संस्कृत सूची|शास्त्रः|अर्थशास्त्रम्|अध्याय २| भाग २२ अध्याय २ भाग १ भाग २ भाग ३ भाग ४ भाग ५ भाग ६ भाग ७ भाग ८ भाग ९ भाग १० भाग ११ भाग १२ भाग १३ भाग १४ भाग १५ भाग १६ भाग १७ भाग १८ भाग १९ भाग २० भाग २१ भाग २२ भाग २३ भाग २३ भाग २४ भाग २५ भाग २६ भाग २७ भाग २८ भाग २९ भाग ३० भाग ३१ भाग ३२ भाग ३३ भाग ३४ भाग ३५ भाग ३६ अर्थशास्त्रम् अध्याय ०२ - भाग २२ अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे. Tags : chanakyaeconomicskautilyaअर्थशास्त्रकौटिल्यचाणक्यसंस्कृत भाग २२ Translation - भाषांतर २२.०१बाह्यम् आभ्यन्तरं च_आतिथ्यम् ॥२२.०२निष्क्राम्यं प्रवेश्यं च शुल्कम् ॥२२.०३प्रवेश्यानां मूल्य.पञ्च.भागः ॥२२.०४पुष्प.फल.शाक.मूल.कन्द.वाल्लिक्य.बीज.शुष्क.मत्स्य.मांसानां षड्.भागं गृह्णीयात् ॥२२.०५शङ्ख.वज्र.मणि.मुक्ता.प्रवाल.हाराणां तज्.जात.पुरुषैः कारयेत् कृत.कर्म.प्रमाण.काल.वेतन.फल.निष्पत्तिभिः ॥२२.०६क्षौम.दुकूल.क्रिमि.तान.कङ्कट.हरि.ताल.मनः.शिला.अञ्जन.हिङ्गुलुक.लोह.वर्ण.धातूनां चन्दन.अगुरु.कटुक.किण्व.अवराणां चर्म.दन्त.आस्तरण.प्रावरण.क्रिमि.जातानाम् आज.एडकस्य च दश.भागः पञ्च.दश.भागो वा ॥२२.०७वस्त्र.चतुष्पद.द्विपद.सूत्र.कार्पास.गन्ध.भैषज्य.काष्ठ.वेणु.वल्कल.चर्म.मृद्भ.अण्डानां धान्य.स्नेह.क्षार.लवण.मद्य.पक्वान् नादीनां च विंशति.भागः पञ्च.विंशति.भागो वा ॥२२.०८द्वारादेयं शुल्कं पञ्च.भागः आनुग्राहिकं वा यथा.देश.उपकारं स्थापय्तेत् ॥२२.०९जाति.भूमिषु च पण्यानां विक्रयः ॥२२.१०खनिभ्यो धातु.पण्यादाने षट्.छतम् अत्ययः ॥२२.११पुष्प.फल.वाटेभ्यः पुष्प.फल.आदाने चतुष्.पञ्चाशत्.पणो दण्डः २२.१२ षण्डेभ्यः शाक.मूल.कन्द.आदाने पाद.ऊनं द्वि.पञ्चाशत्.पणो दण्डः ॥२२.१३क्षेत्रेभ्यः सर्व.सस्य.आदाने त्रि.पञ्चाशत्.पणः ॥२२.१४पणो_अध्यर्ध.पणश् च सीता.अत्ययः ॥२२.१५अतो नव.पुराणां देश.जाति.चरित्रतः ।२२.१५पण्यानां स्थापयेच्_शुक्लम् अत्ययं च_अपकारतः ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP