संस्कृत सूची|शास्त्रः|अर्थशास्त्रम्|अध्याय २| भाग ३० अध्याय २ भाग १ भाग २ भाग ३ भाग ४ भाग ५ भाग ६ भाग ७ भाग ८ भाग ९ भाग १० भाग ११ भाग १२ भाग १३ भाग १४ भाग १५ भाग १६ भाग १७ भाग १८ भाग १९ भाग २० भाग २१ भाग २२ भाग २३ भाग २३ भाग २४ भाग २५ भाग २६ भाग २७ भाग २८ भाग २९ भाग ३० भाग ३१ भाग ३२ भाग ३३ भाग ३४ भाग ३५ भाग ३६ अर्थशास्त्रम् अध्याय ०२ - भाग ३० अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे. Tags : chanakyaeconomicskautilyaअर्थशास्त्रकौटिल्यचाणक्यसंस्कृत भाग ३० Translation - भाषांतर ३०.०१अश्व.अध्यक्षः पण्य.आगारिकं क्रय.उपागतम् आहव.लब्धम् आजातं साहाय्य.आगतकं पण.स्थितं यावत्.कालिकं वा_अश्व.पर्यग्रं कुल.वयो.वर्ण.चिह्न.वर्ग.आगमैर् लेखयेत् ॥३०.०२अप्रशस्त.न्यङ्ग.व्याधितांश् च_आवेदयेत् ॥३०.०३कोश.कोष्ठ.अगाराभ्यां च गृहीत्वा मास.लाभम् अश्व.वाहश् चिन्तयेत् ॥३०.०४अश्व.विभवेन_आयताम् अश्वायाम् अद्वि.गुण.विस्तारां चतुर्.द्वार.उपावर्तन.मध्यां स-प्रग्रीवां प्रद्वार.आसन.फलक.युक्तानां वानर.मयूर.पृषत.नकुल.चकोर.शुक.सारिक.आकीर्णां शालां निवेशयेत् ॥३०.०५अश्वायाम् अचतुर्.अश्र.श्लक्ष्ण.फलक.आस्तारं स-खादन.कोष्ठकं स-मूत्र.पुरीष.उत्सर्गम् एक.एकशः प्रान्.मुखम् उदन्.मुखं वा स्थानं निवेशयेत् ॥३०.०६शाला.वशेन वा दिग्.विभागं कल्पयेत् ॥३०.०७वडवा.वृष.किशोराणाम् एक.अन्तेषु ॥३०.०८वडवायाः प्रजतायास् त्रि.रात्रं घृत.प्रस्थः पानम् ॥३०.०९अत ऊर्ध्वं सक्तु.प्रस्थः स्नेह.भैषज्य.प्रतिपानं दश.रात्रम् ॥३०.१०ततः पुलाको यवसम् आर्तवश् च_आहारः ॥३०.११दश.रात्राद् ऊर्ध्वं किशोरस्य घृत.चतुर्.भागः सक्तु.कुडुबः क्षीर.प्रस्थश् च_आहार आ.षण्.मासात् ॥३०.१२ततः परं मास.उत्तरम् अर्ध.वृद्धिर् यव.प्रस्थ आ.त्रि.वर्षात्, द्रोण आ.चतुर्.वर्षात् ॥३०.१३अत ऊर्ध्वं चतुर्.वर्षः पञ्च.वर्षो वा कर्मण्यः पूर्ण.प्रमाणः ॥३०.१४द्वात्रिंशद्.अङ्गुलं मुखम् उत्तम.अश्वस्य, पञ्च.मुखान्य् आयामो, विंशत्य्.अङ्गुला जङ्घा, चतुर्.जङ्घ उत्सेधः ॥३०.१५त्र्य्.अङ्गुल.अवरं मध्यम.अवरयोः ॥३०.१६शत.अङ्गुलः परिणाहः ॥३०.१७पञ्च.भाग.अवरो मध्यम.अवरयोः ॥३०.१८उत्तम.अश्वस्य द्वि.द्रोणं शालि.व्रीहि.यव.प्रियङ्गूणाम् अर्ध.शुष्कम् अर्ध.सिद्धं वा मुद्ग.माषाणां वा पुलाकः स्नेह.प्रस्थश् च, पञ्च.पलं लवणस्य, मांसं पञ्चाशत्.पलिकं रसस्य_आढकं द्वि.गुणं वा दध्नः पिण्ड.क्लेदन.अर्थम्, क्षार.पञ्च.पलिकः सुरायाः प्रस्थः पयसो वा द्वि.गुणः प्रतिपानम् ॥३०.१९दीर्घ.पथ.भार.क्लान्तानां च खादन.अर्थं स्नेह.प्रस्थो_अनुवासनं कुडुबो नस्य.कर्मणः, यवसस्य_अर्ध.भारस् तृणस्य द्वि.गुणः षड्.अरत्नि.परिक्षेपः पुञ्जील.ग्रहो वा ॥३०.२०पाद.अवरम् एतन् मध्यम.अवरयोः ॥३०.२१उत्तम.समो रथ्यो वृषश् च मध्यमः ॥३०.२२मध्यम.समश् च_अवरः ॥३०.२३पाद.हीनं वडवानां पारशमानां च ॥३०.२४अतो_अर्धं किशोराणां च ॥३०.२५इति विधा.योगः ॥३०.२६विधा.पाचक.सूत्र.ग्राहक.चिकित्सकाः प्रतिस्वाद.भाजः ॥३०.२७युद्ध.व्याधि.जरा.कर्म.क्षीणाः पिण्ड.गोचरिकाः स्युः ॥०२.३०.२८असमर.प्रयोग्याः पौर.जानपदानाम् अर्थेन वृषा वडवास्व् आयोज्याः ॥३०.२९प्रयोग्यानाम् उत्तमाः काम्बोज.सैन्धव.आरट्ट.वनायुजाः, मध्यमा बाह्लीक.पापेयक.सौवीरक.तैतलाः, शेषाः प्रत्यवराः ॥३०.३०तेषां तीष्क्ण.भद्र.मन्द.वशेन साम्नाह्यम् औपवाह्यकं वा कर्म प्रयोजयेत् ॥३०.३१चतुर्.अश्रं कर्म.अश्वस्य साम्नाह्यम् ॥३०.३२वल्गनो नीचैर् गतो लङ्घनो घोरणो नारोष्ट्रश् च_औपवाह्याः ॥३०.३३तत्र.औपवेणुको वर्धमानको यमक आलीढ.प्लुतः पृथुग्.अस्त्रिक.चाली च वल्गनः ॥३०.३४स एव शिरः.कर्ण.विशुद्धो नीचैर् गतः, षोडश.मार्गो वा ॥३०.३५प्रकीर्णकः प्रकीर्ण.उत्तरो निषण्णः पार्श्व.अनुवृत्त ऊर्मि.मार्गः शरभ.क्रीडितः शरभ.प्लुतस् त्रि.तालो बाह्य.अनुवृत्तः पञ्च.पाणिः सिंह.आयतः स्वाधूतः क्लिष्टः श्लिङ्गितो बृंहितः पुष्प.अभिकीर्णश् च_इति नीचैर् गत.मार्गः ॥३०.३६कपि.प्लुतो भेक.प्लुत्_एण.प्लुत_एक.पाद.प्लुतः कोकिल.संचार्य्.उरस्यो बक.चारी च लङ्घनः ॥३०.३७काङ्को वारि.काङ्को मायूरो_अर्ध.मायूरो नाकुलो_र्ध.नाकुलो वाराहो_अर्ध.वाराहश् च_इति धोरणः ॥३०.३८संज्ञा.प्रतिकारो नार.उष्ट्र_इति ॥३०.३९षण्णव द्वादश_इति योजनान्य् ध्वा रथ्यानाम्, पञ्च योजनान्य् अर्ध.अष्टमानि दश_इति पृष्ठ.वाहिनाम् अश्वानाम् अध्वा ॥३०.४०विक्रमो भद्र.अश्वासो भार.वाह्य इति मार्गाः ॥३०.४१विक्रमो वल्गितम् उपकण्ठम् उपजवो जवश् च धाराः ॥३०.४२तेषां बन्धन.उपकरणं योग्य.आचार्याः प्रतिदिशेयुः, सांग्रामिकं रथ.अश्व.अलंकारं च सूताः ॥३०.४३अश्वानां चिकित्सकाः शरीर.ह्रास.वृद्धि.प्रतीकारम् ऋतु.विभक्तं च_आहारम् ॥३०.४४सूत्र.ग्राहक.अश्व.बन्धक.यावसिक.विधा.पाचक.स्थान.पाल.केश.कार.जाङ्गुलीविदश् च स्व.कर्मभिर् अश्वान् आराधयेयुः ॥३०.४५कर्म.अतिक्रमे च_एषां दिवस.वेतनच्.छेदनं कुर्यात् ॥३०.४६नीराजन.उपरुद्धं वाहयतश् चिकित्सक.उपरुद्धं वा द्वादश.पणो दण्डः ॥३०.४७क्रिया.भैषज्य.सङ्गेन व्याधि.वृद्धौ प्रतीकार.द्वि.गुणो दण्डः ॥३०.४८तद्.अपराधेन वैलोम्ये पत्त्र.मूल्यं दण्डः ॥३०.४९तेन गो.मण्डलं खर.उष्ट्र.महिषम् अज.अविकं च व्याख्यातम् ॥३०.५०द्विर् अह्नः स्नानम् अश्वानां गन्ध.माल्यं च दापयेत् ।३०.५०कृष्ण.संधिषु भूत.इज्याः शुक्लेषु स्वस्ति.वाचनम् ॥३०.५१नीराजनाम् आश्वयुजे कारयेन् नवमे_अहनि ।३०.५१यात्रा.आदाव् अवसाने वा व्याधौ वा शान्तिके रतः ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP