तृतीयाः पाद: - सूत्र ३६

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


अन्यथा भेदानुपपत्तिरिति चेन्नोपदेशान्तरवत् ॥३६॥

अन्यथा भेदानुपपत्तिरिति चेन्नोपदेशान्तरवत् ॥ अथ यदुक्तमनभ्युपगम्यमाने विद्याभेद आन्नानभेदानुपपत्तिरिति तत्परिहर्तव्यम् ।
अत्रोच्यते ।
नायं दोष: ।
उपदेशान्तरवदुपपत्ते: ।
यथा ताण्डिनामुपनिषदि षष्ठे प्रपाठके स आत्मा तत्त्वमसि श्वेतकेतो इति नवकृत्वोऽप्युपदेशेन विद्याभेदो भवत्येवमिहापि भविष्यति ।
कथं च न नवकृत्व उपदेशे विद्याभेदो भवति ।
उपक्रमोपसंहाराभ्यामेकावगमात् ।
भूय एव माभगवान्विज्ञापयत्विति चैकस्यैवार्थस्य पुन: पुन: प्रतिपिपादयिषितत्वेनोपक्षेपात् ।
आशङकान्तरनिराकरणेन चासकृदुपदेशोपपत्ते: ।
एवमिहापि प्रश्नरूपाभेदात् ।
अतोऽन्यदार्तमिति च परिसमाप्त्यविशेषादुपक्रमोपसंहारौ तावदेकार्थविषयौ द्दश्येते ।
यदेव साक्षादपरोक्शादब्रम्होति द्वितीये प्रश्न एवकारं प्रयुज्ञ्जान: पूर्वप्रश्नगतमेवार्थमुतरत्रानुकृष्यमाणं दर्शयति ।
पूर्वस्मिंश्च ब्राम्हाणे कार्यकरणव्यतिरिक्तस्यात्मन: सद्भाव: कथ्यते ।
उत्तरस्मिंस्तु तस्यैवाशनायादिसंसारधर्मातितत्वं कथ्यते ।
इत्येकार्तह्तोपपत्ति: ।
तस्मादेका विद्येति ॥३६॥

N/A

References : N/A
Last Updated : December 20, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP