तृतीयाः पाद: - सूत्र ४४-४५

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


लिङ्गभूयस्त्वात्तद्धि बलीयस्तदपि ॥४४॥

लिङ्गभूयस्त्वात्तद्धि बलीयस्तदपि । वाजसनेयिनोऽग्निरहस्थे नैव वा इदमग्रे सदासीदित्यस्मिन्ब्राम्हाणे मनोऽविकृत्याधीयते तत्षटत्रिंशत्सहस्राण्यपश्यदात्मनोऽग्नीनर्कान्मनोमयात्मनश्चित इत्यादि ।
तथैव वाकचित: प्राणचितश्चक्षुश्चित: श्रोत्रचित: कर्मचितोऽग्निचित इति पृथगग्नीनामनन्ति सांपादिकान् ।
तेषु संशय: किमेते मनश्चिदादय: क्रियानुप्रवेशिनस्तच्छेषभूता उत स्वतन्त्र: केवलविद्यात्मका इति ।
तत्र प्रक्ररणात्क्रियानुप्रवेशे प्राप्ते स्वातन्त्र्यं तावत्प्रतिजानीते लिङ्गभूयस्त्वादिति ।
भूयांसि हि लिङ्गान्यस्मिन्ब्रम्हाणे केवलविद्यात्मकत्वमेषामुपोद्वलयन्ति द्दश्यन्ते तद्यत्किं चेमानि भूतानि मनसा संकल्पयन्ति तेषामेव सा कृतिरिति तान्हैतानेवंविद सर्वदा सर्वाणि भूतानि चिन्वन्त्यपि स्वपत इति चैवंजातीयकानि ।
तद्धि लिङ्गं प्रकरणाद्बलीय: ।
तदप्युक्तं पूर्वस्मिन्क्राण्डे श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यायां समवाये पारदौर्बल्यमर्थविप्रक्रर्षादिति ॥४४॥

पूर्वविकल्प: प्रकरणात्स्यात्क्रिया मानसवत् ॥४५॥

पूर्वदिकल्प: प्रकरणात्स्यात्क्रिया मानसवत् ॥ नेतद्युक्तं स्वतन्त्रा एतेऽग्नयोऽनन्यशेषभूता इति ।
पूर्वस्य क्रियामयस्याग्ने: प्रकरणात्तद्विषय एवायं विकल्पविशेषोपदेश: स्यान्न सवतन्त्र: ।
ननु प्रकरणाल्लिङ्गं बलीय: ।
सत्यमेव तत् ।
लिङ्गमपि त्वेवंजातीयकं न प्रकरणाद्वलीयो भवति ।
अन्यार्थदर्शनं हयेतत् ।
सांपादिकाग्निप्रशंसारूफत्वात् ।
अन्यार्थदर्शनं चासत्यामन्यस्यां प्राप्तौ गुणवादेनाप्युपपद्यमानं न प्रकरणं बाधितुमुत्सहते ।
तस्मात्सांपादिका अप्येतेऽग्नय: प्रकरणात्क्रियानुप्रवेशिन एव स्यु: । मानसवत् ।
यथा दशरात्रस्य दशमेऽहन्यविवाक्ये पृथिव्या पात्रेण समुद्रस्य सोमस्य प्रजापतये देवतायै गृहयमाणस्य ग्रहणासादनहवनाहरणोपहवानभक्षणानि मानसान्येवान्नायन्ते ।
स च मानसोऽपि ग्रहकल्प: क्रियाप्रकरणात्क्रियाशेष एव भवत्येवमयमप्यग्निकल्प इत्यर्थ: ॥४५॥

N/A

References : N/A
Last Updated : December 20, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP