संस्कृत सूची|शास्त्रः|अर्थशास्त्रम्|अध्याय २| भाग १३ अध्याय २ भाग १ भाग २ भाग ३ भाग ४ भाग ५ भाग ६ भाग ७ भाग ८ भाग ९ भाग १० भाग ११ भाग १२ भाग १३ भाग १४ भाग १५ भाग १६ भाग १७ भाग १८ भाग १९ भाग २० भाग २१ भाग २२ भाग २३ भाग २३ भाग २४ भाग २५ भाग २६ भाग २७ भाग २८ भाग २९ भाग ३० भाग ३१ भाग ३२ भाग ३३ भाग ३४ भाग ३५ भाग ३६ अर्थशास्त्रम् अध्याय ०२ - भाग १३ अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे. Tags : chanakyaeconomicskautilyaअर्थशास्त्रकौटिल्यचाणक्यसंस्कृत भाग १३ Translation - भाषांतर १३.०१सुवर्ण.अध्यक्षः सुवर्ण.रजत.कर्म.अन्तानाम् असम्बन्ध.आवेशन.चतुः.शालाम् एक.द्वाराम् अक्ष.शालां कारयेत् ॥१३.०२विशिखा.मध्ये सौवर्णिकं शिल्पवन्तम् अभिजातं प्रात्ययिकं च स्थापयेत् ॥१३.०३जाम्बूनदं शातकुम्भं हाटकं वैणवं शृङ्ग.शुक्तिजं जात.रूपं रस.विद्धम् आकर.उद्गतं च सुवर्णम् ॥१३.०४किञ्जल्क.वर्णं मृदु स्निग्धम् अनादि भ्राजिष्णु च श्रेष्ठम्, रक्त.पीतकं मध्यमम्, रक्तम् अवरम् ॥१३.०५श्रेष्ठानां पाण्डु श्वेतं च_अप्राप्तकम् ॥१३.०६तद् येन_अप्राप्तकं तच् चतुर्.गुणेन सीसेन शोधयेत् ॥१३.०७सीस.अन्वयेन भिद्यमानं शुष्क.पटलैर् ध्मापयेत् ॥१३.०८रूक्षत्वाद् भिद्यमानं तैल.गोमये निषेचयेत् ॥१३.०९आकर.उद्गतं सीस.अन्वयेन भिद्यमानं पाक.पत्त्राणि कृत्वा गण्डिकासु कुट्टयेत्, कदली.वज्र.कन्द.कल्के वा निषेचयेत् ॥१३.१०तुत्थ.उद्गतं गौडिकं काम्बुकं चाक्रवालिकं च रूप्यम् ॥१३.११श्वेतं स्निग्धं मृदु च श्रेष्ठम् ॥१३.१२विपर्यये स्फोटनं च दुष्टम् ॥१३.१३तत्.सीस.चतुर्.भागेन शोधयेत् ॥१३.१४उद्गत.चूलिकम् अच्छं भ्राजिष्णु दधि.वर्णं च शुद्धम् ॥१३.१५शुद्धस्य_एको हारिद्रस्य सुवर्णो वर्णकः ॥१३.१६ततः शुल्ब.काकण्य्.उत्तर.अपसारिता आ.चतुः.सीम.अन्ताद् इति षोडश वर्णकाः ॥१३.१७सुवर्णं पूर्वं निकष्य पश्चाद् वर्णिकां निकषयेत् ॥१३.१८सम.राग.लेखम् अनिम्न.उन्नते देशे निकषितम्, परिमृदितं परिलीढं नख.अन्तराद् वा गैरिकेण.अवचूर्णितम् उपधिं विद्यात् ॥१३.१९जाति.हिङ्गुलुकेन पुष्पका.सीसेन वा गो.मूत्र.भावितेन दिग्धेन_अग्र.हस्तेन संस्पृष्टं सुवर्णं श्वेती.भवति ॥१३.२०स-केसरः स्निग्धो मृदुर् भाजिष्णुश् च निकष.रागः श्रेष्ठः ॥१३.२१कालिङ्गकस् तापी.पाषाणो वा मुद्ग.वर्णो निकषः श्रेष्ठः ॥१३.२२सम.रागी विक्रय.क्रय.हितः ॥१३.२३हस्तिच्.छविकः सहरितः प्रति.रागी विक्रय.हितः ॥१३.२४स्थिरः परुषो विषम.वर्णश् च_अप्रतिरागी क्रय.हितः ॥१३.२५छेदश् चिक्कणः सम.वर्णः श्लक्ष्णो मृदुर् भाजिष्णुश् च श्रेष्ठः ॥१३.२६तापो बहिर्.अन्तश् च समः किञ्जल्क.वर्णः कुरण्डक.पुष्प.वर्णो वा श्रेष्ठः ॥१३.२७श्यावो नीलश् च_अप्राप्तकः ॥१३.२८तुला.प्रतिमानं पौतव.अध्यक्षे वक्ष्यामः ॥१३.२९तेन_उपदेशेन रूप्य.सुवर्णं दद्याद् आददीत च ॥१३.३०अक्ष.शालाम् अनायुक्तो न_उपगच्छेत् ॥१३.३१अभिगच्छन्न् उच्छेद्यः ॥१३.३२आयुक्तो वा सरूप्य.सुवर्णस् तेन_एव जीयेत ॥१३.३३विचित.वस्त्र.हस्त.गुह्याः काञ्चन.पृषत.त्वष्टृ.तपनीय.कारवो ध्मायक.चरक.पांसु.धावकाः प्रविशेयुर् निष्कसेयुश् च ॥१३.३४सर्वं च_एषाम् उपकरणम् अनिष्ठिताश् च प्रयोगास् तत्र_एव_अवतिष्ठेरन् ॥१३.३५गृहीतं सुवर्णं धृतं च प्रयोगं करण.मध्ये दद्यात् ॥१३.३६सायं प्रातश् च लक्षितं कर्तृ.कारयितृ.मुद्राभ्यां निदध्यात् ॥१३.३७क्षेपणो गुणः क्षुद्रकम् इति कर्माणि ॥१३.३८क्षेपणः काच.अर्पण.आदीनि ॥१३.३९गुणः सूत्र.वान.आदीनि ॥१३.४०घनं सुषिरं पृषत.आदि.युक्तं क्षुद्रकम् इति ॥१३.४१अर्पयेत् काच.कर्मणः पञ्च.भागं काञ्चनं दश.भागं कटु.मानम् ॥१३.४२ताम्र.पाद.युक्तं रूप्यं रूप्य.पाद.युक्तं वा सुवर्णं संस्कृतकम्, तस्माद् रक्षेत् ॥१३.४३पृषत.काच.कर्मणः त्रयो हि भागाः परिभाण्डं द्वौ वास्तुकम्, चत्वारो वा वास्तुकं त्रयः परिभाण्डम् ॥१३.४४त्वष्टृ.कर्मणः शुल्ब.भाण्डं सम.सुवर्णेन सम्यूहयेत् ॥१३.४५रूप्य.भाण्डं घनं सुषिरं वा सुवर्ण.अर्धेन_अवलेपयेत् ॥१३.४६चतुर्.भाग.सुवर्णं वा वालुका.हिङ्गुलुकस्य रसेन चूर्णेन वा वासयेत् ।१३.४७तपनीयं ज्येष्ठं सुवर्णं सुरागं सम.सीस.अतिक्रान्तं पाक.पत्त्र.पक्वं सैन्धविकया_उज्ज्वालितं नील.पीत.श्वेत.हरित.शुक.पत्त्र.वर्णानां प्रकृतिर् भवति ॥१३.४८तीक्ष्णं च_अस्य मयूर.ग्रीव.आभं श्वेत.भङ्गं चिमिचिमायितं पीत.चूर्णितं काकणिकः सुवर्ण.रागः ॥१३.४९तारम् उपशुद्धं वा - अस्थि.तुत्थे चतुः सम.सीसे चतुः शुष्क.तुत्थे चतुः कपाले त्रिर् गोमये द्विर् एवं सप्त.दश.तुत्थ.अतिक्रान्तं सैन्धविकया_उज्ज्वालितम् ॥१३.५०एतस्मात् काकण्य्.उत्तरमाद् विमाषाद् इति सुवर्णे देयम्, पश्चाद् राग.योगः, श्वेत.तारं भवति ।१३.५१त्रयो_अंशास् तपनीयस्य द्वात्रिंशद्.भाग.श्वेत.तारम् ऊर्च्छिताः तत् श्वेत.लोहितकं भवति ॥१३.५२ताम्रं पीतकं करोति ॥१३.५३तपनीयम् उज्ज्वाल्य राग.त्रि.भागं दद्यात्, पीत.रागं भवति ॥१३.५४श्वेत.तार.भागौ द्वाव् एकस् तपनीयस्य मुद्ग.वर्णं करोति ॥१३.५५काल.अयसस्य_अर्ध.भाग.अभ्यक्तं कृष्णं भवति ॥१३.५६प्रतिलेपिना रसेन द्वि.गुण.अभ्यक्तं तपनीयं शुक.पत्त्र.वर्णं भवति ॥१३.५७तस्य.आरम्भे राग.विशेषेषु प्रतिवर्णिकां गृह्णीयात् ॥१३.५८तीक्ष्ण.ताम्र.संस्कारं च बुध्येत ॥१३.५९तस्माद् वज्र.मणि.मुक्ता.प्रवाल.रूपाणाम् अपनेयि.मानं च रूप्य.सुवर्ण.भाण्ड.बन्ध.प्रमाणानि च ॥१३.६०सम.रागं सम.द्वन्द्वम् असक्त.पृषतं स्थिरम् ।१३.६०सुप्रमृष्टम् असम्पीतं विभक्तं धारणे सुखम् ॥१३.६१अभिनीतं प्रभा.युक्तं संस्थानम् अधुरं समम् ।१३.६१मनो.नेत्र.अभिरामं च तपनीय.गुणाः स्मृताः ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP