अर्थशास्त्रम् अध्याय ०२ - भाग ३

अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे.

३.०१
चतुर्दिशं जन.पद.अन्ते साम्परायिकं दैव.कृतं दुर्गं कारयेत्, अन्तर्.द्वीपं स्थलं वा निम्न.अवरुद्धम् औदकम्, प्रास्तरं गुहां वा पार्वतम्, निरुदक.स्तम्बम् इरिणं वा धान्वनम्, खञ्जन.उदकं स्तम्ब.गहनं वा वन.दुर्गम् ॥

३.०२
तेषां नदी.पर्वत.दुर्गं जन.पद.आरक्ष.स्थानम्, धान्वन.वन.दुर्गम् अटवी.स्थानम् आपद्य् अपसारो वा ॥

३.०३
जन.पद.मध्ये समुदय.स्थानं स्थानीयं निवेशयेत्, वास्तुक.प्रशस्ते देशे नदी.सङ्गमे ह्रदस्य_अविशोषस्य_अङ्के सरसस् तटाकस्य वा, वृत्तं दीर्घं चतुर्.अश्रं वा वास्तु.वशेन वा प्रदक्षिण.उदकं पण्य.पुट.भेदनम् अंसपथ.वारि.पथाभ्याम् उपेतम् ॥

३.०४
तस्य परिखास् तिस्रो दण्ड.अन्तराः कारयेत् चतुर्दश द्वादश दश_इति दण्डान् विस्तीर्णाः, विस्ताराद् अवगाढाः पाद.ऊनम् अर्धं वा, त्रिभाग.मूलाः, मूल.चतुर्.अश्रा वा, पाषाण.उपहिताः पाषाण.इष्टका.बद्ध.पार्श्वा वा, तोय.अन्तिकीर् आगन्तु.तोय.पूर्णा वा सपरिवाहाः पद्म.ग्राहवतीश् च ॥

३.०५
चतुर्दण्ड.अपकृष्टं परिखायाः षड्दण्ड.उच्छ्रितम् अवरुद्धं तद्.द्विगुण.विष्कम्भं खाताद् वप्रं कारयेद् ऊर्ध्व.चयं मञ्च.पृष्ठं कुम्भ.कुक्षिकं वा हस्तिभिर् गोभिश् च क्षुण्णं कण्टकि.गुल्म.विष.वल्ली.प्रतानवन्तम् ॥

३.०६
पांसु.शेषेण वास्तुच्.छिद्रं राज.भवनं वा पूरयेत् ॥

३.०७
वप्रस्य_उपरि प्राकारं विष्कम्भ.द्विगुण.उत्सेधम् ऐष्टकं द्वादश.हस्ताद् ऊर्ध्वम् ओजं युग्मं वा आ चतुर्विंशति.हस्ताद् इति कारयेत् -

३.०७
रथ.चर्या.संचारं ताल.मूलं मुरजकैः कपि.शीर्षकैश् च_आचित.अग्रम् ॥

३.०८
पृथु.शिला.संहतं वा शैलं कारयेत्, न त्व् एव काष्टमयम् ॥

३.०९
अग्निर् अवहितो हि तस्मिन् वसति ॥

३.१०
विष्कम्भ.चतुर्.अश्रम् अट्टालकम् उत्सेध.सम.अवक्षेप.सोपानं कारयेत् त्रिंशद्.दण्ड.अन्तरं च ॥

३.११
द्वयोर् अट्टालकयोर् मध्ये सहर्म्य.द्वि.तलाम् अध्यर्धाय.आयामां प्रतोलीं कारयेत् ॥

३.१२
अट्टालक.प्रतोली.मध्ये त्रि.धानुष्क.अधिष्ठानं स-अपिधानच्.छिद्र.फलक.संहतम् इन्द्र.कोशं कारयेत् ॥

३.१३
अन्तरेषु द्विहस्त.विष्कम्भं पार्श्वे चतुर्.गुण.आयामं देव.पथं कारयेत् ॥

३.१४
दण्ड.अन्तरा द्वि.दण्ड.अन्तरा वा चर्याः कारयेत्, अग्राह्ये देशे प्रधावनिकां निष्किर.द्वारं च ॥

३.१५
बहिर्.जानु.भञ्जनी.शूल.प्रकर.कूप.कूट.अवपात.कण्टक.प्रतिसर.अहि.पृष्ठ.ताल.पत्त्र.शृङ्ग.अटक.श्व.दंष्ट्र.अर्गल.उपस्कन्दन.पादुक.अम्बरीष.उद.पानकैः प्रतिच्छन्नं छन्न.पथं कारयेत् ॥

३.१६
प्राकारम् उभयतो मेण्ढकम् अध्यर्ध.दण्डं कृत्वा प्रतोली.षट्.तुला.अन्तरं द्वारं निवेशयेत् पञ्च.दण्डाद् एक.उत्तरम् आ.अष्ट.दण्डाद् इति चतुर्.अश्रं षड्.भागम् आयामाद्.अधिकम् अष्ट.भागं वा ॥

३.१७
पञ्च.दश.हस्ताद् एक.उत्तरम् आ.अष्टादश.हस्ताद् इति तल.उत्सेधः ॥

३.१८
स्तम्भस्य परिक्षेपः षड्.आयामो, द्विगुणो निखातः, चूलिकायाश् चतुर्.भागः ॥

३.१९
आदि.तलस्य पञ्च.भागाः शाला वापी सीमा.गृहं च ॥

३.२०
दश.भागिकौ द्वौ प्रतिमञ्चौ, अन्तरम् आणी.हर्म्यं च ॥

३.२१
समुच्छ्रयाद् अर्ध.तले स्थूणा.बन्धश् च ॥

३.२२
अर्ध.वास्तुकम् उत्तम.अगारम्, त्रिभाग.अन्तरं वा, इष्टका.अवबद्ध.पार्श्वम्, वामतः प्रदक्षिण.सोपानं गूढ.भित्ति.सोपानम् इतरतः ॥

३.२३
द्वि.हस्तं तोरण.शिरः ॥

३.२४
त्रि.पञ्च.भागिकौ द्वौ कपाट.योगौ ॥

३.२५
द्वौ परिघौ ॥

३.२६
अरत्निर् इन्द्र.कीलः ॥

३.२७
पञ्च.हस्तम् आणि.द्वारम् ॥

३.२८
चत्वारो हस्ति.परिघाः ॥

३.२९
निवेश.अर्धं हस्ति.नखम् ॥

३.३०
मुख.समः संक्रमः संहार्यो भूमिमयो वा निरुदके ॥

३.३१
प्राकार.समं मुखम् अवस्थाप्य त्रि.भाग.गोधा.मुखं गोपुरं कारयेत् ॥

३.३२
प्राकार.मध्ये वापीं कृत्वा पुष्करिणी.द्वारम्, चतुः.शालम् अध्यर्ध.अन्तरं साणिकं कुमारी.पुरम्, मुण्ड.हर्म्य.द्वि.तलं मुण्डक.द्वारम्, भूमि.द्रव्य.वशेन वा निवेशयेत् ॥

३.३३
त्रि.भाग.अधिक.आयामा भाण्ड.वाहिनीः कुल्याः कारयेत् ॥

३.३४
तासु पाषाण.कुद्दालाः कुठारी.काण्ड.कल्पनाः ।

३.३४
मुषुण्ढी.मुद्गरा दण्डाश् चक्र.यन्त्र.शतघ्नयः ॥

३.३५
कार्याः कार्मारिकाः शूला वेधन.अग्राश् च वेणवः ।

३.३५
उष्ट्र.ग्रीव्यो_अग्नि.सम्योगाः कुप्य.कल्पे च यो विधिः ॥ E

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP