संस्कृत सूची|शास्त्रः|अर्थशास्त्रम्|अध्याय २| भाग २६ अध्याय २ भाग १ भाग २ भाग ३ भाग ४ भाग ५ भाग ६ भाग ७ भाग ८ भाग ९ भाग १० भाग ११ भाग १२ भाग १३ भाग १४ भाग १५ भाग १६ भाग १७ भाग १८ भाग १९ भाग २० भाग २१ भाग २२ भाग २३ भाग २३ भाग २४ भाग २५ भाग २६ भाग २७ भाग २८ भाग २९ भाग ३० भाग ३१ भाग ३२ भाग ३३ भाग ३४ भाग ३५ भाग ३६ अर्थशास्त्रम् अध्याय ०२ - भाग २६ अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे. Tags : chanakyaeconomicskautilyaअर्थशास्त्रकौटिल्यचाणक्यसंस्कृत भाग २६ Translation - भाषांतर २६.०१सूना.अध्यक्षः प्रदिष्ट.अभयानाम् अभय.वन.वासिनां च मृग.पशु.पक्षि.मत्स्यानां बन्ध.वध.हिंसायाम् उत्तमं दण्डं कारयेत्, कुटुम्बिनाम् अभय.वन.परिग्रहेषु मध्यमम् ॥२६.०२अप्रवृत्त.वधानां मत्स्य.पक्षिणां बन्ध.वध.हिंसायां पाद.ऊन.सप्त.विंशति.पणम् अत्ययं कुर्यात्, मृग.पशूनां द्वि.गुणम् ॥२६.०३प्रवृत्त.हिंसानाम् अपरिगृहीतानां षड्.भागं गृह्णीयात्, मत्स्य.पक्षिणां दश.भागं वा_अधिकम्, मृग.पशूनां शुल्कं वा_अधिकम् ॥२६.०४पक्षि.मृगाणां जीवत् षड्.भागम् अभय.वनेषु प्रमुञ्चेत् ॥२६.०५सामुद्र.हस्त्य्.अश्व.पुरुष.वृष.गर्दभ.आकृतयो मत्स्याः सारसा न_आदेयास् तटाक.कुल्या.उद्भवा वा क्रौञ्च.उत्क्रोशक.दात्यूह.हंस.चक्रवाक.जीवन्.जीवक.भृङ्ग.राज.चकोर.मत्त.कोकिल.मयूर.शुक.मदन.शारिका विहार.पक्षिणो मङ्गल्याश् च_अन्ये_अपि प्राणिनः पक्षि.मृगा हिंसा.बाधेभ्यो रक्ष्याः ॥२६.०६रक्षा.अतिक्रमे पूर्वः साहस.दण्डः ॥२६.०७मृग.पशूनाम् अनस्थि.मांसं सद्यो.हतं विक्रीणीरन् ॥२६.०८अस्थिमतः प्रतिपातं दद्युः ॥२६.०९तुला.हीने हीन.अष्ट.गुणम् ॥२६.१०वत्सो वृषो धेनुश् च_एषाम् अवध्याः ॥२६.११घ्नतः पञ्चाशत्को दण्डः, क्लिष्ट.घातं घातयतश् च ॥२६.१२परिशूनम् अशिरः.पाद.अस्थि विगन्धं स्वयं.मृतं च न विक्रीणीरन् ॥२६.१३अन्यथा द्वादश.पणो दण्डः ॥२६.१४दुष्टाः पशु.मृग.व्याला मत्स्यश् च_अभय.चारिणः ।२६.१४अन्यत्र गुप्ति.स्थानेभ्यो वध.बन्धम् अवाप्नुयुः ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP