तृतीयाः पाद: - सूत्र ३५

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


अन्तरा भूतग्रामवत्स्वात्मन: ॥३५॥

अन्तरा भूतग्रामवत्स्वात्मन: ॥ यत्साक्षादपरोक्षादब्रम्हा य आत्मा सर्वान्तर इत्येवं द्विरुषस्तिकहोलप्रश्नयोर्नैरन्तर्येण वाजसनेयिन: समामनन्ति ।
तत्र संशयो विद्यैकत्वं वा स्याद्विद्यानानात्वं वेति ।
विद्यानानात्वमिति तावत्प्राप्तम् ।
अभ्याससामर्थ्यात् ।
अन्यथा हयन्यूनानतिरिक्तार्थं द्विरान्नानमनर्थकमेव स्यात् ।
तस्माद्यथाऽभ्यासात्कर्मभेद एवमभ्यासाद्विद्याभेद इत्येवं प्राप्ते प्रत्याह - अन्तराऽऽन्नानोविशषात्स्वात्मनो विद्यैकत्वमिति ।
सर्वान्तरो हि स्वात्मोभयन्नाप्यविशिष्ट: पृच्छयते प्रत्युच्यते च ।
न हि द्वावात्मानावेकस्मिन्देहे सर्वान्तरौ संभवत: ।
तदा हयेकस्याञ्जसं सर्वान्तरत्वमवकल्प्येत ।
एकस्य तुभूतग्रामवन्नैव सर्वान्तरत्वं स्यात् ।
यथा च पञ्चभूतसमूहे देहे पृथिव्या आपोऽन्तरा अद्भयश्च तेजोऽन्तरमिति सत्यप्यापेक्षिकेऽन्तरत्वे नैव मुख्यं सर्वान्तरत्वं भवति तथेहापीत्यर्थ: ।
अथ बा भूतग्रामवदिति श्रुत्यन्तरं दर्शयति ।
यथा - एको देव: सर्वभूतेषु गूढ: सर्वव्यापी सर्वभूतान्तान्तरात्मेत्यस्मिन्मन्त्रे समस्तेषु भूतग्रामेष्वेक एव सर्वान्तर आत्माऽऽन्नायते ।
एवमनयोरपि ब्राम्हाणयोरित्यर्थ:  ।
तस्माद्वेद्यैकत्वाद्विद्यैकत्वम् ॥३५॥

N/A

References : N/A
Last Updated : December 20, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP