर्पंद्धनुर्मात्रं निषसाद च निष्ठनन्. ॥४०६॥ततो हैहयरा ज स्तं शत्रुमालक्ष्य विह्वलम् सहसोत्पत्य जग्राह गरुत्मानिव पन्नगम्. ॥४०७॥दोःसहस्रेण सु य शा गृहीत्वा तं दशाननम्बबंध बलवान् राजा बलिं नारायणो यथा. ॥४०८॥बध्यमाने सुरा रा तौ साधु साध्विति वादिनःपुष्पवृष्टिं सुराश्चक्रुः कार्तवीर्यस्य मूर्धंनि. ॥४०९॥व्याघ्रो मृगमिवा म र्षाद्गृह्य सिंह इव द्विपम् ररास हैहयो राजा हर्षादंबुदवन्मुहुः. ॥४१०॥प्रहस्तो गतते ज स्कं बद्धं दृष्ट्वा दशाननम् मुख्यैर्निशाचरैः सार्धमभिदुद्राव हैहयम्. ॥४११॥सप्रहस्तैस्तदा य त्तेर्यत्तैः क्षिप्तं वरायुधम् तदेवादाय तेनैव तान् जघान महाभुजः. ॥४१२॥तदायुधैस्तान् र ज नीचरान्त्स समरेऽर्जुनः भित्त्वा विद्रावयामास वायुरंबुधरानिव. ॥४१३॥आदाय रक्षःक्ष य कृत्सोऽर्जुनस्तं दशाननम् प्रविवेश पुरीं पौरैर्विप्रैः शक्र इवार्चितः. ॥४१४॥तदाकर्ण्य तपो रा शिः पुलस्त्यो भगवानृषिः प्रार्थयामास तं भूपं, ‘ पौत्रं मुंच ममेति ’ सः ॥४१५॥सख्यं कृत्वाद्भुत म हाः प्रपूज्य दशकंधरम् विमुच्य तं ब्रह्मसुतं विससर्ज कृतांजलिः. ॥४१६॥पुलस्त्यः स मुनिः श्री मान् मोचयित्वात्मजात्मजम्जगाम ब्रह्मणो लोकं शोकं नैव ददाति यः. ॥४१७॥ पुनः पृथ्वीं चचा रा रिर्भग्नान् कुर्वन्महीक्षितः ततो जगाम किष्किंधां नगरीं वालिपालिताम्. ॥४१८॥गत्वाह्वयामास म त्तो वालिनं हेममालिनम् तारस्तारापितोवाच युद्धकामं दशाननम्. ॥४१९॥‘ गतः स ऋक्षर ज सः पुत्रः प्रतिबलस्तवकोऽन्यः प्रमुखतः स्थातुं भवतोऽत्र कपिः क्षमः. ॥४२०॥संध्यामन्वास्य नि य माच्चतुः सिंधुभ्य आत्ममान् अस्मिन् समय आयाति वाली तिष्ठ मुहूर्तकम्. ॥४२१॥त्वं पशयितानस्थि रा शीन् य एते शंखपांडुराः युद्धार्थिनामिमे राजन् ! हतानां वालिना द्विषाम्. ॥४२२॥त्वया यद्यपि सा म र्थ्य प्राप्तं प्राज्यामृताशनात् तथाप्यासाद्य कीशेंद्रं समाप्तं तव जीवितम्. ॥४२३॥तमिदानिमिह ज गच्चित्रं त्वं पश्य वालिनम् तिष्ठ क्षणं जीवितं तु दुर्लभं ते भविष्यति. ॥४२४॥अथवा त्वरसे य त्रान्मर्तुं त्वं राक्षसाधिप ! दक्षिणं सागरं गच्छ द्रक्षसे तत्र वालिनम्. ’ ॥४२५॥इत्युक्तो गर्व पुं ज स्तं तारं निर्भत्स्य रावणः दक्षिणाब्धिं गतोऽपश्यद्वालिनं भानुसंनिभम्. ॥४२६॥गृहीतुकामो नि य मात्संध्योपासनतत्परम् पृष्ठतो वालिनमरिर्निःशब्दपदमन्वगात्. ॥४२७॥सार्वभौमो वान रा णां दृष्ट्वा दुष्टं यदृच्छयास्थितस्तथैव नियमे स चकार न संभ्रमम्. ॥४२८॥हस्तग्राह्यं तु तं म त्वा पादशब्देन रावणम्पराड्मुखोऽपि जग्राह वाली सर्पमिवांडजः. ॥४२९॥गृहीतुकामं तं श्री मान् गृहीत्वा राक्षसं हरिः खमुत्पपात वेगेन कृत्वा कक्षावलंबिनम्. ॥४३०॥स रावणं जहा रा रिं वितुदंतं नखैर्मुहुःमुमोक्षयिषवोऽमात्या गर्जतस्तमभिद्रुताः. ॥४३१॥अन्वीयमानो व्यो म स्थस्तैर्दशाननमंत्रिभिः रराज वेगवान् वाली जलदैरंशुमानिव. ॥४३२॥अशक्रुवंतोऽति ज वं तं प्रपतुं ते निशाचराःतस्य बाहूत्थवेगेन परिश्रांता व्यवस्थिताः. ॥४३३॥ततः स वाली प्र य यौ क्षिप्रं पश्चिममर्णवम् तत्र संध्यामुपासित्वा गतः सागरमुत्तरम्. ॥४३४॥प्रपय पूर्वं च वा र्रा शिं वहमानो निशाचरम् तत्र संध्यामुपास्याथ किष्किंधामागतो हरिः. ॥४३५॥गतश्रीकं हृत म दं कक्षाक्रांतं दशाननम्किष्किंधोपवने वाली मुमोच प्रहसन्मुहुः. ॥४३६॥उवाच कपिरा ज स्तं, ‘ कुतः कस्त्वमिति ’ प्रभुः स प्राह, ‘ वानरेंद्राहं राक्षसेंद्रोऽस्मि रावणः. ॥४३७॥अहो बलं तेऽति य शो यत्त्वया वानरेश्वर ! अहं गृहीत्वा पशुबद्धामितश्चतुरोऽर्णवान्. ॥४३८॥त्रयाणामेव हि ज गत्यद्भुतैषासदा गतिःमनोऽनिलसुपर्णानां तव चात्र न संशयः. ॥४३९॥दृष्टमद्य बलं य त्ते तदिच्छामि कपीश्वर ! त्वया सह चिरं सख्यं सुस्निग्धं पावकाग्रतः. ॥४४०॥दाराः पुत्राह पुरं रा ष्ट्रं भोगाच्छादनभोजनम्सर्वमेवाविभक्तं नौ भविष्यति हरीश्वर ! ’ ॥४४१॥ततस्तदा हृष्ट मती तावुभावग्निसाक्षिकम भ्रातृत्वमुपसंपन्नौ परिष्वज्य परस्परम् ॥४४२॥बलमप्रतिमं श्री मन् ! वालिनोऽभवदुत्तमम् सोऽपि त्वया विनिर्दग्धः शलभो वह्निना यथा. ’ ॥४४३॥तं कुंभसंभवं रा जा राघवः स तदाब्रवीत् ‘ वालिरावणयोरल्पमधिकं मारुतेर्बलम्. ॥४४४॥दाक्ष्यं धैर्यं विक्र म श्च प्राज्ञता नयसाधनम् गुणा अन्ये च भगवान् ! हनूमति कृतालयाः. ॥४४५॥एकस्यास्यैव भु ज योर्मया वीर्येण जानकी प्राप्ता कीर्तिरियं श्रीश्च सौमित्रिश्च रणे जयः. ॥४४६॥जिष्णुविष्णुश्रीद य मास्तेषां न भगवंस्तथा श्रूयंते तानि कर्माणि यानि युद्धे हनूमतः. ॥४४७॥पतिः किमर्थं ता रा याः सुग्रीवप्रियकाम्यया तदा वैरे समुत्पन्ने भगवन्न हतोऽमुना. ॥४४८॥ न ज्ञातवानहं म न्ये भगवन्नात्मनो बलम् यदृष्टवान् जीवितेष्टं क्लिशंतं वानराधिपम्. ॥४४९॥तपःश्रीकेलिकुं ज त्वमेतन्मे भगवन् ! मुने ! विस्तरेण यथातत्त्वं कथयामरपूजित ! ’ ॥४५०॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP