तृतीयाः पाद: - सूत्र ५१-५२

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


न सामान्यादप्युपलब्धेर्मृत्युवन्न हि लोकापित्ति: ॥५१॥

न सामान्यादप्युपलब्धेर्मृत्युवन्न हि लोकापित्ति: ।
यदुक्तं मानसवदिति तत्प्रत्युच्यते ।
न मानसग्रहसामान्यादपि मनश्चिदादीनां क्रियाशेषत्वं कल्प्यम् ।
पूर्वोक्तेभ्य: श्रुत्यादिहेतुभ्य: केवलपुरुषार्थत्वोपलब्धे: ।
न हि किंचित्कस्यचित्केनचित्सामान्यं न संभवति ।
न च तावता यथा स्वं वैषम्यं निवर्तते ।
मृत्युवत् ।
यथा स वा एष एव मृत्युर्य एष एतस्मिन्मण्डले पुरुष इत्यग्निर्वै मृत्युरिति चाग्न्यादित्यपुरुषयो: समानेऽपि मृत्युशब्दप्रयोगे नात्यन्तसाम्यापत्ति: ।
यथा चासौ वाव लोकोऽग्निर्गौतमाग्निस्तस्यादित्य एव समिदित्यत्र न समिदादिसामान्याल्लोकस्याग्निभावापत्तिस्तद्वत् ॥५१॥

परेण च शब्दस्य ताद्विध्यं भूयस्त्वात्त्वनुबन्ध: ॥५२॥

परेण च शब्दस्य ताद्विध्यं भूयस्त्वात्त्वनुबन्ध: ॥ परस्तादप्ययं वाव लोक एषोऽग्निश्चित इत्येतस्मिन्ननन्तरे ब्राम्हाणे ताद्विध्यं केवलविधाविधित्वं शब्दस्य प्रयोजनं लक्ष्यते न शुद्धकर्माङ्गविधित्वम् ।
तत्र हि - विद्यया तदारोहन्ति यत्र कामा: परागता: ।
न तत्र दक्षिणा यन्ति नाविद्वासंस्तपस्विन इत्यनेन श्लोकेन केवलं कर्म निन्दन्विद्यां च प्रशंसन्निदं गमयति ।
तथा पुरस्तादपि यदेतन्मण्डलं तपतीत्यस्मिन्ब्रम्हाणे विद्याप्रधान्त्वमेव लक्ष्यते सोऽमृतो भवति मृत्युर्यस्यात्मा भवतीति विद्याफलेनैवोपसंहारान्न कर्मप्रधानता तत्सामान्यादिहापि तथात्वम् ।
भूयांसस्त्वग्न्यवयबा: संपादयितव्या विद्यायामित्येतस्मात्कारणादग्निनाऽनुबध्यते विद्या न कर्माङ्गत्वात् ।
तस्मान्मनश्चिदादीनां केवलविद्यात्मकत्वसिद्धि: ॥५२॥

N/A

References : N/A
Last Updated : December 20, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP