संस्कृत सूची|शास्त्रः|अर्थशास्त्रम्|अध्याय २| भाग २१ अध्याय २ भाग १ भाग २ भाग ३ भाग ४ भाग ५ भाग ६ भाग ७ भाग ८ भाग ९ भाग १० भाग ११ भाग १२ भाग १३ भाग १४ भाग १५ भाग १६ भाग १७ भाग १८ भाग १९ भाग २० भाग २१ भाग २२ भाग २३ भाग २३ भाग २४ भाग २५ भाग २६ भाग २७ भाग २८ भाग २९ भाग ३० भाग ३१ भाग ३२ भाग ३३ भाग ३४ भाग ३५ भाग ३६ अर्थशास्त्रम् अध्याय ०२ - भाग २१ अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे. Tags : chanakyaeconomicskautilyaअर्थशास्त्रकौटिल्यचाणक्यसंस्कृत भाग २१ Translation - भाषांतर २१.०१शुल्क.अध्यक्षः शुल्क.शालां ध्वजं च प्रान्.मुखम् उदन्.मुखं वा महा.द्वार.अभ्याशे निवेशयेत् ॥२१.०२शुल्क.आदायिनश् चत्वारः पञ्च वा सार्थ.उपयातान् वणिजो लिखेयुः - के कुतस्त्याः कियत्.पण्याः क्व च_अभिज्ञानं मुद्रा वा कृता इति ॥२१.०३अमुद्राणाम् अत्ययो देय.द्वि.गुणः ॥२१.०४कूट.मुद्राणां शुल्क.अष्ट.गुणो दण्डः ॥२१.०५भिन्न.मुद्राणाम् अत्ययो घटिका.स्थाने स्थानम् ॥२१.०६राज.मुद्रा.परिवर्तने नाम.कृते वा स-पाद.पणिकं वहनं दापयेत् ॥२१.०७ध्वज.मूल.उपस्थितस्य प्रमाणम् अर्घं च वैदेहिकाः पण्यस्य ब्रूयुः "एतत्.प्रमाणेन_अर्घेण पण्यम् इदं कः क्रेता" इति ॥२१.०८त्रि.रुद्ध.उषितम् अर्थिभ्यो दद्यात् ॥२१.०९क्रेतृ.संघर्षे मूल्य.वृद्धिः स-शुल्का कोशं गच्छेत् ॥२१.१०शुल्क.भयात् पण्य.प्रमाण मूल्यं वा हीनं ब्रुवतस् तद् अतिरिक्तं राजा हरेत् ॥२१.११शुल्कम् अष्ट.गुणं वा दद्यात् ॥२१.१२तद् एव निविष्ट.पण्यस्य भाण्डस्य हीन.प्रतिवर्णकेन_अर्घ.अपकर्षणे सार.भाण्डस्य फल्गु.भाण्डेन प्रतिच्छादने च कुर्यात् ॥२१.१३प्रतिक्रेतृ.भयाद् वा पण्य.मूल्याद् उपरि मूल्यं वर्धयतो मूल्य.वृद्धिं राजा हरेत्, द्वि.गुणं वा शुल्कं कुर्यात् ॥२१.१४तद् एव_अष्ट.गुणम् अध्यक्षस्यच्. छादयतः ॥२१.१५तस्माद् विक्रयः पण्यानां धृतो मितो गणितो वा कार्यः, तर्कः फल्गु.भाण्डानाम् आनुग्राहिकाणां च ॥२१.१६ध्वज.मूलम् अतिक्रान्तानां च_अकृत.शुल्कानां शुल्काद् अष्ट.गुणो दण्डः ॥२१.१७पथिक.उत्पथिकास् तद् विद्युः ॥२१.१८वैवाहिकम् अन्वायनम् औपायिकं यज्ञ.कृत्य.प्रसव.नैमित्तिकं देव_इज्या.चौल.उपनयन.गो.दान.व्रत.दीक्षा.आदिषु क्रिया.विशेषेषु भाण्डम् उच्छुल्कं गच्छेत् ॥२१.१९अन्यथा.वादिनः स्तेय.दण्डः ॥२१.२०कृत.शुल्केन_अकृत.शुल्कं निर्वाहयतो द्वितीयम् एक.मुद्रया भित्त्वा पण्य.पुटम् अपहरतो वैदेहकस्य तच्_च तावच् च दण्डः ॥२१.२१शुल्क.स्थानाद् गोमय.पलालं प्रमाणं कृत्वा_अपहरत उत्तमः साहस.दण्डः ॥२१.२२शस्त्र.वर्म.कवच.लोह.रथ.रत्न.धान्य.पशूनाम् अन्यतमम् अनिर्वाह्यं निर्वाहयतो यथा_अवघुषितो दण्डः पण्य.नाशश्_च ॥२१.२३तेषाम् अन्यतमस्य_आनयने बहिर् एव_उच्छुल्को विक्रयः ॥२१.२४अन्त.पालः स-पाद.पणिकां वर्तनीं गृह्णीयात् पण्य.वहनस्य, पणिकाम् एक.खुरस्य, पशूनाम् अर्ध.पणिकां क्षुद्र.पशूनां पादिकाम्, अंस.भारस्य माषिकाम् ॥२१.२५नष्ट.अपहृतं च प्रतिविदध्यात् ॥२१.२६वैदेश्यं सार्थं कृत.सार.फल्गु.भाण्ड.विचयनम् अभिज्ञानं मुद्रां च दत्त्वा प्रेषयेद् अध्यक्षस्य ॥२१.२७वैदेहक.व्यञ्जनो वा सार्थ.प्रमाणं राज्ञः प्रेषयेत् ॥२१.२८तेन प्रदेशेन राजा शुल्क.अध्यक्षस्य सार्थ.प्रमाणम् उपदिशेत् सर्वज्ञ.ख्यापन_अर्थम् ॥२१.२९ततः सार्थम् अध्यक्षो_अभिगम्य ब्रूयात् "इदम् अमुष्याम् उष्य च सार.भाण्डं फल्गु.भाण्डं च, न निहूहितव्यम्, एष राज्ञः प्रभावः" इति ॥२१.३०निहूहतः फल्गु.भाण्डं शुल्क.अष्ट.गुणो दण्डः, सार.भाण्डं सर्व.अपहारः ॥२१.३१राष्ट्र.पीडा.करं भाण्डम् उच्छिन्द्याद् अफलं च यत् ।२१.३१महा.उपकारम् उच्छुल्कं कुर्याद् बीजं च दुर्लभम् ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP