संस्कृत सूची|शास्त्रः|अर्थशास्त्रम्|अध्याय २| भाग १४ अध्याय २ भाग १ भाग २ भाग ३ भाग ४ भाग ५ भाग ६ भाग ७ भाग ८ भाग ९ भाग १० भाग ११ भाग १२ भाग १३ भाग १४ भाग १५ भाग १६ भाग १७ भाग १८ भाग १९ भाग २० भाग २१ भाग २२ भाग २३ भाग २३ भाग २४ भाग २५ भाग २६ भाग २७ भाग २८ भाग २९ भाग ३० भाग ३१ भाग ३२ भाग ३३ भाग ३४ भाग ३५ भाग ३६ अर्थशास्त्रम् अध्याय ०२ - भाग १४ अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे. Tags : chanakyaeconomicskautilyaअर्थशास्त्रकौटिल्यचाणक्यसंस्कृत भाग १४ Translation - भाषांतर १४.०१सौवर्णिकः पौर.जान.पदानां रूप्य.सुवर्णम् आवेशनिभिः कारयेत् ॥१४.०२निर्दिष्ट.काल.कार्यं च कर्म कुर्युः, अनिर्दिष्ट.कालं कार्य.अपदेशम् ॥१४.०३कार्यस्य.अन्यथा.करणे वेतन.नाशः, तद्.द्वि.गुणश् च दण्डः ॥१४.०४काल.अतिपातने पाद.हीनं वेतनं तद्.द्वि.गुणश् च दण्डः ॥१४.०५यथा.वर्ण.प्रमाणं निक्षेपं गृह्णीयुस् तथा.विधम् एव_अर्पयेयुः ॥१४.०६काल.अन्तराद् अपि च तथा.विधम् एव प्रतिगृह्णीयुः, अन्यत्र क्षीण.परिशीर्णाभ्याम् ॥१४.०७आवेशनिभिः सुवर्ण.पुद्गल.लक्षण.प्रयोगेषु तत्.तज् जानीयात् ॥१४.०८तप्त.कल.धौतकयोः काकणिकः सुवर्णे क्षयो देयः ॥१४.०९तीक्ष्ण.काकणी - रूप्य.द्वि.गुणः - राग.प्रक्षेपः, तस्य षड्.भागः क्षयः ॥१४.१०वर्ण.हीने माष.अवरे पूर्वः साहस.दण्डः, प्रमाण.हीने मध्यमः, तुला.प्रतिमान.उपधाव् उत्तमः, कृत.भाण्ड.उपधौ च ॥१४.११सौवर्णिकेन_अदृष्टम् अन्यत्र वा प्रयोगं कारयतो द्वादश.पणो दण्डः ॥१४.१२कर्तुर् द्वि.गुणः स-अपसारश् चेत् ॥१४.१३अनपसारः कण्टक.शोधनाय नीयेत ॥१४.१४कर्तुश् च द्वि.शतो दण्डः पणच्.छेदनं वा ॥१४.१५तुला.प्रतिमान.भाण्डं पौतव.हस्तात् क्रीणीयुः ॥१४.१६अन्यथा द्वादश.पणो दण्डः ॥१४.१७घनं सुषिरं सम्यूह्यम् अवलेप्यं संघात्यं वासितकं च कारु.कर्म ॥१४.१८तुला.विषमम् अपसारणं विस्रावणं पेटकः पिङ्कश् च_इति हरण.उपायाः ॥१४.१९सम्नामिन्य् उत्कीर्णिका भिन्न.मस्तक.उपकण्ठी कुशिक्या सकटु.कक्ष्या परिवेल्या_अयस्.कान्ता च दुष्ट.तुलाः ॥१४.२०रूप्यस्य द्वौ भागाव् एकः शुल्बस्य त्रिपुटकम् ॥१४.२१तेन_अकरोद् गतम् अपसार्यते तत्.त्रिपुटक.अपसारितम् ॥१४.२२शुल्बेन शुल्ब.अपसारितम्, वेल्लकेन वेल्लक.अपसारितम्, शुल्ब.अर्ध.सारेण हेम्ना हेम.अपसारितम् ॥१४.२३मूक.मूषा पूति.किट्टः करटुक.मुखं नाली संदंशो जोङ्गनी सुवर्चिका.लवणं तद् एव सुवर्णम् इत्य् अपसारण.मार्गाः ॥१४.२४पूर्व.प्रणिहिता वा पिण्ड.वालुका मूषा.भेदाद् अग्निष्ठाद् उद्ध्रियन्ते ॥१४.२५पश्चाद् बन्धने आचितक.पत्त्र.परीक्षायां वा रूप्य.रूपेण परिवर्तनं विस्रावणम्, पिण्ड.वालुकानां लोह.पिण्ड.वालुकाभिर् वा ॥१४.२६गाढश् च_अभ्युद्धार्यश् च पेटकः सम्यूह्य_अवलेप्य.संघात्येषु क्रियते ॥१४.२७सीस.रूपं सुवर्ण.पत्त्रेण_अवलिप्तम् अभ्यन्तरम् अष्टकेन बद्धं गाढ.पेटकः ॥१४.२८स एव पटल.सम्पुटेष्व् अभ्युद्धार्यः ॥१४.२९पत्त्रम् आश्लिष्टं यमकपत्त्रं वा_अवलेप्येषु क्रियते ॥१४.३०शुल्बं तारं वा गर्भः पत्त्राणां संघात्येषु क्रियते ॥१४.३१शुल्ब.रूपं सुवर्ण.पत्त्र.संहतं प्रमृष्टं सुपार्श्वम्, तद् एव यमक.पत्त्र.संहतं प्रमृष्टं ताम्र.तार.रुपं च_उत्तर.वर्णकः ॥१४.३२तद् उभयं तापनि.कषाभ्यां निह्शब्द.उल्लेखनाभ्यां वा विद्यात् ॥१४.३३अभ्युद्धार्यं बदर.आम्ले लवण.उदके वा सादयन्ति ॥ इति पेटकः ॥१४.३४घने सुषिरे वा रूपे सुवर्ण.मृन्.मालुका.हिङ्गुलुक.कल्पो वा तप्तो_अवतिष्ठते ॥१४.३५दृढ.वास्तुके वा रूपे वालुका.मिश्रं जतु गान्धार.पङ्को वा तप्तो_अवतिष्ठते ॥१४.३६तयोस् तापनम् अवध्वंसनं वा शुद्धिः ॥१४.३७स-परिभाण्डे वा रूपे लवणम् उल्कया कटु.शर्करया तप्तम् अवतिष्ठते ॥१४.३८तस्य क्वाथनं शुद्धिः ॥१४.३९अभ्र.पटलम् अष्टकेन द्वि.गुण.वास्तुके वा रूपे बध्यते ॥१४.४०तस्य_अपिहित.काचकस्य_उदके निमज्जत एक.देशः सीदति, पटल.अन्तरेषु वा सूच्या भिद्यते ॥१४.४१मणयो रूप्यं सुवर्णं वा घन.सुषिराणां पिङ्कः ॥१४.४२तस्य तापनम् अवध्वंसनं वा शुद्धिः । इति पिङ्कः ॥१४.४३तस्माद् वज्र.मणि.मुक्ता.प्रवाल.रूपाणां जाति.रूप.वर्ण.प्रमाण.पुद्गल.लक्षणान्य् उपलभेत ॥१४.४४कृत.भाण्ड.परीक्षायां पुराण.भाण्ड.प्रतिसंस्कारे वा चत्वारो हरण.उपायाः - परिकुट्टनम् अवच्छेदनम् उल्लेखनं परिमर्दनं वा ॥१४.४५पेटक.अपदेशेन पृषतं गुणं पिटकां वा यत् परिशातयन्ति तत्.परिकुट्टनम् ॥१४.४६यद्.द्वि.गुण.वास्तुकानां वा रूपे सीस.रूपं प्रक्षिप्य_आभ्यन्तरम् अवच्छिन्दन्ति तद् अवच्छेदनम् ॥१४.४७यद् घनानां तीक्ष्णेन_उल्लिखन्ति तद् उल्लेखनम् ॥१४.४८हरि.ताल.मनः.शिला.हिङ्गुलुक.चूर्णानाम् अन्यतमेन कुरु.विन्द.चूर्णेन वा वस्त्रं सम्यूह्य यत् परिमृद्नन्ति तत् परिमर्दनम् ॥१४.४९तेन सौवर्ण.राजतानि भाण्डानि क्षीयन्ते, न च_एषां किंचिद् अवरुग्णं भवति ॥१४.५०भग्न.खण्ड.घृष्टानां सम्यूह्यानां सदृशेन_अनुमानं कुर्यात् ॥०२.१४.५१अवलेप्यानां यावद् उत्पाटितं तावद् उत्पाट्य_अनुमानं कुर्यात् ॥१४.५२विरूपाणां वा तापनम् उदक.पेषणं च बहुशः कुर्यात् ॥१४.५३अवक्षेपः प्रतिमानम् अग्निर् गण्डिका भण्डिक.अधिकरणी पिञ्छः सूत्रं चेल्लं बोल्लनं शिर उत्सङ्गो मक्षिका स्व.काय.ईक्षा दृतिर् उदक.शरावम् अग्निष्ठम् इति काचं विद्यात् ॥१४.५४राजतानां विस्रं मल.ग्राहि परुषं प्रस्तीनं विवर्णं वा दुष्टम् इति विद्यात् ॥१४.५५एवं नवं च जीर्णं च विरूपं च_अपि भाण्डकम् ।१४.५५परीक्षेत_अत्ययं च_एषां यथा.उद्दिष्टं प्रकल्पयेत् ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP