TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

स्वच्छन्दभैरवतन्त्र - दशमः पटलः ५

स्वच्छन्दभैरवतन्त्र हे एक असे तंत्र आहे, ज्यापासून प्रत्यक्ष भैरव मदतीला उभे राहतात.


दशमः पटलः ५
पौर्णमासी तथा ज्ञेया चातुर्मास्यं तथैव च ।
पशुबन्धः समुद्दिष्टः सौत्रामणिरतः परं॥ ४०१॥
हविर्यज्ञाः समाख्याताः सप्तैते पावनाः प्रिये ।
एभिः सह विजानीयात्संस्कारैकोनत्रिंशकं॥ ४०२॥
अग्निष्टोमात्यग्निष्टोमौ उक्थः षोडशिका तथा ।
वाजपेयोऽतिरात्रस्तु आप्तोर्यामस्तु सप्तमः ॥४०३॥
सोमसंस्थाः समाख्याताः षट्त्रिंशत्परिसंख्यया ।
हिरण्यपादः प्रथमस्तथा गुह्यहिरण्यधृथ् ॥४०४॥
हिरण्यमेढ्रो हिरण्यनाभिर्हिरण्यगर्भ एव च ।
हिरण्यश्रोत्रो हिरण्यत्वग्घिरण्याक्षस्तथैव च ॥४०५॥
हिरण्यजिह्वस्तच्छृङ्गो दश यज्ञाः प्रकीर्तिताः ।
शतेन तु घृतं चात्र एकैकं तु विजायते ॥४०६॥
एते सर्वे सहस्रेण शुद्ध्यन्ते सप्तत्रिंशकः ।
अश्वमेधं ततः पश्चाज्जुहुयात्तु यथाक्रमं॥ ४०७॥
एवं कृतैस्तु तैः सर्वैस्ततश्चैव गृही भवेथ् ।
अष्टात्रिंशत्तमं तं तु वानप्रस्थं ततो भवेथ् ॥४०८॥
पारिव्राज्यं ततोऽन्तेष्टिं एवं ब्राह्मण्यमाप्नुयाथ् ।
अत आत्मगुणानष्टौ कथयामि समासतः ॥४०९॥
दया सर्वेषु भूतेषु क्षान्तिश्चाप्यनसूयता ।
शौचं चैवमनायासो मङ्गलं चाप्यतः परं॥ ४१०॥
अकार्पण्यं चास्पृहा चेत्यष्टावात्मगुणाः स्मृताः ।
चत्वारिंशदथाष्टौ तु संस्काराश्च समासतः ॥४११॥
एतैः शुद्धैस्तु शुद्ध्यन्ति असंख्या येऽपि सुव्रते ।
अतोऽन्तेष्टिं तु हुत्वा वै गुणानापादयेच्छिशोः ॥४१२॥
पञ्च पञ्चाहुतीर्हुत्वा ब्रह्मभिश्चाप्यनुक्रमाथ् ।
तिलैर्घृतेन वातांश्च ऊर्ध्वे तु विनियोजयेथ् ॥४१३॥
ऊर्ध्वशब्देन चाशुद्धं यत्कर्म परिकीर्तितं ।
तस्मिन्संयोजनं कार्यं नचान्यत्र विधीयते ॥४१४॥
तस्मान्नोद्धरणं कार्यं न चापि नयनं क्वचिथ् ।
यत्तत्र परिपाट्या तु कर्म तत्र नियोजयेथ् ॥४१५॥
ततोऽणिमादिरापाद्यो ब्रह्मभिश्चाप्यनुक्रमाथ् ।
पञ्चाहुतिप्रयोगेण भोगार्थं चैवमात्मनः ॥४१६॥
ऊर्ध्वशब्देन तज्ञेयं यद्भूर्लोकं समाश्रितं ।
तस्मिन्युक्तस्य कर्तव्यं नचान्यस्मिन्कदाचन ॥४१७॥
अनुद्धृते कथं योगः यावत्कर्म न भुज्यते ।
तस्मात्तु योगशब्देन तत्तत्कर्मैकचिन्तना ॥४१८॥
निवर्त्यते महादेवि निष्कृतिं जुहुयात्ततः ।
शिवेनाष्टशताहुत्या ततस्तु भुवनाधिपान्॥ ४१९॥
भुवनान्तर्निवासांश्च भुवनानां यथाक्रमं ।
होमेनैव तु संशोध्य विश्लेषं छेदनं तथा ॥४२०॥
पूर्णं चैव समुद्धारं तत्स्थत्वं चाप्यनुक्रमाथ् ।
प्रायश्चित्तं ततो हुत्वा न्यूनाधिकनिमित्ततः ॥४२१॥
एवमादिक्रमेणैव धामान्तं च विशोधयेथ् ।
भूर्लोकस्तु समाख्यातो भुवोलोकं निबोध मे ॥४२२॥
भूपृष्ठद्यावदादित्यं लक्षमेकं प्रमाणतः ।
दश वायुपथा मध्ये त्वयुतायुतसंख्यया ॥४२३॥
आद्ये वायुपथे मेघान्कथयामि यथास्थितान् ।
पञ्चाशद्योजनादूर्ध्वं ऋतर्द्धिर्नाम मारुतः ॥४२४॥
यो विवर्धयते पुष्टिं ओषधीनां बलं तथा ।
बृंहयेच्च महीं सर्वां आप्याययति चाव्ययः ॥४२५॥
दिवा हंसः स वै वायुर्मनुजानां सुखावहः ।
यतो गृद्ध्रान्धारयति तेन गृद्ध्रधरः स्मृतः ॥४२६॥
प्राचेतसो नाम वायुः प्रचेतोभिविनिर्मितः ।
स वै नाशयते वृक्षान्कदाचित्संप्रवर्तयेथ् ॥४२७॥
अग्निः प्राचेतसो नाम तेनैव सह तिष्ठति ।
यदा दहति वेश्मानि तदासौ समुदाहृतः ॥४२८॥
सुखी समुद्रे वसति स जलान्नोपशाम्यति ।
योजनानां शतादूर्ध्वं सेनानीर्वायुरुच्यते ॥४२९॥
विद्युद्वन्तो मूकमेघा वसन्त्यस्मिंश्च मारुते ।
ते भुवः क्रोशमात्रेण तिष्ठन्तोऽपसृजन्त्यपः ॥४३०॥
योजनानां शतादूर्ध्वं मेघाः सत्त्ववहाः स्मृताः ।
मत्स्यमण्डूककूर्मांश्च वर्षन्त्येते च दुर्दिने ॥४३१॥
योजनानां शतादूर्ध्वं वायुरोघः प्रकीर्तितः ।
तस्मिंस्तु रोगदा मेघा वर्षन्ति च विषोदकं॥ ४३२॥
तेनोपसर्गा जायन्ते मारकाः सर्वदेहिनां ।
तस्मादूर्ध्वं तु तावद्भ्यो देव्यमोघः स्थितो मरुथ् ॥४३३॥
तस्मिंस्ते मारका मेघा अमोघे संप्रतिष्ठिताः ।
वज्राङ्गो नाम वै वायुः पञ्चाशद्योजनस्थितः ॥४३४॥
तस्मिंस्तूपलका नाम मेघास्तूपलवर्षिणः ।
तावद्भिर्योजनैरेव ततो वै वैद्युतोऽनिलः ॥४३५॥
मेघाश्च वैद्युतास्तस्मिन्निवसन्ति तु वैद्युते ।
अशनिर्वायुसंक्षोभात्तेष्वसौ जायते महान्॥ ४३६॥
तदूर्ध्वं योजनानां च पञ्चाशद्रैवतः स्मृतः ।
तस्मिन्पुष्टिवहो नाम पुष्टिं वर्षति देहिनां॥ ४३७॥
संवर्ते रोगदा मेघास्ते रोगोदकवर्षिणः ।
पञ्चाशद्योजने ते वै तस्मिंस्तिष्ठन्ति तोयदाः ॥४३८॥
विषावर्तो नाम वायुः पञ्चाशदुपरि स्थितः ।
तस्मिन्क्रोधोदका नाम मेघा वै संप्रतिष्ठिताः ॥४३९॥
ते क्रोधरागबहुलं संग्रामबहुलं तथा ।
राज्ञां क्षयकरं चैव प्रजानां क्षयदं तथा ॥४४०॥
वर्षं चैवात्र कुर्वन्ति यदा वर्षन्ति ते घनाः ।
अघोप्यमेघो वज्राङ्गो वैद्युतो रैवतस्तथा ॥४४१॥
संवर्तश्च विषावर्तो वायवो घोरवेगिनः ।
अघो वसन्ति वै दिव्याः पिशाचाः स्कन्ददेहजाः ॥४४२॥
त्रिंशत्कोटिसहस्राणि स्कन्दस्यानुचराः स्मृताः ।
ते वै दिव्यैश्च कुसुमैरर्चयन्ति हरात्मजं॥ ४४३॥
अमोघे विनायका घोरा महादेवसमुद्भवाः ।
त्रिंशत्कोटिसहस्राणि तस्मिन्वायौ प्रतिष्ठिताः ॥४४४॥
ये हरन्ति कृतं कर्म नराणामकृतात्मनां ।
वज्राङ्गेऽपि तथा वायौ मातङ्गाः क्रूरकर्मिणः ॥४४५॥
भिन्नाञ्जननिभा घोरास्तापना नाम विश्रुताः ।
विद्याधराणामधमा मनः पवनगामिनः ॥४४६॥
ये विद्यापौरुषे ये च वैतालादीञ्श्मशानतः ।
साधयित्वा ततः सिद्धास्तेऽस्मिन्वायौ प्रतिष्ठिताः ॥४४७॥
वैद्युतेऽप्सरसस्तस्मिन्वासवेन प्रयोजिताः ।
तिष्ठन्ति सर्वदा तत्र पृथिवीपुरपालने ॥४४८॥
भृगो वह्नौ जले वापि संग्रामेष्वनिवर्तकाः ।
गोग्रहे बन्दिमोक्षे वा म्रियन्ते पुरुषोत्तमाः ॥४४९॥
ते व्रजन्ति ततस्तूर्ध्वं विमानैर्मणिचिह्नितैः ।
पताकादीर्घिकाकीर्णैर्दिव्यघण्टानिनादितैः ॥४५०॥
स्त्रीसहस्रपरीवारैर्विमानैस्तान्नयन्ति ताः ।
रैवते तु महात्मानः सिद्धा वै संप्रतिष्ठिताः ॥४५१॥
गोरोचनाञ्जने भस्म पादुके अजिनादि च ।
साधयित्वा महात्मानः सिद्धास्ते कामरूपिणः ॥४५२॥
ते वसन्ति महात्मानो दिव्यां सिद्धिमवस्थिताः ।
संवर्तेऽपि महावायौ विद्याधरगणाः स्मृताः ॥४५३॥
दश त्रिंशच्च कोट्यस्ते दिव्याभरण भूषिताः ।
दिव्यगन्धानुलिप्तास्ते दिव्यस्रग्धामभूषिताः ॥४५४॥
आग्नेया धूमजा मेघाः शीतदुर्दिनदाः स्मृताः ।
विषावर्तं नावमिव ते वायुं यान्ति मिश्रिताः ॥४५५॥
तत्र गन्धर्वकुशला गन्धर्वसहधर्मिणः ।
वंशवीणाविधिज्ञाश्च पक्षिणः कामरूपिणः ॥४५६॥
ब्रह्मजा नाम वै मेघा ब्रह्मनिःश्वाससंभवाः ।
उपरिष्टाद्योजनशताद्दुर्जयस्योपरि स्थिताः ॥४५७॥
तत्र वै दुर्जया नाम इन्द्रस्य परिरक्षकाः ।
परावहाभिधं वायुं ते समाश्रित्य संस्थिताः ॥४५८॥
महावीर्यबलोपेता दश कोट्यः प्रकीर्तिताः ।
पुष्करावर्तका नाम मेघा वै पद्मजोद्भवाः ॥४५९॥
शक्रेण पक्षा ये च्छिन्नाः पर्वतानां महात्मनां ।
परावहस्तान्वहति मनुजानिव वारणः ॥४६०॥
तस्मिन्वायुगमा नाम गन्धर्वा गगनालयाः ।
एकादश तु वै कोट्यस्तेषां तु समुदाहृताः ॥४६१॥
जीमूता नाम ये मेघा देवेभ्यो जीवसंभवाः ।
द्वितीयमावहं वायुं मेघास्ते च समाश्रिताः ॥४६२॥
तस्मिञ्जीमूतका नाम विद्याधरगणा दश ।
आवहस्तु ततो वायुर्यत्र द्रोणाः समाश्रिताः ॥४६३॥
तस्मिन्द्रोणाः समाख्याता मेघानां परिरक्षकाः ।
हितार्थं तु प्रजानां वै निर्मितास्ते मया पुरा ॥४६४॥
उपरिष्टात्कपालोत्थाः संवर्तानाम वै घनाः ।
महापरिवहो नाम वायुस्तेषां समाश्रयः ॥४६५॥
आद्ये वायुपथेह्येवं मेघा वै वायुभिः सह ।
सिद्धाश्च पतयश्चैव कथिता मेघचारिणः ॥४६६॥
द्वितीये वायुपथे ज्ञेया अग्निकन्याश्च मातरः ।
ता वसन्ति गुणोपेता रुद्रशक्त्यात्वधिष्ठिताः ॥४६७॥
तृतीये वायुपथे चैव वसन्ते सिद्धचारणाः ।
स्वकर्मभोगसंसिद्धाः सर्वसिद्धैरधिष्ठिताः ॥४६८॥
चतुर्थे पथि चैवात्र वसन्त्यायुधदेवताः ।
नाराचचक्रचापर्ष्टि शूलशक्तीषुमुद्गराः ॥४६९॥
पञ्चमे पथि देवेशि वसन्त्यैरावतादयः ।
ऐरावतोऽञ्जनश्चैव वामनश्च महागजः ॥४७०॥
सुप्रतीको गजेन्द्रश्च पुष्पदन्तस्तथैव च ।
कुमुदः पुण्डरीकश्च सार्वभ्ॐओऽपि चाष्टमः ॥४७१॥
दिग्गजा इति विख्याताः स्वसु दिक्षु व्यवस्थिताः ।
षष्ठे वायुपथे देवि पक्षिराजो महाबलः ॥४७२॥
गरुत्मानिति विख्यातो दुर्जयोऽतीव वीर्यवान् ।
सप्तमे व्योमगङ्गा तु नानाजलचरानुगा ॥४७३॥
दिव्यामृतजला पुण्या त्रिधा सा परिकीर्तिता ।
सा भ्रान्ता नभसो मध्ये समन्तात्परिमण्डला ॥४७४॥
आकाशगङ्गा प्रथिता देवानां सततोत्सवा ।
पुष्पमालेव सा भाति नभसः शिरसि स्थिता ॥४७५॥
तत्र सिद्धैर्महाभागैर्विद्याधरगणैस्तथा ।
गन्धर्वैरप्सरोभिश्च साध्यैर्विश्वैर्मरुद्गणैः ॥४७६॥
रुद्रैर्वसुभिरादित्यैः पितृदेवमहर्षिभिः ।
रक्षोभिर्गुह्यकैश्चैव दिव्यस्तुतिपरायणैः ॥४७७॥
स्तुवद्भिश्च जपद्भिश्च गायद्भिश्च महात्मभिः ।
नृत्यद्भिर्वल्गमानैश्च दिव्यदुन्दुभिनिःस्वनैः ॥४७८॥
भेरीमृदङ्गवाद्यैश्च वल्लकीनां च निःस्वनैः ।
वंशवादित्रनादैश्च मनोवायुसमीरितैः ॥४७९॥
वैदूर्यनालैः कमलैर्हेमपत्रैः सुगन्धिभिः ।
केसरैः पद्मरागैश्च महाचक्रप्रमाणकैः ॥४८०॥
नृत्यन्तीव सरिच्छ्रेष्ठा विमानशतमण्डिता ।
मण्डिता च वनैर्दिव्यैर्धर्माधारा महानदी ॥४८१॥
मम नेत्राद्विनिष्क्रान्ता क्रियाशक्तिः परा हि सा ।
महामन्दाकिनी देवी त्रिदशैः पर्युपासिता ॥४८२॥
महाविमानकोटीभिर्निरन्तरमवस्थितैः ।
शोभितासौ भगवती नित्यमास्ते नभस्तले ॥४८३॥
तत्रैषा मेरुशिरसि मम वै मस्तकाच्च्युता ।
पपात धरणीपृष्ठे लोकानां हितकाम्यया ॥४८४॥
अक्षोभ्या साप्यसौ गङ्गा तिष्ठत्यनिलधारिता ।
योजनानां शतं पूर्णं विस्तारोऽस्याः प्रकीर्तितः ॥४८५॥
परिणाहस्ततः कोट्यः महावेगवती शुभा ।
सा भ्रमन्तीव संतिष्ठेत्समन्तात्परिमण्डला ॥४८६॥
ध्रुवमापूर्य सा देवी त्वत्यद्भुतमवस्थिता ।
दिव्यामृतवहा पुण्या सर्वपापप्रणाशिनी ॥४८७॥
अष्टमे वृषराजस्तु सपत्नीकः सनन्दनः ।
वसति त्वप्रतीघातः प्रत्यक्षो धर्म एव सः ॥४८८॥
नवमे पथि चात्रास्ते दक्षो नाम प्रजापतिः ।
ब्रह्मैव साक्षाद्वसति ब्रह्मशक्त्या त्वधिष्ठितः ॥४८९॥
दशमे वायुपथे देवि वसुरुद्रदिवाकराः ।
अत्र चाङ्गारकः सर्पिर्नैरृतः सदसत्पतिः ॥४९०॥
सदसस्पतिः?
बुधश्च धूमकेतुश्च विख्यातश्च ज्वरस्तथा ।
अजश्च भुवनेशश्च मृत्युः कापालिकस्तथा ॥४९१॥
एकादश स्मृता रुद्राः सर्वकामफलोदयाः ।
धाता ध्रुवश्च सोमश्च वरुणश्चानिलोऽनलः ॥४९२॥
प्रत्यूषश्च प्रदोषश्च वसवोऽष्टौ प्रकीर्तिताः ।
वसवः कथिताह्येते आदित्यांश्च निबोध मे ॥४९३॥
अर्यमा इन्द्रवरुणौ पूषा विष्णुर्गभस्तिमान् ।
मित्रश्चैव समाख्यातस्त्वजघन्यो जघन्यकः ॥४९४॥
विवस्वांश्चैव पर्जन्यो धाता वै द्वादशः स्मृतः ।
काश्यपेयान्विदुस्त्वेतान्तेषां तेजोनिधेरथ ॥४९५॥
अमृतोद्भवोऽर्थो दिव्यः सर्वदेवसमन्वितः ।
यज्ञश्चक्रं रथे तस्मिन्सर्वज्ञानमयी च धूः ॥४९६॥
सप्ताश्वाश्च स्वराः सप्त वेदहूंकारनिःस्वनाः ।
नागा योक्त्राणि तेषां वै अरुणश्चैव सारथिः ॥४९७॥
सत्यं च मञ्चकं तस्य वायुर्वेगो रथस्य तु ।
नवयोजनसाहस्रो विग्रहो भास्करस्य तु ॥४९८॥
त्रिगुणं मण्डलं तस्य त्रैलोक्ये भाति भास्वरं ।
ज्ञानशक्तिः पराह्येषा तपत्यादित्यविग्रहा ॥४९९॥
मासवारप्रयोगेण संचरन्ति शिवेच्छया ।
अहोरात्रं भ्रमन्त्येते भुवर्लोकं समन्ततः ॥५००॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2012-06-16T03:00:38.9970000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

ताठणें

  • ताठून चालणें 
  • छाती काढून चालणें 
  • गर्व करणें 
  • आढ्यता बाळगणें. 
RANDOM WORD

Did you know?

Why are you transliterating?
Category : About us!
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site