अर्थशास्त्रम् अध्याय ०२ - भाग १५

अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे.

१५.०१
कोष्ठ.अगार.अध्यक्षः सीता.राष्ट्र.क्रयिम.परिवर्तक.प्रामित्यक.आपमित्यक.संहनिक.अन्य.जात.व्यय.प्रत्याय.उपस्थानान्य् उपलभेत् ॥

१५.०२
सीता.अध्यक्ष.उपनीतः सस्य.वर्णकः सीता ॥

१५.०३
पिण्ड.करः षड्.भागः सेना.भक्तं बलिः कर उत्सङ्गः पार्श्वं पारिहीणिकम् औपायनिकं कौष्ठेयकं च राष्ट्रम् ॥

१५.०४
धान्य.मूल्यं कोश.निर्हारः प्रयोग.प्रत्यादानं च क्रयिमम् ॥

१५.०५
सस्य.वर्णानाम् अर्घ.अन्तरेण विनिमयः परिवर्तकः ॥

१५.०६
सस्य.याचनम् अन्यतः प्रामित्यकम् ॥

१५.०७
तद् एव प्रतिदान.अर्थम् आपमित्यकम् ॥

१५.०८
कुट्टक.रोचक.सक्तु.शुक्त.पिष्ट.कर्म तज्.जीवनेषु तैल.पीडन.मौद्र.चाक्रिकेष्व् इक्षूणां च क्षार.कर्म संहनिका ॥

१५.०९
नष्ट.प्रस्मृत.आदिर् अन्य.जातः ॥

१५.१०
विक्षेप.व्याधित.अन्तर.आरम्भ.शेषं च व्यय.प्रत्यायः ॥

१५.११
तुला.मान.अन्तरं हस्त.पूरणम् उत्करो व्याजी पर्युषितं प्रार्जितं च_उपस्थानम् । इति ॥

१५.१२
धान्य.स्नेह.क्षार.लवणानां धान्य.कल्पं सीता.अध्यक्षे वक्ष्यामः ॥

१५.१३
सर्पिस्.तैल.वसा.मज्जानः स्नेहाः ॥

१५.१४
फाणित.गुड.मत्स्यण्डिक.अखण्ड.शर्कराः क्षार.वर्गः ॥

१५.१५
सैन्धव.सामुद्र.बिड.यव.क्षार.सौवर्चल.उद्भेदजा लवण.वर्गः ॥

१५.१६
क्षौद्रं मार्द्वीकं च मधु ॥

१५.१७
इक्षु.रस.गुड.मधु.फाणित.जाम्बव.पनसानाम् अन्यतमो मेष.शृङ्गी.पिप्पली.क्वाथ.अभिषुतो मासिकः षाण्मासिकः सांवत्सरिको वा चिद्भिटोर् वारुक.इक्षु.काण्ड.आम्र.फल.आमलक.अवसुतः शुद्धो वा शुक्त.वर्गः ॥

१५.१८
वृक्ष.आम्ल.कर.मर्द.आम्र.विदल.आमलक.मातुलुङ्ग.कोल.बदर.सौवीरक.परूषक.आदिः फल.आम्ल.वर्गः ॥

१५.१९
दधि.धान्य.आम्ल.आदिर् द्रव.आम्ल.वर्गः ॥

१५.२०
पिप्पली.मरिच.शृङ्गि.बेरा.अजाजी.किरात.तिक्त.गौर.सर्षप.कुस्तुम्बुरु.चोरक.दमनक.मरुवक.शिग्रु.काण्ड.आदिः कटुक.वर्गः ॥

१५.२१
शुष्क.मत्स्य.मांस.कन्द.मूल.फल.शाक.आदि च शाक.वर्गः ॥

१५.२२
ततो_अर्धम् आपद्.अर्थं जानपदानां स्थापयेद्, अर्धम् उपयुञ्जीत ॥

१५.२३
नवेन च_अनवं शोधयेत् ॥

१५.२४
क्षुण्ण.घृष्ट.पिष्ट.भृष्टानाम् आर्द्र.शुष्क.सिद्धानां च धान्यानां वृद्धि.क्षय.प्रमाणानि प्रत्यक्षी.कुर्वीत ॥

१५.२५
कोद्रव.व्रीहीणाम् अर्धं सारः, शालीनाम् अर्ध.भाग.ऊनः, त्रि.भाग.ऊनो वरकाणाम् ॥

१५.२६
प्रियङ्गूणाम् अर्धं सारो नव.भाग.वृद्धिश् च ॥

१५.२७
उदारकस् तुल्यः, यवा गो.धूमाश् च क्षुण्णाः, तिला यवा मुद्ग.माषाश् च घृष्टाः ॥

१५.२८
पञ्च.भाग.वृद्धिर्.गो.धूमः, सक्तवश् च ॥

१५.२९
पाद.ऊना कलाय.चमसी ॥

१५.३०
मुद्ग.माषाणाम् अर्ध.पाद.ऊना ॥

१५.३१
शौम्ब्यानाम् अर्धं सारः, त्रि.भाग.ऊनो मसूराणाम् ॥

१५.३२
पिष्टम् आमं कुल्माषाश् च_अध्यर्ध.गुणाः ॥

१५.३३
द्वि.गुणो यावकः, पुलाकः, पिष्टं च सिद्धम् ॥

१५.३४
कोद्रव.वरक.उदारक.प्रियङ्गूणां त्रि.गुणम् अन्नम्, चतुर्.गुणं व्रीहीणाम्, पञ्च.गुणं शालीनाम् ॥

१५.३५
तिमितम् अपर.अन्नं द्वि.गुणम्, अर्ध.अधिकं विरूढानाम् ॥

१५.३६
पञ्च.भाग.वृद्धिर् भृष्टानाम् ॥

१५.३७
कलायो द्वि.गुणः, लाजा भरुजाश् च ॥

१५.३८/षट्कं तैलम् अतसीनाम् ॥

१५.३९
निम्ब.कुश.आम्रक.पित्थ.आदीनां पञ्च.भागः ॥

१५.४०
चतुर्.भागिकास् तिल.कुसुम्भ.मधूक.इङ्गुदी.स्नेहाः ॥

१५.४१
कार्पास.क्षौमाणां पञ्च.पले पलं सूत्रम् ॥

१५.४२
पञ्च.द्रोणे शालीनां द्वादश.आढकं तण्डुलानां कलभ.भोजनम्, एकादशकं व्यालानाम्, दशकम् औपवाह्यानां नवकं साम्नाह्यानाम्, अष्टकं पत्तीनाम्, सप्तकं मुख्यानाम्, षट्कं देवी.कुमाराणाम्, पञ्चकं राज्ञाम्, अखण्ड.परिशुद्धानां वा तुअण्डुलानां प्रस्थः ॥

१५.४३
तण्डुलानां प्रस्थः चतुर्.भागः सूपः सूप.षोडशो लवणस्य_अंशः चतुर्.भागः सर्पिषस् तैलस्य वा_एकम् आर्य.भक्तं पुंसः ॥

१५.४४/षड्.भागः सूपः अर्ध.स्नेहम् अवराणाम् ॥

१५.४५
पाद.ऊनं स्त्रीणाम् ॥

१५.४६
अर्धं बालानाम् ॥

१५.४७
मांस.पल.विंशत्या स्नेह.अर्ध.कुडुबः पलिको लवणस्य_अंशः क्षार.पल.योगो द्वि.धरणिकः कटुक.योगो दध्नुश् च_अर्ध.प्रस्थः ॥

१५.४८
तेन_उत्तरं व्याख्यातम् ॥

१५.४९
शाकानाम् अध्यर्ध.गुणः, शुष्काणां द्वि.गुणः, स चैव योगः ॥

१५.५०
हस्त्य्.अश्वयोस् तद्.अध्यक्षे विधा.प्रमाणं वक्ष्यामः ॥

१५.५१
बली.वर्दानां माष.द्रोणं यवानां वा पुलाकः, शेषम् अश्व.विधानम् ॥

१५.५२
विशेषो घाण.पिण्याक.तुला, कण.कुण्डकं दश.आढकं वा ॥

१५.५३
द्वि.गुणं महिष.उष्ट्राणाम् ॥

१५.५४
अर्ध.द्रोणं खर.पृषत.रोहितानाम् ॥

१५.५५
आढकम् एण.कुरङ्गाणाम् ॥

१५.५६
अर्ध.आढकम् अज.एडक.वराहाणाम्, द्वि.गुणं वा कण.कुण्डकम् ॥

१५.५७
प्रस्थ.ओदनः शुनाम् ॥

१५.५८
हंस.क्रौञ्च.मयूराणाम् अर्ध.प्रस्थः ॥

१५.५९
शेषाणाम् अतो मृग.पशु.पक्षि.व्यालानाम् एक.भक्ताद् अनुमानं ग्राहयेत् ॥

१५.६०
अङ्गारांस् तुषान् लोह.कर्म.अन्त.भित्ति.लेप्यानां हारयेत् ॥

१५.६१
कणिका दास.कर्म.कर.सूप.काराणाम्, अतो_अन्यद् औदनिक.अपूपिकेभ्यः प्रयच्छेत् ॥

१५.६२
तुला.मान.भाण्डं रोचनी.दृषन्.मुसल.उलूखल.कुट्टक.रोचक.यन्त्र.पत्त्रक.शूर्प.चालनिक.अकण्डोली.पिटक.सम्मार्जन्यश् च_उपकरणानि ॥

१५.६३
मार्जक.रक्षक.धरक.मायक.मापक.दायक.दापक.शलाक.अप्रतिग्राहक.दास.कर्म.कर.वर्गश् च विष्टिः ॥

१५.६४
उच्चैर् धान्यस्य निक्षेपो मूताः क्षारस्य संहताः ।

१५.६४
मृत्.काष्ठ.कोष्ठाः स्नेहस्य पृथिवी लवणस्य च ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP