अर्थशास्त्रम् अध्याय ०२ - भाग १७

अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे.

१७.०१
कुप्य.अध्यक्षो द्रव्य.वन.पालैः कुप्यम् आनाययेत् ॥

१७.०२
द्रव्य.वन.कर्म.अन्तांश् च प्रयोजयेत् ॥

१७.०३
द्रव्य.वनच्.छिद्रां च देयम् अत्ययं च स्थापयेद् अन्यत्र_आपद्भ्यः ॥

१७.०४
कुप्य.वर्गः - शाक.तिनिश.धन्वन.अर्जुन.मधूक.तिलक.साल.शिंशपा.अरिमेद.राज.अदन.शिरीष.खदिर.सरल.ताल.सर्ज.अश्व.कर्ण.सोम.वल्क.कुश.आम्र.प्रियक.धव.आदिः सार.दारु.वर्गः ॥

१७.०५
उटज.चिमिय.चाप.वेणु.वंश.सातिन.कण्टक.भाल्लूक.आदिर् वेणु.वर्गः ॥

१७.०६
वेत्र.शीक.वल्ली.वाशी.श्याम.लता.नाग.लता.आदिर् वल्ली.वर्गः ॥

१७.०७
मालती.मूर्वा.अर्क.शण.गवेधुका.अतस्य्.आदिर् वल्क.वर्गः ॥

१७.०८
मुञ्ज.बल्बज.आदि रज्जु.भाण्डम् ॥

१७.०९
ताली.ताल.भूर्जानां पत्त्रम् ॥

१७.१०
किंशुक.कुसुम्भ.कुङ्कुमानां पुष्पम् ॥

१७.११
कन्द.मूल.फल.आदिर् औषध.वर्गः ॥

१७.१२
काल.कूट.वत्स.नाभ.हालाहल.मेष.शृङ्ग.मुस्ता.कुष्ठ.महा.विष.वेल्लितक.गौर.अर्द्र.बालक.मार्कट.हैमवत.कालिङ्गक.दारदक.अङ्कोल.सारक.उष्ट्रक.आदीनि विषाणि, सर्पाः कीटाश् च त एव कुम्भ.गताः विष.वर्गः ॥

१७.१३
गोधा.सेरक.द्वीप्य्.ऋक्ष.शिंशुमार.सिंह.व्याघ्र.हस्ति.महिष.चमर.सृमर.खड्ग.गो.मृग.गवयानां चर्म.अस्थि.पित्त.स्नाय्व्.अक्षि.दन्त.शृङ्ग.खुर.पुच्छानि, अन्येषां वा_अपि मृग.पशु.पक्षि.व्यालानाम् ॥

१७.१४
काल.अयस.ताम्र.वृत्त.कंस.सीस.त्रपु.वैकृन्तक.आर.कूटानि लोहानि ॥

१७.१५
विदल.मृत्तिकामयं भाण्डम् ॥

१७.१६
अङ्गार.तुष.भस्मानि, मृग.पशु.पक्षि.व्याल.वाटाः काष्ठ.तृण.वाटाश् च । इति ॥

१७.१७
बहिर् अन्तश् च कर्म.अन्ता विभक्ताः सार्वभाण्डिकाः ।

१७.१७
आजीव.पुर.रक्षा.अर्थाः कार्याः कुप्य.उपजीविना ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP