तृतीयाः पाद: - सूत्र ३३

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


अक्षरधियां त्ववरोध: सामान्यतद्भावाभ्यामौपसदवत्तदुक्तम् ॥३३॥

अक्शरधियां त्ववरोध: सामान्यतद्भावाभ्यामौपसदवत्तदुक्तम् ॥ वाजसनेयके श्रूयते - एतद्वै तदक्षरं गार्गि ब्राम्हणा अभिवदन्त्यस्थूलमनण्वहस्वमदीर्घमलोहितमस्नेहमित्यादि ।
तथाथर्वणे श्रूयते - अथ परा यया तदक्षरमधिगम्यते यत्तदद्रेश्यमग्राहयमगोत्रमवर्णमित्यादि ।
तथैवान्यत्रापि विशेषनिराकरणद्वारेणाक्षरं परं ब्रम्हा श्राव्यते ।
तत्र क्वचित्केचिदतिरिक्ता विशेषा: प्रतिषिध्यन्ते ।
तासां विशेषप्रतिषेधबुद्धीनां किं सर्वासं सर्वत्र प्राप्तिरुत व्यवस्थेति संशये श्रुतिविभागादव्यवस्थाप्राप्ताबुच्यते ।
अक्षरविषयास्तु विशेषप्रतिशेधबुद्धय: सर्वा: सर्वन्नावरोद्धव्या: सामान्यतद्भावाभ्याम् ।
समानो हि सर्वत्र विशेषनिराकरणरूपो ब्रम्हाप्रतिपादनप्रकार: ।
तदेव च सर्वत्र प्रतिपाद्यं ब्रम्हाभिन्नं प्रत्यभिज्ञायते ।
तत्र किमित्यन्यत्र कृता बुद्धयोऽन्यत्र न स्पु: ।
तथा चानन्दादय: प्रधानस्येत्यत्र व्याख्यातम् ।
तत्र विधिरूपाणि विशेषणानि चिन्तितानीह प्रतिषेधरूपाणिति विशेष: ।
प्रपञ्चार्थश्चायं चिन्ताभेद: ।
औपसदवदिति निदर्शनम् ।
यथा जामदग्न्येऽहीने पुरोडाशिनीषूपसत्सु चोचितासु पुरोडाशप्रदानमन्त्राणामग्नेर्वेर्होत्रं वेरध्वरमित्येवमादीनामुद्नातृवेदोत्पनानामप्यध्वर्युभिरभिसंबन्धो भवति ।
अध्वर्युकर्तृकत्वात्पुरोडाशप्रदानस्य प्रधानतन्त्रत्वाञ्चाङ्गानाम् ।
एवमिहाप्यक्षरतन्त्रस्वात्तद्विशेषणानां यत्र क्वचिद्दप्युत्पन्नानामक्षरेण सर्वत्नाभिसंबन्ध इत्यर्थ: ।
तदुक्तं प्रथमे काण्डे गुणमुख्यव्यतिक्रमे तदर्थत्वान्मुख्येन वेदसंयोग इत्यत्र ॥३३॥२०)

N/A

References : N/A
Last Updated : December 20, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP