तृतीयाः पाद: - सूत्र ९

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


व्याप्तेश्च समञ्चसम् ॥९॥

व्याप्तेश्च समञ्चसम । ओमित्येतदक्षरमुद्नीथमुपासीतेत्यत्राक्षरोद्नीथशब्दयो: सामानाधिकरण्ये श्रूयमाणेऽध्यासापवादैकत्वविशेषणपक्षाणां प्रतिभासनात्कतमोऽत्र पक्षो न्याय्य: स्यादिति विचार: ।
तत्राध्यासो नाम द्वयोर्वस्तुनोरनिवर्तितायामेवान्यतरबुद्धावन्यतरबुद्धिरध्यस्यते ।
यस्मिन्नितरबुद्धिरध्यस्यतेऽनुवर्तत एव तस्मिंस्तद्वुद्धिरध्यस्तेतरबुद्धावपि ।
यथा नान्नि ब्रम्हाबुद्धावध्यस्यमानायामप्यनुर्वतत एव नामवुद्धिर्न ब्रम्हाबुद्धया निवर्तते ।
यथा वा प्रतिमादिषु विष्णवादिबुद्धयध्यास: ।
एवमिहाप्यक्षर उद्नीथबुद्धिरध्यस्येतोद्नीथे वाऽक्षरबुद्धिरिति ।
अपवादो नाम यत्र कस्मिंश्चिद्वस्तुनि पूर्वनिविष्टायां मिथ्याबुद्धौ निश्चितायां पश्चादुपजायमाना यथार्था बुद्धि: पूर्वनिविष्टाया मिथ्याबुद्धेर्निवर्तिका भवति ।
यथा देहेन्द्रियसङघात आत्मबुद्धिरात्मन्येवात्मबुद्धया पश्चाद्भाविन्या तत्त्वमसीत्यनया यथार्थबुद्धया निवर्ततै ।
यथा वा दिग्भ्रान्तिबुद्धिर्दिग्याथात्म्यबुद्ध्यो निवर्त्यते ।
एवमिहाप्यक्षरबुद्धयोद्नीथबुद्धिर्निवर्त्यत उद्नीथबुद्धया वाऽक्षरबुद्धिरिति ।
एकत्वं त्वक्षरोद्नीथशब्दयोरनतिरिक्तार्थवृत्तित्वम् ।
यथा द्विजोत्तमो ब्राम्हाणो भूमिदेव इति ।
विशेषणं पुन: सर्ववेदव्यापिन ओमित्येतस्याक्षरस्य ग्रहणप्रसङ्ग औद्नात्रविशेषस्य समर्पणम् ।
यथा नीलं यदुत्पलं तदानयेति ।
एवमिहाप्युद्नीथो य ॐ कारस्तमुपासीतेति ।
एवमेतस्मिन्सामानाधिकरण्यवाक्ये विमृश्यमान एते पक्षा: प्रतिभान्ति ।
तत्रान्यतमनिर्धारणे कारणाभावादनिर्धारणप्राप्ताविदमुच्यते ।
व्याप्तेश्च समञ्चसमिति ।
चशब्दोऽयं तुशब्दस्थाननिवेशी पक्षत्रयव्यावर्तनप्रयोजन: ।
तदिह त्रय: पक्षा: सावद्या इति पर्युदस्यन्ते विशेषणपक्ष एवैको निरवद्य इत्युपादीयते ।
तत्राध्यासे तावद्या बुद्धिरितरत्राध्यस्यते तच्छब्दस्य लक्षणावृत्तित्त्वं प्रसज्येत तत्फलं च कल्प्ये ।
श्रूयत एव फलमापयिता ह वै कामनां भवतीत्यादीति चेत् । न ।
तस्यान्यफलत्वात्  । आप्ल्यादिदृष्टिफल हि तन्नोद्नीथाध्यासफलम् ।
अपवादेऽपि समान: फलाभाव: ।
मिथ्याज्ञाननिवृत्ति: फलमिति चेत् । न ।
पुरुषार्थोपयोगानवगमात् ।
न च कदाचिदप्योङ्कारादोङ्कारबुद्धिर्निवर्तत उद्नीथाद्वोद्नीथबुद्धि: ।
न चेदं वाक्यं वस्तुतत्त्वप्रतिपादनपरम् ।
उपासनविधिपरत्वात् ।
नाप्येकत्वपक्ष: सङ्गच्छते ।
निष्प्रयोजनं हि तदा शब्दद्वयोच्चारणं स्यात् ।
एकेनैव विवक्षितार्तह्समर्पणात् ।
न च हौत्रविषर्येवाऽऽध्वर्यविषये वाऽक्षर ॐ कारशब्दवाच्य उद्नीथशब्दप्रसिद्धिरस्ति ।
 नापि सकलायां सान्नो द्वितीयायां भक्तावुद्नीथशब्दवाच्यायामोङ्कारशब्दप्रसिद्धि: ।
येनानतिरिक्तार्थता स्यात् ।
परिशेषाद्विशेषणपक्ष: परिगृहयत ।
व्याप्ते: सर्ववेदसाधारण्यात् ।
स्रर्वव्याप्यक्षारमिह मा प्रसञ्जीत्यत उद्नीथशब्देनाक्षरं विशिष्यते ।
कथं नामोद्नीथावयवभूत ॐ गृहयेतेति ।
नन्वस्मिन्नपि पक्षे समाना लक्षणा उद्नीथशब्दस्यावयवलक्षणार्थत्वात् ।
सत्यमेवमेतत् ।
लक्षणायामपि तु सन्निकर्षविप्रकर्षौ भवत एव ।
अध्यासपक्षे हयर्थान्तरबुद्धिरर्थान्तरे निक्षिप्यत इति विप्रकृष्टा लक्षणा विशेषणपक्षे त्ववयविवचनेन शब्देनावयव: समर्प्यत इति सन्निकृष्टा लक्षणा ।
समुदायेषु हि प्रवृत्ता: शब्दा अवयवेष्वपि वर्तमाना दृष्टा: पटग्रामादिषु ।
अतश्च व्याप्तेर्हेतोरोमित्येतदक्षरमित्येतस्योद्नीथमित्येतद्विशेषणमिति समञ्जसमेतन्निरवद्यमित्यर्थं: ॥९॥५॥

N/A

References : N/A
Last Updated : December 20, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP