संस्कृत सूची|शास्त्रः|अर्थशास्त्रम्|अध्याय २| भाग १६ अध्याय २ भाग १ भाग २ भाग ३ भाग ४ भाग ५ भाग ६ भाग ७ भाग ८ भाग ९ भाग १० भाग ११ भाग १२ भाग १३ भाग १४ भाग १५ भाग १६ भाग १७ भाग १८ भाग १९ भाग २० भाग २१ भाग २२ भाग २३ भाग २३ भाग २४ भाग २५ भाग २६ भाग २७ भाग २८ भाग २९ भाग ३० भाग ३१ भाग ३२ भाग ३३ भाग ३४ भाग ३५ भाग ३६ अर्थशास्त्रम् अध्याय ०२ - भाग १६ अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे. Tags : chanakyaeconomicskautilyaअर्थशास्त्रकौटिल्यचाणक्यसंस्कृत भाग १६ Translation - भाषांतर १६.०१पण्य.अध्यक्षः स्थल.जलजानां नाना.विधानां पण्यानां स्थल.पथ.वारि.पथ.उपयातानां सार.फल्ग्व्.अर्घ.अन्तरं प्रिय.अप्रियतां च विद्यात्, तथा विक्षेप.संक्षेप.क्रय.विक्रय.प्रयोग.कालान् ॥१६.०२यच् च पण्यं प्रचुरं स्यात् तद् एकी.कृत्य_अर्घम् आरोपयेत् ॥१६.०३प्राप्ते_अर्घे वा_अर्घ.अन्तरं कारयेत् ॥१६.०४स्व.भूमिजानां राज.पण्यानाम् एक.मुखं व्यवहारं स्थापयेत्, पर.भूमिजानाम् अनेक.मुखम् ॥१६.०५उभयं च प्रजानाम् अनुग्रहेण विक्रापयेत् ॥१६.०६स्थूलम् अपि च लाभं प्रजानाम् औपघातिकं वारयेत् ॥१६.०७अजस्र.पण्यानां काल.उपरोधं संकुल.दोषं वा न_उत्पादयेत् ॥१६.०८बहु.मुखं वा राज.पण्यं वैदेहकाः कृत.अर्घं विक्रीणीरन् ॥१६.०९छेद.अनुरूपं च वैधरणं दद्युः ॥१६.१०षोडश.भागो मान.व्याजी, विंशति.भागस् तुला.मानम्, गण्य.पण्यानाम् एकादश.भागः ॥१६.११पर.भूमिजं पण्यम् अनुग्रहेण_आवाहयेत् ॥१६.१२न_अविकस.अर्थ.वाहेभ्यश् च परिहारम् आयति.क्षमं दद्यात् ॥१६.१३अनभियोगश् च_अर्थेष्व् आगन्तूनाम्, अन्यत्र सभ्या.उपकारिभ्यः ॥१६.१४पण्य.अधिष्ठातारः पण्य.मूल्यम् एक.मुखं काष्ठ.द्रोण्याम् एकच्.छिद्र.अपिधानायां निदध्युः ॥१६.१५अह्नश् च_अष्टमे भागे पण्य.अध्यक्षस्य_अर्पयेयुः - "इदं विक्रीतम्, इदं शेषम्" इति ॥१६.१६तुला.मान.भाण्डं च_अर्पयेयुः ॥१६.१७इति स्व.विषये व्याख्यातम् ॥१६.१८पर.विषये तु - पण्य.प्रतिपण्ययोर् अर्घं मूल्यं च_आगमय्य शुल्क.वर्तन्या_आतिवाहिक.गुल्मतर.देय.भक्त.भाग.व्यय.शुद्धम् उदयं पश्येत् ॥१६.१९असत्य् उदये भाण्ड.निर्वहणेन पण्य.प्रतिपण्य.आनयनेन वा लाभं पश्येत् ॥१६.२०ततः सार.पादेन स्थल.व्यवहारम् अध्वना क्षेमेण प्रयोजयेत् ॥१६.२१अटव्य्.अन्त.पाल.पुर.राष्ट्र.मुख्यैश् च प्रतिसंसर्गं गच्छेद् अनुग्रह.अर्थम् ॥१६.२२आपदि सारम् आत्मानं वा मोक्षयेत् ॥१६.२३आत्मनो वा भूमिं प्राप्तः सर्व.देय.विशुद्धं व्यवहरेत ॥१६.२४वारि.पथे वा यान.भागक.पथ्य्.अदन.पण्य.प्रतिपण्य.अर्घ.प्रमाण.यात्रा.काल.भय.प्रतीकार.पण्य.पत्तन.चारित्राण्य् उपलभेत ॥१६.२५नदी.पथे च विज्ञाय व्यवहारं चरित्रतः ।१६.२५यतो लाभस् ततो गच्छेद् अलाभं परिवर्जयेत् ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP