अर्थशास्त्रम् अध्याय ०२ - भाग ७

अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे.

७.०१
अक्ष.पटलम् अध्यक्षः प्रान्.मुखम् उदन्.मुखं वा विभक्त.उपस्थानं निबन्ध.पुस्तक.स्थानं कारयेत् ॥

७.०२
तत्र_अधिकरणानां संख्या.प्रचार.संजात.अग्रम्, कर्म.अन्तानां द्रव्य.प्रयोग.वृद्धि.क्षय.व्यय.प्रयाम.व्याजी.योग.स्थान.वेतन.विष्टि.प्रमाणम्, रत्न.सार.फल्गु.कुप्यानाम् अर्घ.प्रतिवर्णक.मान.प्रतिमान.उन्मान.अवमान.भाण्डम्, देश.ग्राम.जाति.कुल.संघानां धर्म.व्यवहार.चरित्र.संस्थानम्, राज.उपजीविनां प्रग्रह.प्रदेश.भोग.परिहार.भक्त.वेतन.लाभम्, राज्ञश् च पत्नी.पुत्राणां रत्न.भूमि.लाभं निर्देश.उत्पातिक.प्रतीकार.लाभम्, मित्र.अमित्राणां च संधि.विग्रह.प्रदान.आदानं निबन्ध.पुस्तकस्थं कारयेत् ॥

७.०३
ततः सर्व.अधिकरणानां करणीयं सिद्धं शेषम् आय.व्ययौ नीवीम् उपस्थानं प्रचारं चरित्रं संस्थानं च निबन्धेन प्रयच्छेत् ॥

७.०४
उत्तम.मध्यम.अवरेषु च कर्मसु तज्.जातिकम् अध्यक्षं कुर्यात्, सामुदयिकेष्व् अवक्लृप्तिकम्(अवकॢप्तिकम्) यम् उपहत्य राजा न_अनुतप्येत ॥

७.०५
सहग्राहिणः प्रतिभुवः कर्म.उपजीविनः पुत्रा भ्रातरो भार्या दुहितरो भृत्याश् च_अस्य कर्मच्.छेदं वहेयुः ॥

७.०६
त्रि.शतं चतुः.पञ्चाशत्_ च_अहोरात्राणां कर्म.संवत्सरः ॥

७.०७
तम् आषाढी.पर्यवसानम् ऊनं पूर्णं वा दद्यात् ॥

७.०८
करण.अधिष्ठितम् अधिमासकं कुर्यात् ॥

७.०९
अपसर्प.अधिष्ठितंच प्रचारम् ॥

७.१०
प्रचार.चरित्र.संस्थानान्य् अनुपलभमानो हि प्रकृतः समुदयम् अज्ञानेन परिहापयति, उत्थान.क्लेश.असहत्वाद् आलस्येन, शब्दादिष्व् इन्द्रिय.अर्थेषु प्रसक्तः प्रमादेन, संक्रोश.अधर्म.अनर्थ.भीरु.भायेन, कार्य.अर्थिष्व् अनुग्रह.बुद्धिः कामेन, हिंसा.बुद्धिः कोपेन, विद्या.द्रव्य.वल्लभ.अपाश्रयाद् दर्पेण, तुला.मान.तर्क.गणित.अन्तर.उपधानात्_ लोभेन ॥

७.११
"तेषाम् आनुपूर्व्या यावान् अर्थ.उपघातस् तावान् एक.उत्तरो दण्डः" इति मानवाः ॥

७.१२
"सर्वत्र_अष्ट.गुणः" इति पाराशराः ॥

७.१३
"दश.गुणः" इति बार्हस्पत्याः ॥

७.१४
"विंशति.गुणः" इत्य् औशनसाः ॥

७.१५
यथा.अपराधम् इति कौटिल्यः ॥

७.१६
गाणनिक्यानि आषाढीम् आगच्छेयुः ॥

७.१७
आगतानां समुद्र.पुस्तक.भाण्ड.नीवीकानाम् एकत्र.असम्भाषा.अवरोधं कारयेत् ॥

७.१८
आय.व्यय.नीवीनाम् अग्राणि श्रुत्वा नीवीम् अवहारयेत् ॥

७.१९
यच् च_अग्राद् आयस्य_अन्तर.पर्णे नीव्यां वर्धेत व्ययस्य वा यत् परिहापयेत्, तद् अष्ट.गुणम् अध्यक्षं दापयेत् ॥

७.२०
विपर्यये तम् एव प्रति स्यात् ॥

७.२१
यथा.कालम् अनागतानाम् अपुस्तक.भाण्ड.नीवीकानां वा देय.दश.बन्धो दण्डः ॥

७.२२
कार्मिके च_उपस्थिते कारणिकस्य_अप्रतिबध्नतः पूर्वः साहस.दण्डः ॥

७.२३
विपर्यये कार्मिकस्य द्वि.गुणः ॥

७.२४
प्रचार.समं महा.मात्राः समग्राः श्रावयेयुर् अविषम.मन्त्राः ॥

७.२५
पृथग्.भूतो मिथ्या.वादी च_एषाम् उत्तमं दण्डं दद्यात् ॥

७.२६
अकृत.अहो.रूप.हरं मासम् आकाङ्क्षेत ॥

७.२७
मासाद् ऊर्ध्वं मास.द्विशत.उत्तरं दण्डं दद्यात् ॥

७.२८
अल्प.शेष.लेख्य.नीवीकं पञ्च.रात्रम् आकाङ्क्षेत ॥

७.२९
ततः परं कोश.पूर्वम् अहो.रूप.हरं धर्म.व्यवहार.चरित्र.संस्थान.संकलन.निर्वर्तन.अनुमान.चार.प्रयोगैर् अवेक्षेत ॥

७.३०
दिवस.पञ्च.रात्र.पक्ष.मास.चातुर्मास्य.संवत्सरैश् च प्रतिसमानयेत् ॥

७.३१
व्युष्ट.देश.काल.मुख.उत्पत्ति.अनुवृत्ति.प्रमाण.दायक.दापक.निबन्धक.प्रतिग्राहकैश् च_अयं समानयेत् ॥

७.३२
व्युष्ट.देश.काल.मुख.लाभ.कारण.देय.योग.प्रमाण.आज्ञापक.उद्धारक.विधातृक.प्रतिग्राहकैश् च व्ययं समानयेत् ॥

७.३३
व्युष्ट.देश.काल.मुख.अनुवर्तन.रूप.लक्षण.प्रमाण.निक्षेप.भाजन.गोपायकैश् च नीवीं समानयेत् ॥

७.३४
राज.अर्थे कारणिकस्य_अप्रतिबध्नतः प्रतिषेधयतो वा_आज्ञां निबन्धाद् आय.व्ययम् अन्यथा नीवीम् अवलिखतो द्वि.गुणः ॥

७.३५
क्रम.अवहीनम् उत्क्रमम् अविज्ञातं पुनर्.उक्तं वा वस्तुकम् अवलिखतो द्वादश.पणो दण्डः ॥

७.३६
नीवीम् अवलिखतो द्वि.गुणः ॥

७.३७
भक्षयतो_अष्ट.गुणः ॥

७.३८
नाशयतः पञ्च.बन्धः प्रतिदानं च ॥

७.३९
मिथ्या.वादे स्तेय.दण्डः ॥

७.४०
पश्चात्.प्रतिज्ञाते द्वि.गुणः, प्रस्मृत.उत्पन्ने च ॥

७.४१
अपराधं सहेत_अल्पं तुष्येद् अल्पे_अपि च_उदये ।

७.४१
महा.उपकारं च_अध्यक्षं प्रग्रहेण_अभिपूजयेत् ॥ E

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP