संस्कृत सूची|संस्कृत साहित्य|धर्मः|ब्रह्म सूत्राणि|तृतीयोध्यायः|तॄतीय: पाद:| सूत्र १९ तॄतीय: पाद: सूत्र १ सूत्र २ सूत्र ३ सूत्र ४-५ सूत्र ६ सूत्र ७ सूत्र ८ सूत्र ९ सूत्र १० सूत्र ११ सूत्र १२ सूत्र १३-१४ सूत्र १५ सूत्र १६ सूत्र १७ सूत्र १८ सूत्र १९ सूत्र २० सूत्र २१-२२ सूत्र २३ सूत्र २४ सूत्र २५ सूत्र २६ सूत्र २७-२८ सूत्र २९-३० सूत्र ३१ सूत्र ३२ सूत्र ३३ सूत्र ३४ सूत्र ३५ सूत्र ३६ सूत्र ३७ सूत्र ३८ सूत्र ३९ सूत्र ४० सूत्र ४१ सूत्र ४२ सूत्र ४३ सूत्र ४४-४५ सूत्र ४६-४९ सूत्र ५० सूत्र ५१-५२ सूत्र ५३-५४ सूत्र ५५ सूत्र ५६ सूत्र ५७ सूत्र ५८ सूत्र ५९ सूत्र ६०-६६ तृतीयाः पाद: - सूत्र १९ ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत. Tags : bookbrahmasutradharmaधर्मब्रह्मसूत्र सूत्र १९ Translation - भाषांतर समान एवं चाभेदात् ॥१९॥समान एवं चाभेदात् ॥ वाजसनेयिशाखायामग्निरहस्ये शण्डिल्यनामाङ्किता विद्या विज्ञाता तत्र च गुणा: श्रूयन्ते - स आत्मानमुपासीत मनोमयं प्राणशरीरं भारूपमित्येवमादय: ।तस्यामेव शाखायां बृहदारण्यके पुन: पठयते मनोमयोऽयं पुरुषो भा:असत्यस्तस्मिन्ननर्हृदये यथा व्रीहिर्वा यवो वा स एष सर्वस्येशान: सर्वस्याधिपति: सर्वमिदं प्रशास्ति यदिदं किञ्चेति ।तत्र संशय: ।किमियमेका विद्याऽग्निरहस्यबृहदारण्यकयोर्गुणोपसंहारश्चोत द्वे इमे विद्ये गुणानुपसंहारश्चेति ।किं तावत्प्राप्तम् ।विद्याभेदो गुणव्यवस्था चेति । कुत: ।पौनरुक्त्यप्रसङगात् ।भिन्नासु हि शाखास्वध्येतृवेदितृभेदात्पौनरुक्त्यपरिहारमालोच्य विद्यैकत्वमध्यवसायैकत्रातिरिक्त गुणा इतरत्रोपसंहियन्ते प्राणसंवादादिष्वित्युक्तम् ।एकस्यां पुन: शाखायामध्येतृवेदितृभेदाभावादशक्यपरिहरे पौनरुक्त्ये न विप्रकृष्टदेशस्थैका विद्या भवितुमर्हति ।न चात्रैकमान्नानं विद्याविधानार्थमपरं गुणविधानार्थमिति विभाग: संभवति ।तदा हयतिरिक्ता एव गुणा इतरत्रेतरत्र चान्नायेरन्न समाना: ।समाना अपि तूभयत्रान्नायन्ते मनोमयत्वादय: ।तस्मान्नान्योन्यगुणोपसंहार इति ।एवं प्राप्ते ब्रूमहे ।यथा भिन्नासु शाखासु विद्यैकत्वं गुणोपसंहारश्च भवस्येवमेकस्यामपि शाखायां भवितुमर्हति \उपास्याभेदात् ।तदेव हि ब्रम्हा मनोमयत्वादिगुणकमुभयत्राप्युपास्यमभिन्नं प्रत्यभिजानीम: । उपास्यं च रूपं विद्याया: ।न च विद्यमाने रूपाभेदे विद्याभेदमध्यवसातुं शक्नुम: ।नापि विद्याभेदे गुणव्यवस्थानम् ।ननु पौनरुक्त्यप्रसङ्गाद्विद्याभेदोऽध्यवसित: ।नेत्युच्यते ।अर्थविभागोपपत्ते: ।एकं हयान्नानं विद्याविधानार्थमपरं गुणविधानार्थमिति न किंचिन्नोपपद्यते ।नन्वेवं स्रति यदपठितमग्निरहस्ये तदेव बृहदारण्यके पठितव्यम् । स एष सर्वंस्येशान इत्यादि ।यत्तु पठितमेव मनोमय इत्यादि तन्न पठितव्यम् ।नैष दोष: ।तद्बलेनैव प्रदेशान्तरपठितविद्याप्रत्यभिज्ञानात् ।समानगुणज्ञानेन हि विप्रकृष्टदेशां शाण्डिल्यविद्याम प्रत्यभिज्ञाप्य तस्यामीशानत्वाद्युपदिश्यते ।अन्यथा हि कथं तस्यामयं गुणविधिरभिधीयते ।अपि चाप्राप्तांशोपदेशेनार्थवति वाक्ये सञ्जाते प्राप्तांशपरामर्शस्य नित्यानुवादतयाऽप्युपपद्यमानत्वान्न तद्वलेन प्रत्यभिज्ञोपेक्षितुं शक्यते ।तस्मादत्र सामानायामपि शाखायां विद्यैकत्वं गुणोपसंहारश्चेत्युपपन्नम् ॥१९॥१०॥ N/A References : N/A Last Updated : December 20, 2014 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP