संस्कृत सूची|शास्त्रः|अर्थशास्त्रम्|अध्याय २| भाग ११ अध्याय २ भाग १ भाग २ भाग ३ भाग ४ भाग ५ भाग ६ भाग ७ भाग ८ भाग ९ भाग १० भाग ११ भाग १२ भाग १३ भाग १४ भाग १५ भाग १६ भाग १७ भाग १८ भाग १९ भाग २० भाग २१ भाग २२ भाग २३ भाग २३ भाग २४ भाग २५ भाग २६ भाग २७ भाग २८ भाग २९ भाग ३० भाग ३१ भाग ३२ भाग ३३ भाग ३४ भाग ३५ भाग ३६ अर्थशास्त्रम् अध्याय ०२ - भाग ११ अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे. Tags : chanakyaeconomicskautilyaअर्थशास्त्रकौटिल्यचाणक्यसंस्कृत भाग ११ Translation - भाषांतर ११.०१कोश.अध्यक्षः कोश.प्रवेश्यं रत्नं सारं फल्गुं कुप्यं वा तज्.जात.करण.अधिष्ठितः प्रतिगृह्णीयात् ॥११.०२ताम्र.पर्णिकं पाण्ड्यक.वाटकं पाशिक्यं कौलेयं चौर्णेयं माहेन्द्रं कार्दमिकं स्रौतसीयं ह्रादीयं हैमवतं च मौक्तिकम् ॥११.०३शुक्तिः शङ्खः प्रकीर्णकं च योनयः ॥११.०४मसूरकं त्रि.पुटकं कूर्मकम् अर्ध.चन्द्रकं कञ्चुकितं यमकं कर्तकं खरकं सिक्तकं कामण्डलुकं श्यावं नीलं दुर्विद्धं च_अप्रशस्तम् ॥११.०५स्थूलं वृत्तं निस्तलं भ्राजिष्णु श्वेतं गुरु स्निग्धं देश.विद्धं च प्रशस्तम् ॥११.०६शीर्षकम् उपशीर्षकं प्रकाण्डकम् अवघाटकं तरल.प्रतिबद्धं च_इति यष्टि.प्रभेदाः ॥११.०७यष्टीनाम् अष्ट.सहस्रम् इन्द्रच्.छन्दः ॥११.०८ततो_अर्धं विजयच्.छन्दः ॥११.०९चतुष्षष्टिर् अर्ध.हारः ॥११.१०चतुष्.पञ्चाशद् रश्मि.कलापः ॥११.११द्वात्रिंशद् गुच्छः ॥११.१२सप्त.विंशतिर् नक्षत्र.माला ॥११.१३चतुर्विंशतिर् अर्ध.गुच्छः ॥११.१४विंशतिर् माणवकः ॥११.१५ततो_अर्धम् अर्ध.माणवकः ॥११.१६एत एव मणि.मध्यास् तन्.माणवका भवन्ति ॥११.१७एक.शीर्षकः शुद्धो हारः ॥११.१८तद्वत्.शेषाः ॥११.१९मणि.मध्यो_अर्ध.माणवकः ॥११.२०त्रि.फलकः फलक.हारः, पञ्च.फलको वा ॥११.२१सूत्रम् एकावली शुद्धा ॥११.२२सा_एव मणि.मध्या यष्टिः ॥११.२३हेम.मणि.चित्रा रत्नावली ॥११.२४हेम.मणि.मुक्ता.अन्तरो_अपवर्तकः ॥११.२५सुवर्ण.सूत्र.अन्तरं सोपानकम् ॥११.२६मणि.मध्यं वा मणि.सोपानकम् ॥११.२७तेन शिरो.हस्त.पाद.कटी.कलाप.जालक.विकल्पा व्याख्याताः ॥११.२८मणिः कौटो.मालेयकः पार.समुद्रकश् च ॥११.२९सौगन्धिकः पद्म.रागो_अनवद्य.रागः पारिजात.पुष्पको बाल.सूर्यकः ॥११.३०वैडूर्यम् उत्पल.वर्णः शिरीष.पुष्पक उदक.वर्णो वंश.रागः शुक.पत्त्र.वर्णः पुष्य.रागो गो.मूत्रको गो.मेदकः ॥११.३१इन्द्र.नीलो नील.अवलीयः कलाय.पुष्पको महा.नीलो जम्ब्व्.आभो जीमूत.प्रभो नन्दकः स्रवन्.मध्यः ॥११.३२शुद्ध.स्फटिको मूलाट.वर्णः शीत.वृष्टिः सूर्य.कान्तश् च । इति मणयः ॥११.३३षड्.अश्रश् चतुर्.अश्रो वृत्तो वा तीव्र.रागः संस्थानवान् अछः स्निग्धो गुरुर् अर्चिष्मान् अन्तर्.गत.प्रभः प्रभा.अनुलेपी च_इति मणि.गुणाः ॥११.३४मन्द.राग.प्रभः स-शर्करः पुष्पच्.छिद्रः खण्डो दुर्विद्धो लेख.आकीर्ण इति दोषाः ॥११.३५विमलकः सस्यको_अञ्जन.मूलकः पित्तकः सुलभको लोहित.अक्षो मृग.अश्मको ज्योती.रसको मालेयको_अहिच्.छत्रकः कूर्पः प्रतिकूर्पः सुगन्धि.कूर्पः क्षीरवकः श्शुक्ति.चूर्णकः शिला.प्रवालकः पुलकः शुक्ल.पुलक इत्य् अन्तर.जातयः ॥११.३६शेषाः काच.मणयः ॥११.३७सभा.राष्ट्रकं तज्जमा.राष्ट्रकं कास्तीर.राष्ट्रकं श्री.कटनकं मणिमन्तकम् इन्द्र.वानकं च वज्रम् ॥११.३८खनिः स्रोतः प्रकीर्णकं च योनयः ॥११.३९मार्जार.अक्षकं शिरीष.पुष्पकं गो.मूत्रकं गो.मेदकं शुद्ध.स्फटिकं मूलाटी.वर्णं मणि.वर्णानाम् अन्यतम.वर्णम् इति वज्र.वर्णाः ॥११.४०स्थूलं गुरु प्रहार.सहं समकोटिकं भाजन.लेखि तर्कु.भ्रामि भ्राजिष्णु च प्रशस्तम् ॥११.४१नष्ट.कोणं निराश्रि पार्श्व.अपवृत्तं च_अप्रशस्तम् ॥११.४२प्रवालकम् आल.कन्दकं वैवर्णिकं च, रक्तं पद्म.रागं च करट.गर्भिणिका.वर्जम् इति ॥११.४३चन्दनं सातनं रक्तं भूमि.गन्धि ॥११.४४गो.शीर्षकं काल.ताम्रं मत्स्य.गन्धि ॥११.४५हरि.चन्दनं शुक.पत्त्र.वर्णम् आम्र.गन्धि, तार्णसं च ॥११.४६ग्रामेरुकं रक्तं रक्त.कालं वा बस्त.मूत्र.गन्धि ॥११.४७दैवसभेयं रक्तं पद्म.गन्धि, जापकं च ॥११.४८जोङ्गकं रक्तं रक्त.कालं वा स्निग्धम्, तौरूपं च ॥११.४९मालेयकं पाण्डु.रक्तम् ॥११.५०कुचन्दनं रूक्षम् अगुरु.कालं रक्तं रक्त.कालं वा ॥११.५१काल.पर्वतकं रक्त.कालम् अनवद्य.वर्णं वा ॥११.५२कोश.अगार.पर्वतकं कालं काल.चित्रं वा ॥११.५३शीत.उदकीयं पद्म.आभं काल.स्निग्धं वा ॥११.५४नाग.पर्वतकं रूक्षं शैवल.वर्णं वा ॥११.५५शाकलं कपिलम् । इति ॥११.५६लघु स्निग्धम् अश्यानं सर्पिः.स्नेह.लेपि गन्ध.सुखं त्वग्.अनुसार्य् अनुल्बणम् अविराग्य् उष्ण.सहं दाह.ग्राहि सुख.स्पर्शनम् इति चन्दन.गुणाः ॥११.५७अगुरु जोङ्गकं कालं काल.चित्रं मण्डल.चित्रं वा ॥११.५८श्यामं दोङ्गकम् ॥११.५९पार.समुद्रकं चित्र.रूपम् उशीर.गन्धि नव.मालिका.गन्धि वा । इति ॥११.६०गुरु स्निग्धं पेशल.गन्धि निर्हार्य् अग्नि.सहम् असम्प्लुत.धूमं विमर्द.सहम् इत्य् अगुरु.गुणाः ॥११.६१तैल.पर्णिकम् अशोक.ग्रामिकं मांस.वर्णं पद्म.गन्धि ॥११.६२जोङ्गकं रक्त.पीतकम् उत्पल.गन्धि गो.मूत्र.गन्धि वा ॥११.६३ग्रामेरुकं स्निग्धं गो.मूत्र.गन्धि ॥११.६४सौवर्ण.कुड्यकं रक्त.पीतं मातुलुङ्ग.गन्धि ॥११.६५पूर्णक.द्वीपकं पद्म.गन्धि नव.नीत.गन्धि वा ॥११.६६भद्र.श्रियं पारलौहित्यकं जाती.वर्णम् ॥११.६७आन्तरवत्यम् उशीर.वर्णम् ॥११.६८उभयं कुष्ठ.गन्धि च । इति ॥११.६९कालेयकः स्वर्ण.भूमिजः स्निग्ध.पीतकः ॥११.७०औत्तर.पर्वतको रक्त.पीतकः ॥ इति साराः ।११.७१पिण्ड.क्वाथ.धूम.सहम् अविरागि योग.अनुविधायि च ॥११.७२चन्दन.अगुरुवच् च तेषां गुणाः ॥११.७३कान्तनावकं प्रैयकं च_उत्तर.पर्वतकं चर्म ॥११.७४कान्तनावकं मयूर.ग्रीव.आभम् ॥११.७५प्रैयकं नील.पीत.श्वेत.लेखा.बिन्दु.चित्रम् ॥११.७६तद्.उभयम् अष्ट.अङ्गुल.आयामम् ॥११.७७बिसी महा.बिसी च द्वादश.ग्रामीये ॥११.७८अव्यक्त.रूपा दुहिलितिका चित्रा वा बिसी ॥११.७९परुषा श्वेत.प्राया महाबिसी ॥११.८०द्वादश.अङ्गुल.आयामम् उभयम् ॥११.८१श्यामिका कालिका कदली चन्द्र.उत्तरा शाकुला च_आरोहजाः ॥११.८२कपिला बिन्दु.चित्रा वा श्यामिका ॥११.८३कालिका कपिला कपोत.वर्णा वा ॥११.८४तद् उभयम् अष्ट.अङ्गुल.आयामम् ॥११.८५परुषा कदली हस्त.आयता ॥११.८६सा_एव चन्द्र.चित्रा चन्द्र.उत्तरा ॥११.८७कदली.त्रि.भागा शाकुला कोठ.मण्डल.चित्रा कृत.कर्णिका_अजिन.चित्रा वा । इति ॥११.८८सामूरं चीनसी सामूली च बाह्लवेयाः ॥११.८९षट्.त्रिंशद्.अङ्गुलम् अञ्जन.वर्णं सामूरम् ॥११.९०चीनसी रक्त.काली पाण्डु.काली वा ॥११.९१सामूली गो.धूम.वर्णा । इति ॥११.९२सांतिना नल.तूला वृत्त.पृच्छा चौद्राः ॥११.९३सातिना कृष्णा ॥११.९४नल.तूला नल.तूल.वर्णा ॥११.९५कपिला वृत्त.पुच्छा च ॥ इति चर्म.जातयः ।११.९६चर्मणां मृदु स्निग्धं बहुल.रोम च श्रेष्ठम् ॥११.९७शुद्धं शुद्ध.रक्तं पक्ष.रक्तं च_आविकम्, खचितं वान.चित्रं खण्ड.संघात्यं तन्तु.विच्छिन्नं च ॥११.९८कम्बलः कौचपकः कुलमितिका सौमितिका तुरग.आस्तरणं वर्णकं तलिच्छकं वार.वाणः परिस्तोमः समन्त.भद्रकं च_आविकम् ॥११.९९पिच्छिलम् आर्द्रम् इव च सूक्ष्मं मृदु च श्रेष्ठम् ॥११.१००अष्ट.प्रोति.संघात्या कृष्णा भिङ्गिसी वर्ष.वारणम् अपसारक इति नैपालकम् ॥११.१०१सम्पुटिका चतुर्.अश्रिका लम्बरा कटवानकं प्रावरकः सत्तलिका_इति मृग.रोम ॥११.१०२वाङ्गकं श्वेतं स्निग्धं दुकूलम् ॥११.१०३पौण्ड्रकं श्यामं मणि.स्निग्धम् ॥११.१०४सौवर्ण.कुड्यकं सूर्य.वर्णं मणि.स्निग्ध.उदक.वानं चतुर्.अश्र.वानं व्यामिश्र.वानं च ॥११.१०५एतेषाम् एक.अंशुकम् अध्यर्ध.द्वि.त्रि.चतुर्.अंशुकम् इति ॥११.१०६तेन काशिकं पौण्ड्रकं च क्षौमं व्याख्यातम् ॥११.१०७मागधिका पौण्ड्रिका सौवर्ण.कुड्यका च पत्त्र.ऊर्णा ॥११.१०८नाग.वृक्षो लिकुचो बकुलो वटश् च योनयः ॥११.१०९पीतिका नाग.वृक्षिका ॥११.११०गो.धूम.वर्णा लैकुची ॥११.१११श्वेता बाकुली ॥११.११२शेषा नव.नीत.वर्णा ॥११.११३तासां सौवर्ण.कुड्यका श्रेष्ठा ॥११.११४तया कौशेयं चीन.पट्टाश् च चीन.भूमिजा व्याख्याताः ॥११.११५माधुरम् आपरान्तकं कालिङ्गं काशिकं वाङ्गकं वात्सकं माहिषकं च कार्पासिकं श्रेष्ठम् । इति ॥११.११६अतः परेषां रत्नानां प्रमाणं मूल्य.लक्षणम् ।११.११७जातिं रूपं च जानीयान् निधानं नव.कर्म च ॥११.११८पुराण.प्रतिसंस्कारं कर्म गुह्यम् उपस्करान् ।११.११९देश.काल.परीभोगं हिंस्राणां च प्रतिक्रियाम् ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP