TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

स्वच्छन्दभैरवतन्त्र - दशमः पटलः ९

स्वच्छन्दभैरवतन्त्र हे एक असे तंत्र आहे, ज्यापासून प्रत्यक्ष भैरव मदतीला उभे राहतात.


दशमः पटलः ९
शोभितं भुवनेशैश्च रुद्रै रुद्रगणैस्तथा ।
सरोभिर्मानसैर्दिव्यैर्दीर्घिकाभिश्च शोभितं ॥८०१॥
रथचक्रप्रमाणैश्च मणिकाञ्चनमण्डितैः ।
वैदूर्यनालैः कमलैर्दिव्यगन्धसुगन्धिभिः ॥८०४॥
मृदुभिः कान्तिमद्भिश्च चन्द्रमण्डलसंनिभैः ।
संशोभितं विचित्रैस्तैर्विकचैर्वज्रकेसरैः ॥८०३॥
उद्यानैर्विविधैश्चापि नानाविहगकूजितैः ।
नानाकामप्रदैर्वृक्षैः समन्तात्समलङ्कृतं ॥८०४॥
नानामणिमयैर्दिव्यैः क्रीडाशैलैश्च मानसैः ।
मानसीभिश्च नारीभिर्दिव्ययौवनकान्तिभिः ॥८०५॥
हावभावविलासाढ्य- दिव्यस्त्रीभिरलंकृतं ।
विचित्रैर्मणिपद्मैश्च सितपत्रैश्च सुव्रते ॥८०६॥
विभूषितं गजेन्द्रस्थैः स्तुतिमङ्गलवादिभिः ।
गायद्भिश्चाथ नृत्यद्भिर्दिव्यस्त्रैणैः समाकुलं ॥८०७॥
तस्मिंस्तु भुवने दिव्ये पद्मगर्भसमप्रभे ।
शरदिन्दुनिभं दिव्यं मण्डलं रश्मिसंकुलं ॥८०८॥
तस्य मध्ये भगवती श्री स्वयं लोकभाविनी ।
चन्द्रकोटिसहस्राणां या कान्तिमतिवर्तते ॥८०९॥
एकत्र युगपत्तेजस्तेजसां तु विराजते ।
निर्वाणमिव या शान्ता सर्वानन्दमनोहरा ॥८१०॥
रूपिणी परमा देवी मूर्तिरव्यभिचारिणी ।
शतयोजनविस्तीर्णे उदितादित्यसप्रभे ॥८११॥
चन्द्रकान्तमये पद्मे वज्रकेसरकर्णिके ।
कोटिपत्रे महादिव्ये गन्धपुष्पगुणान्विते ॥८१२॥
पद्मासने भगवती पद्मगर्भसमप्रभा ।
उपविष्टात्र सा नित्यं विभूत्या परया युता ॥८१३॥
महारत्नैश्च स्रग्धाम प्रलम्बमुरसा शुभं ।
वहन्ती सा तु शुशुभे ज्योत्स्नेव त्रिपथापथं ॥८१४॥
स्फुरन्मयूखचलने कपोलतलमण्डले ।
सूर्यमण्डलसंकाशे धारयन्ती च कुण्डले ॥८१५॥
स्फुरन्मयूखसंघातां रशनां सा तु बिभ्रती ।
हेमाभा पीतवसना महाहारविभूषिता ॥८१६॥
चन्द्राब्भेनातपत्रेण ध्रियमाणेन राजिता ।
उपगीता च गन्धर्वैर्मानसै रुद्रसम्भवैः ॥८१७॥
परिवारिता भगवती सा तनुः पारमेश्वरी ।
या प्राप्ता तपसाराध्य विष्णुना प्रभविष्णुना ॥८१८॥
दत्ता प्रीतेन रुद्रेण विष्णोरुरसि वाहिनी ।
अर्धेन सा भगवती विष्णोरङ्गे प्रतिष्ठाता ॥८१९॥
पादेनेन्द्रस्य देवस्य पादार्धेन दिवि स्थिता ।
तदर्धेन पुनर्देवि पार्थिवेषु व्यवस्थिता ॥८२०॥
तदर्धेन मनुष्येषु या स्थिता व्याप्य मूर्तिभिः ।
स्वरूपा कामरूपा च द्विधा सा परिकीर्तिता ॥८२१॥
अचला सा तनुः सूक्ष्मा अक्षोभ्या तत्र तिष्ठति ।
रुद्रक्रीडावतारेषु प्रयागादिषु सुव्रते ॥८२२॥
श्रीगिरौ च विशेषेण मृतस्तद्भुवनं व्रजेथ् ।
सत्स्वन्येष्वपि भागेषु त्वियं सा गदिता गतिः ॥८२३॥
प्राप्य तामीदृशीं देवीं ऐश्वर्यमणिमादिकं ।
भूत्वा तु साष्टधा दिव्या देवेष्वपि च तिष्ठति ॥८२४॥
सिद्धेष्वपि च सा देवी उत्तमा सिद्धिरुच्यते ।
यदर्थं तारकाद्यैश्च संग्रामस्त्रिदशेश्वरैः ॥८२५॥
कृतो घोरस्त्वसंख्येयः तां श्रियं प्राप्तुमिच्छुभिः ।
असङ्ख्येयाश्च संग्रामाः कृता वै चक्रवर्तिभिः ॥८२६॥
सा बन्ध एवमुक्तानां अबुधानां परा स्मृता ।
श्रीपुरं तु समाख्यातं यथावच्च वरानने ॥८२७॥
अत ऊर्ध्वं प्रवक्ष्यामि भुवनं च निबोध मे ।
सारस्वतमिति ख्यातं गान्धर्वमिति च स्मृतं ॥८२८॥
पद्मगर्भपुरं चापि कोटिमात्रेण सुव्रते ।
योजनानां समाख्यातं प्रमाणेन समन्ततः ॥८२९॥
सार्वरत्नमयं दिव्यं सर्वैश्वर्यसमन्वितं ।
विमानैर्विविधाकारैर्नानारत्नमयैः शुभैः ॥८३०॥
गान्धर्वैर्मानसैश्चापि गायद्भिश्चाप्यनेकधा ।
नृत्यद्भिश्च तथान्यैश्च गणैः पार्श्वगतैस्तथा ॥८३१॥
स्त्रीभिः सुरूपिणीभिश्च गन्धर्वैश्च समाकुलं ।
तस्य मध्ये तु देवेशि शरच्चन्द्रनिभं शुभं ॥८३२॥
रश्मिमालाकुलं दिव्यं मण्डलं परिमण्डलं ।
तस्य मध्ये भगवती स्थिता साक्षात्सरस्वती ॥८३३॥
शरच्चन्द्रसहस्रस्य या कान्तिमतिवर्तते ।
पीताम्बरधरा देवी पद्मपत्रायतेक्षणा ॥८३४॥
नीलोत्पलदलश्यामा दिव्याभरणभूषिता ।
हेमपट्टपरीधाना दिव्यकुण्डलधारिणी ॥८३५॥
उरसा तु महाहारं उद्वहन्ती शशिप्रभं ।
स्फुरन्मयूखसंघात- कुण्डलद्वयमण्डिता ॥८३६॥
ग्रामत्रयवलीमध्या सप्तस्वरतनुः शुभा ।
तानमूर्धारुहा देवी मूर्च्छनाङ्गरुहोद्वहा ॥८३७॥
पदासना तालपादा गीतवर्णप्रभावती ।
अङ्गुल्यः सन्धयश्चैव लक्षणानि वरानने ॥८३८॥
आसने परमे दिव्ये वृता भूतगणेश्वरैः ।
स्थिता स्थितिरिवाभाति सर्वस्य जगतः शुभा ॥८३९॥
मानसीभिश्च नारीभिर्गन्धर्वैर्मानसैर्वृता ।
हाहा हूहूश्चित्ररथस्तुम्बुरुर्नारदस्तथा ॥८४०॥
विश्वावसुर्विश्वरथः दिव्यगीतविचक्षणाः ।
संयोज्य मनसात्मानं त्यक्त्वा कर्मफलस्पृहां ॥८४१॥
ते वै सारस्वतं स्थानं प्राप्ता वै सुरपूजिते ।
ये च वाग्धारणां ध्यात्वा प्राणान्मुञ्चन्ति देहिनः ॥८४२॥
ते वै सारस्वतं लोकं प्राप्नुवन्ति नरोत्तमाः ।
एषा सरस्वती देवी मूर्तिर्वै पारमेश्वरी ॥८४३॥
या स्थितापरभावेन ब्रह्माण्डोदरवर्तिनां ।
ब्रह्मलोके च सा देवी पादेनैकेन तिष्ठति ॥८४४॥
शाक्रे चापि तदर्धेन गन्धर्वेषु तदर्धतः ।
सिद्धेषु च तदर्धेन किन्नरेषु तदर्धतः ॥८४५॥
तदर्धेन च नागेषु यक्षेष्वर्धेन वै पुनः ।
पिशाचेषु तदर्धेन सा वै तिष्ठति भागशः ॥८४६॥
पिशाचेभ्यः सहस्रांशान्मानुषेषु च तिष्ठति ।
तैस्तु तप्त्वा तपो घोरं आराध्य च पिनाकिनं ॥८४७॥
अवतारिता तु सा देवी रूपिणी स्वरभूषिता ।
स्वरांस्तु स्मरतस्तस्य कल्पादौ ब्रह्मणः पुरा ॥८४८॥
स्वरेभ्यस्तु विनिष्क्रान्ता तेन सा तु सरस्वती ।
सा स्थिता सर्वशास्त्रेषु कवीनां काव्यमास्थिता ॥८४९॥
या वाल्मीकौ स्थिता देवी व्यासे चैव निरन्तरं ।
ऋषीणां चैव सर्वेषां मेधाबुधिविवर्धिनी ॥८५०॥
सर्वज्ञानधरी सा तु सर्वज्ञा देवपूजिता ।
मेरोर्वायव्यदिग्भागे पुरं तस्याः प्रकीर्तितं ॥८५१॥
इदं तु परमं देव्या मया ते परिकीर्तितं ।
सारस्वतं तु भुवनं कीर्तितं परमा तनुः ॥८५२॥
अत्रैव त्वाप्यतत्त्वे त्वं शृणु वै भुवनोत्तमं ।
अमरेशं प्रभासं च पुष्करं नैमिषं तथा ॥८५३॥
आषाढिं डिण्डिमुण्डिं च भारभूतिं च लाकुलं ।
गुह्याष्टकमिति ख्यातं जलावरणगं प्रिये ॥८५४॥
तेजस्तत्त्वमतश्चोर्ध्वं कथयामि समासतः ।
अग्नेस्तु भुवनं तत्र कथयामि वरानने ॥८५५॥
अशोकस्तवकानां च सर्वतो दीप्तिमुद्वहथ् ।
उत्फुल्लकिंशुकच्छायं जपाकुसुमसंनिभं ॥८५६॥
भुवनस्यास्य मध्ये तु उदितार्कसमप्रभं ।
परिमण्डलमाग्नेयं तेजोमण्डलमुच्यते ॥८५७॥
तस्य मध्ये तु भगवाञ्शिवाग्निः कारणं परं ।
योऽवतीर्याण्डमध्ये तु स्थितो नित्यं त्रिधा त्रिधा ॥८५८॥
वक्त्रे तु दक्षिणे तस्य रुद्रस्य परमात्मनः ।
स्थितो जिह्वास्वरूपेण स्वयंभूर्नीललोहितः ॥८५९॥
स एव तु महादेवि कालाग्निः परमेश्वरः ।
तस्य रूपं प्रवक्ष्यामि शृणुष्वावहिता प्रिये ॥८६०॥
रक्तपद्मदलच्छायः पद्मरागसमद्युतिः ।
रक्ताम्बरधरः श्रीमान्रक्तमाल्यानुलेपनः ॥८६१॥
अर्कभाभ्यां कुण्डलाभ्यां अलंकृतशुभाननः ।
महाहारेण दीप्तेन उरःस्थेन विराजते ॥८६२॥
किरीटी कुण्डली दीप्तो देवानामास्यमुच्यते ।
सर्ववज्रमये पीठे उपविष्टः स्वयं प्रभुः ॥८६३॥
दावाग्निरिव शैलाग्रे वेणुघर्षात्समुत्थितः ।
दशकोटिसहस्राणि आग्नेयास्तु गणेश्वराः ॥८६४॥
दक्षिणास्याद्विनिष्क्रान्ताः श्वसतोऽस्य स्वयम्भुवः ।
हिताय सर्वलोकानां रुद्रा वै सूर्यवर्चसः ॥८६५॥
तेन तेऽग्निं महात्मानो नित्यशः पर्युपासते ।
नार्यश्च विविधा दिव्या दिव्यगीतविचक्षणाः ॥८६६॥
गणा रुद्रा भूतगणाः किङ्कराश्च सहस्रसः ।
स वै शिवाग्निः पठितः सर्वहोमेश्वरः परः ॥८६७॥
अग्निकार्यविधानेषु हूयते तद्विदैः सदा ।
तमग्निमैश्वरं यान्ति कृत्वाग्नेयीं तु धारणां ॥८६८॥
स एकधा स बहुधा व्याप्य सर्वं व्यवस्थितः ।
स तेजस्तेजसां योनिः तस्माज्जज्ञे दिवाकरः ॥८६९॥
बहुधा व्यज्यते चासौ कल्पमन्वन्तरादिषु ।
भिन्नश्च जन्मभेदैश्च पञ्चाशद्भिश्च भूतले ॥८७०॥
तदेवं कीर्तितं सम्यगाग्नेयं भुवनं महथ् ।
भुवनाधिपांश्च भुवने कथयामि त्वतः परं ॥८७१॥
हरिश्चन्द्रं च श्रीशैलं जल्पमाम्रातकेश्वरं ।
महाकालं मध्यमं च केदारं भैरवं तथा ॥८७२॥
अतिगुह्यं समाख्यातं पूर्वेशान्तमनुक्रमाथ् ।
अथोर्ध्वे वाय्वावरणं तत्रस्थो वायुरव्ययः ॥८७३॥
प्राणस्य भुवनं तत्र वायोस्तु वरवर्णिनि ।
शङ्खगोक्षिरधवलं शरत्कुन्देन्दुसप्रभं ॥८७४॥
तस्मिंस्तु भुवने दिव्ये दिव्याश्चर्यशतैर्युते ।
मध्ये तु मण्डलं दिव्यं शरच्चन्द्रसमप्रभं ॥८७५॥
रश्मिमालाकुलं दिव्यं द्योतयद्वै दिशोदश ।
तस्य मध्ये तु देवेशि वायोस्तु परमा तनुः ॥८७६॥
किरीटी कुण्डली दीप्तो हारकेयूरभूषितः ।
नानाभरणचित्राङ्गश्चित्रमाल्यानुलेपनः ॥८७७॥
चित्राम्बरधरः श्रीमान्महाहारविभूषितः ।
मारुता नाम वै देवाः शतकोट्यो महाबलाः ॥८७८॥
उपासते महात्मानं वायुमूर्तिं महाद्युतिं ।
यो व्यापयेच्छरीराणि एकधा पञ्चधा विभुः ॥८७९॥
सप्तधा सप्तधा चैव तिर्यग्गो द्विगुणो विभुः ।
स्वमण्डलस्य सा दिव्यैर्विभात्येका परा तनुः ॥८८०॥
तमेतमेकं दशधा प्राणात्मानं तु योगिनः ।
ध्यात्वा त्यक्त्वा तु वै प्राणान्कृत्वा तस्मिन्स्तु धारणां ॥८८१॥
तं विशन्ति महात्मानो वायुभूताः खमूर्तयः ।
इति प्राणस्य भुवनं आख्यातं तव सुव्रते ॥८८२॥
भुवनेशांस्तत्र रुद्रान्कथयाम्यनुपूर्वशः ।
गयां चैव कुरुक्षेत्रं नाकलं कनखलं तथा ॥८८३॥
विमलं चाट्टहासं च माहेन्द्र भीममष्टमं ।
गुह्याद्गुह्यतरं ह्येतद्वेदितव्यं प्रयत्नतः ॥८८४॥
आकाशे तु यथाकाशं शुद्धस्फटिकनिर्मलं ।
सूक्ष्मरूपोऽव्ययो नित्यो मध्यदेशे व्यवस्थितः ॥८८५॥
आकाशधारणायुक्तो योगी युज्यते तत्पदे ।
अत्राकाशे प्रवक्ष्यामि ये रुद्राः संव्यवस्थिताः ॥८८६॥
वस्त्रापदं रुद्रकोटिं अविमुक्तं महालयं ।
गोकीर्णं भद्रकर्णं च स्वर्णाक्षं स्थाणुमष्टमं ॥८८७॥
पवित्राष्टकमेतद्धि समासेन प्रकीर्तितं ।
अस्य बाह्ये अहंकारः तत्र रुद्रान्निबोध मे ॥८८८॥
छगलाण्डं दुरण्डं च माकोटं मण्डलेश्वरं ।
कालञ्जरं शङ्कुकर्णं स्थूलेश्वरस्थलेश्वरौ ॥८८९॥
स्थाण्वष्टकं समाख्यातं पूर्वादीशानगोचरं ।
मध्यदेशेस्थितो रुद्रस्त्वहंकारेश्वरः प्रभुः ॥८९०॥
श्वेतं रक्तं तथा पीतं कृष्णं स्फटिकसप्रभं ।
पञ्चाष्टकेषु ये वर्णाः समासात्कथितास्तव ॥८९१॥
सिता रक्तास्तथा कृष्णा नीलाः श्यामा बलाहकाः ।
पीताः शुक्लाश्च विज्ञेयाः अधस्तु धूम्रवर्चसः ॥८९२॥
शतरुद्राः समाख्यातास्त्रिनेत्राः शूलपाणयः ।
चन्द्रार्धमौलयः सर्वे रुद्राणीभिः समन्विताः ॥८९३॥
पद्माकृतीनि ज्ञेयानि चित्ररत्नयुतानि च ।
शतरुद्रभुवनानि भोगैश्वर्ययुतानि च ॥८९४॥
पञ्चाष्टके पुराणि स्युः कूर्माकाराणि सर्वतः ।
आकाशावरणादूर्ध्वं अहंकारादधः प्रिये ॥८९५॥
भुवनानि प्रवक्ष्यामि शृणुष्वैकमनाः पुनः ।
आदौ तु गन्धतन्मात्रं विस्तीर्णं मण्डलं महथ् ॥८९६॥
स्थितं वितानवद्देवि योजनानेककोटयः ।
शुक्लरक्तसितापीत- हरितं स्फटिकप्रभं ॥८९७॥
वितानमिव देवेशि सर्वतः परिमण्डलं ।
शर्वो ह्यधिपतिस्तत्र एक एव वरानने ॥८९८॥
तस्मात्तु जायते पृथ्वी शर्वेशेन प्रचोदिता ।
तस्मात्तु मण्डलादूर्ध्वं रसतन्मात्रमण्डलं ॥८९९॥
हरितं मरकतश्यामं चाषपक्षनिभं प्रिये ।
भवो ह्यधिपतिस्तत्र एक एव वरानने ॥९००॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2012-06-16T04:45:26.4370000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

जड्ड

  • न. ( बे . ) आजार ; रोग . [ का . जड्डु ] 
RANDOM WORD

Did you know?

प्रासंगिक पूजा म्हणजे काय? त्या कोणकोणत्या?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site