अर्थशास्त्रम् अध्याय ०२ - भाग ३३

अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे.

३३.०१
अश्व.अध्यक्षेण रथ.अध्यक्षो व्याख्यातः ॥

३३.०२
स रथ.कर्म.अन्तान् कारयेत् ॥

३३.०३
दश.पुरुषो द्वादश.अन्तरो रथः ॥

३३.०४
तस्माद् एक.अन्तर.अवरा आ.षड्.अन्तराद् इति सप्त रथाः ॥

३३.०५
देव.रथ.पुष्य.रथ.सांग्रामिक.पारियाणिक.पर.पुर.अभियानिक.वैनयिकांश् च रथान् कारयेत् ॥

३३.०६
इष्व्.अस्त्र.प्रहरण.आवरण.उपकरण.कल्पनाः सारथि.रथिक.रथ्यानां च कर्मस्व् आयोगं विद्यात्, आ.कर्मभ्यश् च भक्त.वेतनं भृतानाम् अभृतानां च योग्या.रक्षा.अनुष्ठानम् अर्थ.मान.कर्म च ॥

३३.०७
एतेन पत्त्य्.अध्यक्षो व्याख्यातः ॥

३३.०८
स मौल.भृत.श्रेणि.मित्र.अमित्र.अटवी.बलानां सार.फल्गुतां विद्यात्, निम्न.स्थल.प्रकाश.कूट.खनक.आकाश.दिवा.रात्रि.युद्ध.व्यायामं च, आयोगम् अयोगं च कर्मसु ॥

३३.०९
तेद् एव सेना.पतिः सर्व.युद्ध.प्रहरण.विद्या.विनीतो हस्त्य्.अश्व.रथ.चर्या.संघुष्टश् चतुर्.अङ्गस्य बलस्य_अनुष्ठान.अधिष्ठानं विद्यात् ॥

३३.१०
स्व.भूमिं युद्ध.कालं प्रत्यनीकम् अभिन्न.भेदनं भिन्न.संधानं संहत.भेदनं भिन्न.वधं दुर्ग.वधं यात्रा.कालं च पश्येत् ॥

३३.११
तूर्य.ध्वज.पताकाभिर् व्यूह.संज्ञाः प्रकल्पयेत् ।

३३.११
स्थाने याने प्रहरणे सैन्यानां विनये रतः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP