संस्कृत सूची|शास्त्रः|अर्थशास्त्रम्|अध्याय २| भाग ९ अध्याय २ भाग १ भाग २ भाग ३ भाग ४ भाग ५ भाग ६ भाग ७ भाग ८ भाग ९ भाग १० भाग ११ भाग १२ भाग १३ भाग १४ भाग १५ भाग १६ भाग १७ भाग १८ भाग १९ भाग २० भाग २१ भाग २२ भाग २३ भाग २३ भाग २४ भाग २५ भाग २६ भाग २७ भाग २८ भाग २९ भाग ३० भाग ३१ भाग ३२ भाग ३३ भाग ३४ भाग ३५ भाग ३६ अर्थशास्त्रम् अध्याय ०२ - भाग ९ अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे. Tags : chanakyaeconomicskautilyaअर्थशास्त्रकौटिल्यचाणक्यसंस्कृत भाग ९ Translation - भाषांतर ९.०१अमात्य.सम्पदा_उपेताः सर्व.अध्यक्षाः शक्तितः कर्मसु नियोज्याः ॥९.०२कर्मसु च_एषां नित्यं परीक्षां कारयेत्, चित्त.अनित्यत्वात्_ मनुष्यानाम् ॥९.०३अश्व.सधर्माणो हि मनुष्या नियुक्ताः कर्मसु विकुर्वते ॥९.०४तस्मात् कर्तारं करणं देशं कालं कार्यं प्रक्षेपम् उदयं च_एषु विद्यात् ॥९.०५ते यथा.संदेशम् असंहता अविगृहीताः कर्माणि कुर्युः ॥९.०६संहता भक्षयेयुः, विगृहीता विनाशयेयुः ॥९.०७न च_अनिवेद्य भर्तुः कंचिद् आरम्भं कुर्युः, अन्यत्र_आपत्.प्रतीकारेभ्यः ॥९.०८प्रमाद.स्थानेषु च_एषाम् अत्ययं स्थापयेद् दिवस.वेतन.व्यय.द्वि.गुणम् ॥९.०९यश् च_एषां यथा.आदिष्टम् अर्थं सविशेषं वा करोति स स्थान.मानौ लभेत ॥९.१०"अल्प.आयतिश् चेत्_ महा.व्ययो भक्षयति ॥९.११विपर्यये यथा.आयति.व्ययश् च न भक्षयति" इत्य् आचार्याः ॥९.१२अपसर्पेण_एव_उपलभ्येत_इति कौटिल्यः ॥९.१३यः समुदयं परिहापयति स राज.अर्थं भक्षयति ॥९.१४स चेद् अज्ञान.आदिभिः परिहापयति तद् एनं यथा.गुणं दापयेत् ॥९.१५यः समुदयं द्वि.गुणम् उद्भावयति स जन.पदं भक्षयति ॥९.१६स चेद् राज.अर्थम् उपनयत्य् अल्प.अपराधे वारयितव्यः, महति यथा.अपराधं दण्डयितव्यः ॥९.१७यः समुदयं व्ययम् उपनयति स पुरुष.कर्माणि भक्षयति ॥९.१८स कर्म.दिवस.द्रव्य.मूल्य.पुरुष.वेतन.अपहारेषु यथा.अपराधं दण्डयितव्यः ॥९.१९तस्माद् अस्य यो यस्मिन्न् अधिकरणे शासनस्थः स तस्य कर्मणो याथातथ्यम् आय.व्ययौ च व्यास.समासाभ्याम् आचक्षीत ॥९.२०मूल.हर.तादात्विक.कदर्यांश् च प्रतिषेधयेत् ॥९.२१यः पितृ.पैतामहम् अर्थम् अन्यायेन भक्षयति स मूल.हरः ॥९.२२यो यद् यद् उत्पद्यते तत् तद् भक्षयति स तादात्विकः ॥९.२३यो भृत्य.आत्म.पीडाभ्याम् उपचिनोत्य् अर्थं स कदर्यः ॥९.२४स पक्षवांश् चेद् अनादेयः, विपर्यये पर्यादातव्यः ॥९.२५यो महत्य् अर्थ.समुदये स्थितः कदर्यः सम्निधत्ते_अवनिधत्ते_अवस्रावयति वा - सम्निधत्ते स्व.वेश्मनि, अवनिधत्ते पौर.जानपदेषु, अवस्रावयति पर.विषये - तस्य सत्त्री मन्त्रि.मित्र.भृत्य.बन्धु.पक्षम् आगतिं गतिं च द्रव्याणाम् उपलभेत ॥९.२६यश् च_अस्य पर.विषये संचारं कुर्यात् तम् अनुप्रविश्य मन्त्रं विद्यात् ॥९.२७सुविदिते शत्रु.शासन.अपदेशेन_एनं घातयेत् ॥९.२८तस्माद् अस्य_अध्यक्षाः संख्यायक.लेखक.रूप.दर्शक.नीवी.ग्राहक.उत्तर.अध्यक्ष.सखाः कर्मणि कुर्युः ॥९.२९उत्तर.अध्यक्षा हस्ति.अश्व.रथ.आरोहाः ॥९.३०तेषाम् अन्तेवासिनः शिल्प.शौच.युक्ताः संख्यायक.आदीनाम् अपसर्पाः ॥९.३१बहु.मुख्यम् अनित्यं च_अधिकरणं स्थापयेत् ॥९.३२यथा ह्य् अनास्वादयितुं न शक्यं जिह्वा.तलस्थं मधु७ वा विषं वा । ९.३२अर्थस् तथा ह्य् अर्थ.चरेण राज्ञः स्वल्पो_अप्य् अनास्वादयितुं न शक्यः ॥९.३३मत्स्या यथा_अन्तः सलिले चरन्तो ज्ञातुं न शक्याः सलिलं पिबन्तः ।९.३३युक्तास् तथा कार्य.विधौ नियुक्ता ज्ञातुं न शक्या धनम् आददानाः ॥९.३४अपि शक्या गतिर् ज्ञातुं पततां खे पतत्रिणाम् ।९.३४न तु प्रच्छन्न.भावानां युक्तानां चरतां गतिः ॥९.३५आस्रावयेच् च_उपचितान् विपर्यस्येच् च कर्मसु ।९.३५यथा न भक्षयन्त्य् अर्थं भक्षितं निर्वमन्ति वा ॥९.३६न भक्षयन्ति ये त्व् अर्थान् न्यायतो वर्धयन्ति च ।९.३६नित्य.अधिकाराः कार्यास् ते राज्ञः प्रिय.हिते रताः ॥ E N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP