संस्कृत सूची|संस्कृत साहित्य|धर्मः|ब्रह्म सूत्राणि|तृतीयोध्यायः|तॄतीय: पाद:| सूत्र १८ तॄतीय: पाद: सूत्र १ सूत्र २ सूत्र ३ सूत्र ४-५ सूत्र ६ सूत्र ७ सूत्र ८ सूत्र ९ सूत्र १० सूत्र ११ सूत्र १२ सूत्र १३-१४ सूत्र १५ सूत्र १६ सूत्र १७ सूत्र १८ सूत्र १९ सूत्र २० सूत्र २१-२२ सूत्र २३ सूत्र २४ सूत्र २५ सूत्र २६ सूत्र २७-२८ सूत्र २९-३० सूत्र ३१ सूत्र ३२ सूत्र ३३ सूत्र ३४ सूत्र ३५ सूत्र ३६ सूत्र ३७ सूत्र ३८ सूत्र ३९ सूत्र ४० सूत्र ४१ सूत्र ४२ सूत्र ४३ सूत्र ४४-४५ सूत्र ४६-४९ सूत्र ५० सूत्र ५१-५२ सूत्र ५३-५४ सूत्र ५५ सूत्र ५६ सूत्र ५७ सूत्र ५८ सूत्र ५९ सूत्र ६०-६६ तृतीयाः पाद: - सूत्र १८ ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत. Tags : bookbrahmasutradharmaधर्मब्रह्मसूत्र सूत्र १८ Translation - भाषांतर कार्याख्यानादपूर्वम् ॥१८॥कार्याख्यानादपूर्वम् ॥ छन्दोगा वाजसनेयिनश्च प्राणसंवादे श्वादिमर्यादं प्राणस्यान्नमान्नाय तस्यैवापो वास आमनन्ति ।अनन्तरं च छन्दोगा आमनन्तितस्माद्वा एतदशिष्यन्त: पुरस्ताच्चोपरिष्टादद्भि: परिदधतीति ।वाजसनेयिनश्चामनन्तितद्विद्वासं: श्रोयित्रा अशिष्यन्त आचामन्त्यशित्वा चाचामन्ति एतमेव तदनमनग्नं कुर्वन्तो मन्यन्ते तस्मादेवंविदशिष्यन्नाचमेदशित्वा चाचामेदेतमेव तदनमनग्नं क्रुरुत इति ।तत्र चाचमनमनग्नतादिन्तनं च प्राणस्य प्रतीयते ।तत्किमुभयमपि विधीयत उताचमनमेवोतानग्नताचिन्तनमेवेति विचार्यते ।किं तावत्प्राप्तमुभयमपि विधीयत इति । कुत: ।उभयस्याप्यवगम्यमानत्वात् ।उबयमपि चैतदपूर्वत्वाद्विध्यर्हम् । अथ वाचमनमेव विधीयते विस्पष्टा हि तस्मिन्विधिविभक्तिस्तस्मादेवंविदशिष्यन्नाचामेदशित्वा चाचामेदिति ।तस्यैव स्तुत्यर्थमनग्नतासङ्कीर्तनमित्येवं प्राप्ते ब्रूम: ।नाचमनस्य विधेयत्वमुपपद्यते कार्याख्यानात् ।प्राप्तमेव हीदं कार्यत्वेनाचमनं प्रायत्यार्थ स्मृतिप्रसिद्धमन्वाख्यायते ।नन्वियं श्रुतिस्तस्या: स्मृतेर्मूलं स्यात् ।नेत्युच्यते ।विषयनानत्वात् ।सामान्यविषया हि स्मृति: पुरुषमात्रसंबद्धं प्रायत्यार्थमाचमनं प्रापयाति ।श्रुतिस्तु प्राणविद्याप्रकरणपठिता तद्विषयमेवाचमनं विदधती विदध्यात् ।न च भिन्नविषययो: श्रुतिस्मृत्योर्मूलमूलिभावोऽवकल्पते ।न चेयं श्रुति:प्राणविद्यासंयोग्यपूर्वमाचमनं विधास्यतीति शक्यमाश्रयितुम् ।पूर्वस्यैव पुरुषमात्रसंयोगिन आचमनस्येह प्रत्यभिज्ञायमानत्वात् ।अते एव च नोभयविधानम् ।उभयविधाने च वाक्यं भिद्येत ।तस्मात्प्राप्तमेवाशिशिषतामशितवतां चोभयत आचमनमनूद्यैतमेव तदनमनग्नं कुर्वन्तो मन्यन्त इति प्राणस्यानग्नताकरणसङ्कल्पोऽनेन वाक्येनाचमनीयास्वप्सु प्राणविद्यासंबन्धित्वेनापूर्व उपदिश्यते ।न चायमनग्नतावाद आचमनसुत्यर्थ इति न्याय्यम् ।आचमनस्याविधेयत्वात् ।स्वयं चानग्नतासङ्कल्पस्य विधेयत्वप्रतीते: ।न चैवं सत्येकस्याचमनस्योभयार्थताभ्युपगता भवति प्रायत्यार्थता परिधानार्थता चेति ।क्रियान्तरत्वाभ्युपगमात् ।क्रियान्तरमेव हयाचमनं नाम प्रायत्यार्थं पुरुषस्याभ्युपगम्यते तदीयासु त्वप्सु वास: सङ्कल्पनं नाम क्रियान्तरमेव परिधानार्थं प्राणस्याभ्युपगम्यत इत्यनवद्यम् ।अपि च यदिदं किं चाश्चभ्य आकृमिभ्य आकीटपतङ्गेभ्यस्तत्तेऽन्नम् ।इत्यत्र तावन्न सर्वान्नाभ्यवहारश्चोद्यत इति शक्यं वक्तुम् ।अशब्दत्वादशक्यत्वाच्च ।सर्वं तु प्राणस्यान्नमितीयमन्नद्दष्टिश्चोद्यते ।तत्साहचर्याच्चापो वास इत्यत्रापि नापामाचमनं चोद्यते प्रसिद्धास्वेव त्वाचमनीयास्वप्सु परिधानद्दष्टिश्चोद्यत इति युक्तम् ।न हयर्धवैशसं संभवति ।अपि चाचामन्तीति वर्तमानापदेशित्वान्नायं शब्दो विधिक्षम: ।ननु मन्यन्त इत्यपि समानं वर्तमानापदेशत्वम् ।सत्यमेव तत् ।अवश्यविधेये त्वन्यतरस्मिन्वास: कार्याख्यानादपां वास: सङ्कल्पनमेवापूर्वं विधीयते नाचमनं पूर्ववद्धि तदित्युपपादितम् ।यदप्युक्तं विस्पष्टा चाचमने विधिविभक्तिरिति तदपि पूर्ववत्त्वेनैवाचमनस्य प्रत्युक्तम् ।अत एवाचमनस्याविधित्सितत्वादेतमेव तदनमनग्नं कुर्वन्तो मन्यन्त इत्यत्रैव काण्वा: पर्यवस्यान्त नामनन्ति तस्मादेवं विदित्यादि ।तस्मान्माध्यन्दिनानामपि पाठ आचमनानुवादेनैवंवित्त्वमेव प्रकृतप्राणवासोवित्त्वं विधीयत इति प्रतिपत्तव्यम् ।योऽप्ययमभ्युपगम: क्वचिदाचमनं विधीयतां क्कचिद्वासोविज्ञानमिति सोऽपि न साधु: ।आपो वास इत्यादिकाया वाक्यप्रवृत्ते: सर्वत्रैवैकरूप्यात् ।तस्माद्वासोविज्ञानमेवेह विधीयते नाचमनमिति न्याय्यम् ॥१८॥९॥ N/A References : N/A Last Updated : December 20, 2014 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP