संस्कृत सूची|शास्त्रः|अर्थशास्त्रम्|अध्याय २| भाग १९ अध्याय २ भाग १ भाग २ भाग ३ भाग ४ भाग ५ भाग ६ भाग ७ भाग ८ भाग ९ भाग १० भाग ११ भाग १२ भाग १३ भाग १४ भाग १५ भाग १६ भाग १७ भाग १८ भाग १९ भाग २० भाग २१ भाग २२ भाग २३ भाग २३ भाग २४ भाग २५ भाग २६ भाग २७ भाग २८ भाग २९ भाग ३० भाग ३१ भाग ३२ भाग ३३ भाग ३४ भाग ३५ भाग ३६ अर्थशास्त्रम् अध्याय ०२ - भाग १९ अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे. Tags : chanakyaeconomicskautilyaअर्थशास्त्रकौटिल्यचाणक्यसंस्कृत भाग १९ Translation - भाषांतर १९.०१पौतव.अध्यक्षः पौतव.कर्म.अन्तान् कारयेत् ॥१९.०२धान्य.माषा दश सुवर्ण.माषकः, पञ्च वा गुञ्जाः ॥१९.०३ते षोडश सुवर्णः कर्षो वा ॥१९.०४चतुष्.कर्षं पलम् ॥१९.०५अष्ट.अशीतिर् गौर.सर्षपा रूप्य.माषकः ॥१९.०६ते षोडश धरणम्, शौम्ब्यानि वा विंशतिः ॥१९.०७विंशति.तण्डुलं वज्र.धरणम् ॥१९.०८अर्ध.माषकः माषकः द्वौ चत्वारः अष्टौ माषकाः सुवर्णो द्वौ चत्वारः, अष्टौ सुवर्णाः दश विंशतिः त्रिंशत् चत्वारिंशत् शतम् इति ॥१९.०९तेन धरणानि व्याख्यातानि ॥१९.१०प्रतिमानान्य् अयोमयानि मागध.मेकल.शैलमयानि यानि वा न_उदक.प्रदेहाभ्यां वृद्धिं गच्छेयुर् उष्णेन वा ह्रासम् ॥१९.११षडङ्गुलाद् ऊर्ध्वम् अष्ट.अङ्गुल.उत्तरा दश तुलाः कारयेत् लोह.पलाद् ऊर्ध्वम् एक.पल.उत्तराः, यन्त्रम् उभयतः.शिक्यं वा ॥१९.१२पञ्च.त्रिंशत्.पललोहां द्वि.सप्तत्य्.अङ्गुल.आयामां सम.वृत्तां कारयेत् ॥१९.१३तस्याः पञ्च.पलिकं मण्डलं बद्ध्वा सम.करणं कारयेत् ॥१९.१४ततः कर्ष.उत्तरं पलं पल.उत्तरं दश.पलं द्वादश पञ्चदश विंशतिर् इति पदानि कारयेत् ॥१९.१५तत आ.शताद् दश.उत्तरं कारयेत् ॥१९.१६अक्षेषु नान्दी.पिनद्धं कारयेत् ॥१९.१७द्वि.गुण.लोहां तुलाम् अतः षण्णवत्य्.अङ्गुल.आयामां परिमाणीं कारयेत् ॥१९.१८तस्याः शत.पदाद् ऊर्ध्वं विंशतिः पञ्चाशत् शतम् इति पदानि कारयेत् ॥१९.१९विंशति.तौलिको भारः ॥१९.२०दश.धारणिकं पलम् ॥१९.२१तत्.पल.शतम् आय.मानी ॥१९.२२पञ्च.पल.अवरा व्यावहारिकी भाजन्य् अन्तः.पुर.भाजनी च ॥१९.२३तासाम् अर्ध.धरण.अवरं पलम्, द्वि.पल.अवरम् उत्तर.लोहम्, षड्.अङ्गुल.अवराश् च_आयामाः ॥१९.२४पूर्वयोः पञ्च.पलिकः प्रयामो मांस.लोह.लवण.मणि.वर्जम् ॥१९.२५काष्ठ.तुला अष्ट.हस्ता पदवती प्रतिमानवती मयूर.पद.अधिष्ठिता ॥१९.२६काष्ठ.पञ्चविंशति.पलं तण्डुल.प्रस्थ.साधनम् ॥१९.२७एष प्रदेशो बह्व्.अल्पयोः ॥१९.२८इति तुला.प्रतिमानं व्याख्यातम् ॥१९.२९अथ धान्य.माष.द्वि.पल.शतं द्रोणम् आय.मानम्, सप्त.अशीति.पल.शतम् अर्ध.पलं च व्यावहारिकम्, पञ्च.सप्तति.पल.शतं भाजनीयम्, द्वि.षष्टि.पल.शतम् अर्ध.पलं च_अन्तः.पुर.भाजनीयम् ॥१९.३०तेषाम् आढक.प्रस्थ.कुडुबाश् चतुर्.भाग.अवराः ॥१९.३१षोडश.द्रोणा खारी ॥१९.३२विंशति.द्रोणिकः कुम्भः ॥१९.३३कुम्भैर् दशभिर् वहः ॥१९.३४शुष्क.सार.दारु.मयं समं चतुर्.भाग.शिखं मानं कारयेत्, अन्तः.शिखं वा ॥१९.३५रसस्य तु सुरायाः पुष्प.फलयोस् तुष.अङ्गाराणां सुधायाश् च शिखा.मानं द्वि.गुण.उत्तरा वृद्धिः ॥१९.३६स-पाद.पणो द्रोण.मूल्यम् आढकस्य पाद.ऊनः, षण्.माषकाः प्रस्थस्य, माषकः कुडुबस्य ॥१९.३७द्वि.गुणं रस.आदीनां मान.मूल्यम् ॥१९.३८विंशति.पणाः प्रतिमानस्य ॥१९.३९तुला.मूल्यं त्रि.भागः ॥१९.४०चतुर्.मासिकं प्रातिवेधनिकं कारयेत् ॥१९.४१अप्रतिविद्धस्य_अत्ययः स-पादः सप्त.विंशति.पणः ॥१९.४२प्रातिवेधनिकं काकणीकम् अहर् अहः पौतव.अध्यक्षाय दद्युः ॥१९.४३द्वात्रिंशद्.भागस् तप्त.व्याजी सर्पिषः, चतुः.षष्टि.भागस् तैलस्य ॥१९.४४पञ्चाशद् भागो मान.स्रावो द्रवाणाम् ॥१९.४५कुडुब.अर्ध.चतुर्.अष्ट.भागानि मानानि कारयेत् ॥१९.४६कुडुबाश् चतुर्.अशीतिर् वारकः सर्पिषो मतः ॥१९.४७चतुः.षष्टिस् तु तैलस्य पादश् च घटिका_अनयोः ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP