संस्कृत सूची|संस्कृत साहित्य|धर्मः|ब्रह्म सूत्राणि|तृतीयोध्यायः|तॄतीय: पाद:| सूत्र २४ तॄतीय: पाद: सूत्र १ सूत्र २ सूत्र ३ सूत्र ४-५ सूत्र ६ सूत्र ७ सूत्र ८ सूत्र ९ सूत्र १० सूत्र ११ सूत्र १२ सूत्र १३-१४ सूत्र १५ सूत्र १६ सूत्र १७ सूत्र १८ सूत्र १९ सूत्र २० सूत्र २१-२२ सूत्र २३ सूत्र २४ सूत्र २५ सूत्र २६ सूत्र २७-२८ सूत्र २९-३० सूत्र ३१ सूत्र ३२ सूत्र ३३ सूत्र ३४ सूत्र ३५ सूत्र ३६ सूत्र ३७ सूत्र ३८ सूत्र ३९ सूत्र ४० सूत्र ४१ सूत्र ४२ सूत्र ४३ सूत्र ४४-४५ सूत्र ४६-४९ सूत्र ५० सूत्र ५१-५२ सूत्र ५३-५४ सूत्र ५५ सूत्र ५६ सूत्र ५७ सूत्र ५८ सूत्र ५९ सूत्र ६०-६६ तृतीयाः पाद: - सूत्र २४ ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत. Tags : bookbrahmasutradharmaधर्मब्रह्मसूत्र सूत्र २४ Translation - भाषांतर पुरुषविद्यायामिव चेतरेषामनाम्नानात् ॥२४॥पुरुषविद्यायामिव चेतरेषामनाम्नानात् । अस्ति ताण्डिनां पैङ्गिनां च रहस्यब्राम्हाणे पुरुषविद्या ।तत्र पुरुषो यज्ञ: कल्पित: ।तदीयमायुस्त्रेधा विभज्य सवनत्रयं कल्पितम् ।अशिशिषादीनि च दीक्षादिभावेन कल्पितानि ।अन्ये च धर्मास्तत्र समधिगता आशीर्मन्त्रप्रयोगादय: ।तैत्तिरीयका अपि कंचित्पुरुषयज्ञं कल्पयन्ति तस्यैवं विदुषो यज्ञस्यात्मा यजमान: श्रद्धा पत्नी इत्येतेनानुवाकेन ।तत्र संशय: ।किं य इतरप्रोक्ता: पुरूषयज्ञस्य धर्मास्ते तैत्तिरीयकेषूपसंहर्तव्या: किं वा नोपसंहर्तव्या इति ।प्रुषयज्ञत्वाविशेषादुपसंहारप्राप्तावाचक्ष्महे नोपसंहर्तव्या इति । कस्मात् ।तद्रूपप्रत्यभिज्ञानाभावात् ।तदाहाचार्य: पुरुषविद्यायामिवेति ।यथैकेषां शाखिनां ताण्डिनां पैङ्गिनां च पुरुषविद्यायामान्नानं नैवमितरेषां तैत्तिरीयाणामान्नानमस्ति ।तेषां इअतिरविलक्षणमेव यज्ञसंपादनं दृश्यते पत्नीयजमानवेदवेदिबर्हिर्य़ूपाज्यपश्वृत्विगाद्यनुक्रमणात् ।यदपि सवनसपादनम तदपीतरविलक्षणमेव यत्सायं प्रातर्मध्यदिन सायं च तानि सवनानीति ।यदपि किञ्चन्मरणावभृथ त्वादिसाम्यं तदप्यल्पीयस्स्वाद्भूयसा वैलक्षण्येनाभिभूयमानं न प्रत्यभिज्ञापनक्षमम् ।न च तैत्तिरीयके पुरुषस्य यज्ञत्वं श्रूयते विदुषो यज्ञस्येति हि न चैते समानाधिकरणे षष्ठयौ विद्वानेव यो यज्ञस्तस्येति ।न हि पुरुषस्य मुख्यं यज्ञत्वमस्ति व्यधिकरणे त्वेते षष्ठयो विदुषो यो यज्ञस्तस्येति ।भवति हि पुरुषस्य मुख्यो यज्ञसंबन्ध: ।सत्यां च गतौ मुख्य एवार्थ आश्रयितव्योन भाक्त: ।आत्मा यजमान इति च यजमानत्वं पुरुषस्य निर्ब्रुवन्वैयधिकरण्येनंवास्य यज्ञसंबन्धं दर्शयति ।अपि च तस्यैवं विदुष इति सिद्धवदनुवादश्रुतौ सत्यां पुरुषस्य यज्ञभावमात्मादीनां च यजमानादिभावं प्रतिप्तित्समानस्य वाक्यभेद: स्यात् ।अपि च ससंन्यासामात्मविद्यां पुरस्तादुपदिश्यानन्तरं तस्यैवं विदुष इत्याद्यनुक्रमणं पश्यन्त: पूर्वशेष एवैष आम्नायो न स्वतन्त्र इत प्रतीम: ।तथा चैकमेव फलमुभयोरप्यनुवाकयोरुपलभामहे ब्रम्हाणो महिमानमाप्नोतीति ।इतरेषां त्वनन्यशेष: पुरुषविद्यान्नाय: ।अयुरभिवृद्धिफलो हयसौ स ह षोडशवर्षशतं जीवति य एवं वेदेति समभिव्याहारात् ।तस्माच्छाखान्तराधीतानां पुरुषविद्याधर्माणामाशीर्मन्त्रादीनामप्राप्तिस्तैत्तिरीयके ॥२४॥१३॥ N/A References : N/A Last Updated : December 20, 2014 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP