संस्कृत सूची|संस्कृत साहित्य|धर्मः|ब्रह्म सूत्राणि|तृतीयोध्यायः|तॄतीय: पाद:| सूत्र १७ तॄतीय: पाद: सूत्र १ सूत्र २ सूत्र ३ सूत्र ४-५ सूत्र ६ सूत्र ७ सूत्र ८ सूत्र ९ सूत्र १० सूत्र ११ सूत्र १२ सूत्र १३-१४ सूत्र १५ सूत्र १६ सूत्र १७ सूत्र १८ सूत्र १९ सूत्र २० सूत्र २१-२२ सूत्र २३ सूत्र २४ सूत्र २५ सूत्र २६ सूत्र २७-२८ सूत्र २९-३० सूत्र ३१ सूत्र ३२ सूत्र ३३ सूत्र ३४ सूत्र ३५ सूत्र ३६ सूत्र ३७ सूत्र ३८ सूत्र ३९ सूत्र ४० सूत्र ४१ सूत्र ४२ सूत्र ४३ सूत्र ४४-४५ सूत्र ४६-४९ सूत्र ५० सूत्र ५१-५२ सूत्र ५३-५४ सूत्र ५५ सूत्र ५६ सूत्र ५७ सूत्र ५८ सूत्र ५९ सूत्र ६०-६६ तृतीयाः पाद: - सूत्र १७ ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत. Tags : bookbrahmasutradharmaधर्मब्रह्मसूत्र सूत्र १७ Translation - भाषांतर अन्वयादिति चेत्स्यादवधारणात् ॥१७॥अन्वयादिति चेत्स्यादवधारणात् । वाक्यान्वयदर्शनान्न परमात्मग्रहणमिति पुनर्यदुक्तं तत्परिहर्त यमिति ।अत्रोच्यते ।स्यादवधारणादिति ।भवेदुपपन्नं परमात्मन इह ग्रहणम् । कस्मात् ।अवधारणात् । परमात्मग्रहणे हि प्रागुत्पत्तेरात्मैकत्वावधारणमाञ्जसमवकल्पते ।अन्यथा हयनाञ्जसं तत्परिकल्प्येत ।लोकसृष्टिवचनं तु श्रुत्यन्तरप्रसिद्धमहाभूतसृष्टयनन्तरमिति योययिष्यामि ।यथा तत्तेजोऽसृजतेत्येतच्छ्रुत्यन्तरप्रसिद्धवियद्वायुसृष्टयनन्तरंमित्ययूजमेवमिहापि ।श्रुत्यन्तरप्रसिद्धो हि समानविषयो विशेष: श्रुत्यन्तरेषूपसंहर्तव्यो भवति ।योऽप्ययं व्यापारविशेशनुगमस्ताभ्यो गामानयदित्यादि: सोऽपि विवक्षितार्थावधारणानुगुण्येनैव ग्रहीतव्य: ।न हययं प्रकल: कथाप्रबन्धो विवक्षित इति शक्यते वक्तुम् ।तत्प्रतिपत्तौ पुरुषार्थाभावात् ।ब्रम्हात्मत्वं त्विह विवक्षितम् ।तथा हयम्भ: प्रभृतीनं लोकानां लोकपालानां चारन्यादीनां सृष्टिं शिष्ट्वा करणानि करणायतनं च शरीरमुपदिश्य स एव स्रष्टा कथं न्विदं मद्दते स्यादिति वीक्ष्येदं शरीरं प्रविएशेति दर्शंयति ।स एवमेव सीमानं विदार्यैतया द्वारा प्रापद्यतेति ।पुनश्च यदि वाचाभिव्याह्रतं यदि प्राणेनाभिप्राणितमित्येवमादिना करणव्यापारविवेद्चनपूर्वकमथ कोऽहमिति वीक्ष्य स एवमेव पुरुषं ब्रम्हा ततममपश्यदिति ब्रम्हात्मत्वदर्शनमवधारयति ।तथोपरिष्टात् - एष ब्रम्हौष इन्द्र तियादिना समस्तं भेदजातं सह महाभूतैरनुक्रम्य सर्वं तत्प्रज्ञानेत्रं प्रज्ञाने प्रतिष्ठितं प्रज्ञनेत्रो लोक: प्रज्ञा प्रतिष्था प्रज्ञान ब्रम्होति ब्रम्हात्मत्वदर्शनमेवावधारयति ।तस्मादिहात्मगृहीतिरित्यनपवदम् ।अपरा योजना ।आत्मगृहीतिरितरवदुत्तरात् ।वाजसनेयके कतम आत्मेति योऽयं विज्ञानमय: प्राणेषु ह्रद्यन्तर्ज्योति: पुरुष इत्यात्मशब्देनोपक्रम्य तस्यैव सर्वसङ्गविमुक्तत्वप्रतिपादनेन ब्रम्हात्मतामवधारयति तथा हयुपसंहरति स वा एष महानज आत्माऽजरोऽमरोऽमृतोऽभयो ब्रम्होति ।छान्दोग्ये तु - सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयमित्यन्तरेणैवात्मशब्दमुपक्रम्योदर्के स आत्मा तत्त्वमसीति तादात्म्यमुपदिशति ।तत्र संशय: ।तुल्यार्थत्वम किमनयोरान्नानयो: स्यादतुल्यार्थत्वं वेति ।अतुल्यार्थत्वमिति तावत्प्राप्तमतुल्यत्वादान्नानयो: ।न हयान्नानवैषम्ये सत्यर्थसाम्यं युक्तं प्रतिपत्तुमान्नानतन्त्रत्वादर्थपरिग्रहस्य ।वाजसनेयके चात्मशब्दोपक्रमादात्मतत्त्वोपदेश इति गम्यते ।छान्दोग्ये तूपक्रमविपर्ययादुपदेशविपर्यय: ।ननु च छन्दोगानामप्यस्त्युदर्के तादात्म्योपदेस इत्युक्तम् ।सत्यमुक्तमुपक्रमतन्त्रत्वादुपसंहारस्य तादात्म्यसंपति: सेति मन्यते ।तथा प्राप्तेऽभिधीयते ।आत्मगृहीति: सदेव सोम्येदमग्र आसीदित्यत्र छन्दोगानामपि भवितुमर्हतीरवत् ।यथा कतम आत्मेत्यत्र वाजसनेयिनामात्मगृहीतिस्तथैव ।कस्मातू ।उत्तरात्तादात्म्योपदेशात् । अन्वयादिति चेत् ।स्यादवधारणात् ।वदुक्तमुपक्रमान्वयादुपक्रमे चात्मशब्दश्रवणाभावात् ।नात्मगृहीतिरिति तस्य क: परिहार इति चेत् ।सोऽभिधीयते स्यादवधारणादिति ।भवेदुपपन्नेहात्मगृहीतिरव्धारणात् ।तथा हि - येनाश्रुतं श्रुतं भवति अमतं मतमविज्ञातं विज्ञातमिति ।एकविज्ञानेन सर्वविज्ञानमवधार्य तत्सम्पिपादयिषया सदेवेत्याह ।तच्चात्मगृहीतौ सत्यां संपद्यते ।अन्यथा हि योऽयं मुख्य आत्मा स न विज्ञात इति नैव सर्वविज्ञानं संपद्यते ।तथा प्रागुत्पत्तेरेकत्वावधारणं जीवस्य चात्मशब्देन परामर्श: स्वापावस्थायां च तत्स्वभावसंपत्तिकथनं परिचोदनापूर्वकं च पुन: पुनस्तत्त्वमसीत्यवधारणमिति च सर्वमेतत्तादात्म्यप्रतिपादनायामेवावकल्पते न तादात्म्यसंपादनायाम् ।न चात्रोपक्रमन्त्रतोपन्यासो न्याय: ।न हयुपक्रमे आत्मत्वसङकीर्तनमनात्मत्वसङ्कीर्तनं वास्ति ।सामान्योपक्रमश्च न वाक्यशेषगतेन विशेषेण विरुध्यते विशेषाकाङ्क्षित्वात्सामान्यस्य ।सच्छब्दार्थोऽपि च पर्यालोच्यमानो न मुख्यादात्मनोऽन्य: संभवति ।अतोऽन्यस्य वस्तुजातस्यारम्भणशब्दादिभ्योऽनृतत्वोपपत्ते: ।आन्नानवैषम्यमपि नावश्यमर्थवैषम्यमावहति ।आहर पात्रं पात्रमाहरेत्यादिष्वर्थसाम्येऽपि तद्दर्शनात् ।तस्मादेवंजातीयकेषौ वाक्येषु प्रतिपादनप्रकारभेदेऽपि प्रतिपाद्यार्थाभेद इति सिद्धम् ॥१७॥ N/A References : N/A Last Updated : December 20, 2014 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP