TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

स्वच्छन्दभैरवतन्त्र - दशमः पटलः ७

स्वच्छन्दभैरवतन्त्र हे एक असे तंत्र आहे, ज्यापासून प्रत्यक्ष भैरव मदतीला उभे राहतात.


दशमः पटलः ७
पूजितैर्गणरुद्रैश्च ब्रह्मविष्ण्विन्द्रवन्दितैः ।
चामरव्यजनोक्षेपै रुद्रस्त्रीभिः समन्ततः ॥६०१॥
वीजतस्तु सदा श्रीमांश्चन्द्रकोटिसमप्रभः ।
ज्ञानामृतसुतृप्तात्मा योगैश्वर्यप्रदायकः ॥६०२॥
ध्यातो वै योगिभिर्नित्यं प्रसन्नवदनेक्षणः ।
प्रहसन्स इवाभाति निर्मलज्ञानरश्मिभिः ॥६०३॥
अज्ञानतिमिरं हत्वा दर्शयेत्परमं वपुः ।
सर्वसौख्यप्रदाता च रुद्रमातृगणावृतः ॥६०४॥
तस्योत्सङ्गगता देवी तप्तकाञ्चनसुप्रभा ।
पूजिता योगिनीवृन्दैः साधकैः सुरकिन्नरैः ॥६०५॥
सर्वलक्षणसंपूर्णा सर्वाभरणभूषिता ।
योगसिद्धिप्रदा नित्यं मोक्षाभ्युदयदायिका ॥६०६॥
देवस्याभिमुखी नित्यं उमा तु ललितेक्षणा ।
शक्तिश्चापररूपेण शक्तिमांश्च हरस्तथा ॥६०७॥
ब्रह्माण्डे सृष्टिसंहारौ करोति च शिवेच्छया ।
दीक्षाज्ञानविहीना ये लिङ्गाराधनतत्पराः ॥६०८॥
ते प्रयान्ति हरस्थानं सर्वैश्वर्यसुखावहं ।
जरामरणनिर्मुक्ता व्याधिशोकविवर्जिताः ॥६०९॥
नाधोयान्ति पुनर्देवि संसारे दुःखसागरे ।
शिवंयान्ति ततश्चोर्ध्वं श्रीकण्ठेनसमीक्षिताः ॥६१०॥
रुद्रलोकः समाख्यातस्ततश्चोर्ध्वमुमे शृणु ।
उत्तरोत्तरवृद्ध्या च भुवनं भुवनंस्थितं ॥११॥
ब्रह्माण्डस्याप्यधोभागे रुद्रलोकस्यचोर्ध्वतः ।
दण्डपाणेः पुरंज्ञेयं नानारुद्रगणावृतं ॥१२॥
दण्डपाणिस्तु भगवान्योगैश्वर्यबलान्वितः ।
दण्डः पाणितलेनैव धृतोयेन शिवेच्छया ॥६१३॥
विवृणोति च ब्रह्माण्डे मोक्षमार्गं सुदुर्भिदं ।
विधिनाराधितश्चैव अनुध्यानाच्छिवेच्छया ॥६१४॥
सप्तलोकेषु ये रुद्रा कथयामि समासतः ।
शर्वोरुद्रस्तथा भीमो भव उग्रस्तथैव च ॥६१५॥
महादेवस्तथेशानो रुद्रलोकाधिपस्त्वमी ।
ब्रह्मलोकेस्थितोब्रह्मा विष्णुर्वै वैष्णवे पुरे ॥६१६॥
रुद्रलोकेस्थितोरुद्रः सर्वेषां नायकः स्मृतः ।
कालाग्नेर्दण्डपाण्यन्तं अष्टानवतिकोटयः ॥६१७॥
योजनानांवरारोहे त्वध्वायमुपवर्णितः ।
कटाहस्तु अधश्चोर्ध्वं ब्रह्माण्डस्य वरानने ॥६१८॥
कोटियोजनमानेन घनाकारेणसंस्थितः ।
पञ्चाशत्कोटयश्चोर्ध्वं भूपृष्ठात्तु वरानने ॥६१९॥
पञ्चाशच्च अधोज्ञेया योजनानां समन्ततः ।
एवं कोटिशतं ज्ञेयं पार्थिवं तत्त्वमुच्यते ॥६२०॥
शतरुद्रावधिज्ञेयं सौवर्णं परिवर्तुलं ।
वज्रसाराधिकसारं दुर्भेद्यं त्रिदशैरपि ॥६२१॥
हुंफट्कारप्रयोगेण भेदयेत्तु वरानने ।
शतरुद्रानतो वक्ष्ये समासेन कृशोदरि ॥६२२॥
दश दशक्रमेणैव दशदिक्षु समन्ततः ।
पूर्वादिक्रमयोगेन कथयाम्यनुपूर्वशः ॥६२३॥
कपालीशोह्यजोबध्नो वज्रदेहः प्रमर्दनः ।
विभूतिरव्ययः शास्ता पिनाकी त्रिदशाधिपः ॥६२४॥
इन्द्रस्यबलमाक्रम्य प्रभुशक्तिसमन्विताः ।
विचरन्तिमहादेवा इन्द्रेण च सुपूजिताः ॥६२५॥
अग्निरुद्रोहुताशी च पिङ्गलः खादको हरः ।
ज्वलनोदहनोबभ्रुर्भस्मान्तकक्षयान्तकौ ॥६२६॥
अग्नेर्बलंसमाक्रम्य प्रभुशक्तिसमन्विताः ।
विचरन्तिमहादेवा अग्निराजसुपूजिताः ॥६२७॥
याम्योमृत्युर्हरोधाता विधाताकर्तृसंज्ञकः ।
संयोक्ता च वियोक्ता च धर्मो धर्मपतिस्तथा ॥६२८॥
यमस्य बलमाक्रम्य प्रभुशक्तिसमन्विताः ।
विचरन्तिमहादेवा यमराजसुपूजिताः ॥६२९॥
नैरृतोमरुतोहन्ता क्रूरदृष्टिर्भयानकः ।
ऊर्ध्वकेशोविरूपाक्षो धूमलोहितदंष्ट्रकौ ॥६३०॥
नैरृतंबलमाक्रम्य प्रभुशक्तिसमन्विताः ।
विचरन्तिमहादेवा नैरृतेन्द्रसुपूजिताः ॥६३१॥
बलोह्यतिबलश्चैव पाशहस्तो महाबलः ।
श्वेतोऽथ जयभद्रश्च दीर्घबाहुर्जलान्तकः ॥६३२॥
मेघनादी सुनादी च समासात्परिकीर्तिताः ।
वारुणंबलमाक्रम्य प्रभुशक्तिसमन्विताः ॥६३३॥
विचरन्तिमहादेवा वरुणेन्द्रसुपूजिताः ।
शीघ्रोलघुर्वायुवेगः सूक्ष्मस्तीक्ष्णो भयानकः ॥६३४॥
पञ्चान्तकः पञ्चशिखः कपर्दी मेघवाहनः ।
वायोस्तु बलमाक्रम्य प्रभुशक्तिसमन्विताः ॥६३५॥
विचरन्तिमहादेवा वायुराजसुपूजिताः ।
निधीशोरूपवान्धन्यः सौ,यदेहो जटाधरः ॥६३६॥
लक्ष्मीरत्नधरःकामी प्रसादश्च प्रभासकः ।
स्ॐयस्य बलमाक्रम्य प्रभुशक्तिसमन्विताः ॥६३७॥
विचरन्तिमहादेवाः सोमराजसुपूजिताः ।
विद्याधिपोऽथ सर्वज्ञो ज्ञानदृग्वेदपारगः ॥६३८॥
शर्वः सुरेशो ज्येष्ठश्च भूतपालो बलिःप्रियः ।
ईशानानुमता देवाश्चेष्टन्ते सुरपूजिताः ॥६३९॥
विचरन्तिमहादेवा ईशशक्त्यात्वधिष्ठिताः ।
वृषोवृषधरोऽनन्तः क्रोधनो मारुताह्वयः ॥६४०॥
ग्रसनोडम्बरेशौ च फणीन्द्रो वज्रदंष्ट्रकः ।
विष्णोस्तुबलमाक्रम्य प्रभुशक्तिसमन्विताः ॥६४१॥
विचरन्तिमहादेवा अनन्तेन सुपूजिताः ।
शंभुर्विभुर्गणाध्यक्षस्त्र्यक्षश्च त्रिदशेश्वरः ॥६४२॥
संवाहश्चविवाहश्च नलोलिप्सुस्त्रिलोचनः ।
ब्रह्मणोबलमाक्रम्य प्रभुशक्तिसमन्विताः ॥६४३॥
विचरन्तिमहादेवा ब्रह्मणैव सुपूजिताः ।
एकैकस्य सहस्रं तु परिवारोऽभिधीयते ॥६४४॥
शतरुद्रा इति ख्याता ब्रह्माण्डंव्याप्यसंस्थिताः ।
असंख्याताः सहस्राणि ये च ऊर्ध्वादिदिग्गताः ॥६४५॥
स्वच्छन्दाविश्वगा देवाः कल्पमन्वन्तरेष्वपि ।
पूर्वादिदशदिग्रुद्राः स्थिता दश दशैव तु ॥६४६॥
एकैकमधिपंचैव कथयामि वरानने ।
स्थितो वै पूर्वतोऽण्डस्य श्वेतो वै नाम नामतः ॥६४७॥
रुद्राणां तु शतैर्युक्तो महावीर्यपराक्रमः ।
दीप्तिमद्भिर्महातीव्रैर्मयूखैरिव भास्करः ॥६४८॥
आग्नेय्यामग्निसंकाशो वैद्युतो नाम विश्रुतः ।
सोऽपि विद्युत्प्रभैरुद्र शतैस्तु परिवारितः ॥६४९॥
याम्येऽण्डस्य महाकालो युगान्तानलसंनिभः ।
शतरुद्रैर्वृतो देवि तिष्ठत्यमितविक्रमैः ॥६५०॥
नैरृतो विकटोनाम शतेनपरिवारितः ।
संतिष्ठते महातेजा द्वितीय इव भास्करः ॥६५१॥
पश्चिमेऽण्डस्य यो रुद्रो महावीर्य इति श्रुतः ।
शतरुद्रैर्वृतः सोऽपि तिष्ठत्यमितविक्रमः ॥६५२॥
वायव्यदिशिचाण्डस्य वायुवेगो महाबलः ।
शतेन च वृतः श्रीमांस्तिष्ठत्यत्र महाबलः ॥६५३॥
सुभद्रनामोत्तरतः शतेनपरिवारितः ।
महावीर्यबलोपेतस्तिष्ठत्यत्र महाबलः ॥६५४॥
परिविष्टो मरीचीभिस्तत्रतिष्ठति वीर्यवान् ।
विद्याधरो नाम रुद्र ऐशान्यां वै प्रतिष्ठितः ॥६५५॥
शतरुद्रैर्वृतः सोऽपि परिविष्ट इवोडुराठ् ।
महावीर्यबलोपेतस्तिष्ठतेऽनन्तविक्रमः ॥६५६॥
अधः कालाग्निरुद्रोऽन्यः स्थितस्त्वत्र द्वितीयकः ।
समावृतो रुद्रशतैः स्थितैस्त्वत्र वरानने ॥६५७॥
शतैः समावृतो रुद्र मयूखैरिव भास्करः ।
वीरभद्रो वृतोरुद्रैरुपर्यण्डस्य संस्थितः ॥६५८॥
एकादशो महाकायै रुद्रक्रोधसमुद्भवैः ।
एवंतेऽत्रमहात्मान एकैकं तु शतेन च ॥६५९॥
दशैते वेष्टितादेवि शतरुद्रैश्च सुव्रते ।
एषामपरिसंख्येयः परिवारो महात्मनां ॥६०॥
आवृत्याण्डं स्थिताह्येते मधु यद्वन्मधुव्रताः ।
कदम्बकुसुमंयद्वत्केसरैः परिवारितं ॥६१॥
परिवारितं तथाह्यण्डं रुद्रैरमितविक्रमैः ।
गृहैः सतोरणाट्टालैर्नानारत्नविचित्रितैः ॥६६२॥
जाम्बूनदमयैश्चित्रैः समन्तात्समलंकृतं ।
दिव्यनारीभिराकीर्णं सर्वकामसमन्वितं ॥६३॥
ब्रह्माण्डमेतदाख्यातं पाशजालावतारितं ।
जन्मव्याधिजरामृत्यु- महोदधिपरिप्लुतं ॥६४॥
गुणत्रयमलच्छन्नं नानाजातिसमाकुलं ।
पशुज्ञानपरिक्रान्तं गतित्रयसमाकुलं ॥६५॥
अनित्या एव गतयः सर्वेषामेव वादिनां ।
परापरविभागं तु नैवजानन्ति मोहिताः ॥६६६॥
हेमाण्डं तु पुरासृष्टं क्षयात्म भुवनाकृति ।
ईशमायासमाविष्टस्य्- आत्मवर्गस्य भूतये ॥६६७॥
अथोपरिष्टात्तत्त्वानि उदकादिशिवान्तकं ।
उत्तरोत्तरयोगेन दशधा संस्थितानि तु ॥६६८॥
अहंकारः तदूर्ध्वं तु बुद्धिस्तु शतधास्थिता ।
ऊर्ध्वं सहस्रधा ज्ञेयं प्रधानं वरवर्णिनि ॥६६९॥
पौरुषं दशसाहस्रं नियतिर्लक्षधा स्मृता ।
तदूर्ध्वं दशलक्षाणि कला यावत्तु सुव्रते ॥६७०॥
माया तु कोटिधाव्याप्य स्थिता सर्वं चराचरं ।
दशकोटिगुणा विद्या मायांव्याप्य व्यवस्थिता ॥६७१॥
शतकोटिगुणेनैव व्याप्तासावीश्वरेण तु ।
सादाख्यं कोटिसाहस्रं बिन्दुनादं तदूर्ध्वतः ॥६७२॥
योजनानां तु वृन्दं वै शक्तिर्व्याप्य व्यवस्थिता ।
व्यापिनी सर्वमध्वानं व्याप्यदेवि व्यवस्थिता ॥६७३॥
अप्रमेयं ततो ज्ञेयं शिवतत्त्वं वरानने ।
भुवनानि प्रवक्ष्यामि अप्तत्त्वादावनुक्रमाथ् ॥६७४॥
आकारं विभवं चैव भुवनानेकविस्तरं ।
यन्न दृष्टं पशुज्ञानैः कुपथभ्रान्तदृष्टिभिः ॥६७५॥
यन्न सांख्यैर्न योगैर्वा न चैव पाञ्चरात्रिकैः ।
स्वभाववादिभिर्नापि न च कर्मप्रवादिभिः ॥६७६॥
नापि संशयवादैश्च नग्नक्षपणकादिभिः ।
न भूतवादिभिश्चैव नापि स्याल्लोकिकैरपि ॥६७७॥
न चात्मचिन्तकैर्वापि न च तर्कप्रवादिभिः ।
न च वैशेषिकैर्वा.अपि षट्पदार्थपरायणैः ॥६७८॥
न चापि न्यायवादैश्च हेतुदृष्टान्तवादिभिः ।
नाप्येकजन्मवादैश्च नचाप्येकत्ववादिभिः ॥६७९॥
न धूर्तवादैर्लोकैर्वा सुपरिज्ञातमैश्वरं ।
इत्येवंवादिनां तेषां वादानां तु शतत्रयं ॥८०॥
त्रिषष्टिरधिकाश्चान्ये वादिनां भ्रान्तचेतसां ।
अज्ञानतिमिराधानां उन्मीलनकृदुत्तमं ॥८१॥
संसारपङ्कमग्नानां नौरिवोत्तारणं परं ।
महामोहतमोऽन्धानां तमोनुदमिदं परं ॥८२॥
परमेशमुखोद्भूतं यन्मया प्राप्तमद्भुतं ।
ज्ञानामृतमिदं दिव्यं ननभुवनविस्तरं ॥८३॥
शृणुष्वैकमना देवि विचित्राकारमद्भुतं ।
अनन्तो भुवनव्रातस्त्वव्युच्छेदाद्व्यवस्थितः ॥६८४॥
मधुकोशजालकवत्तथा भूरिचयावृतिः ।
मीनशंखकुलायाभं दाषिमीबीजवत्स्थितं ॥८५॥
कदम्बकेसरनिभं पुराणां तु समूहकं ।
महासेनावासकवद्वने तरुसमूहवथ् ॥६८६॥
निरन्तरमनन्तानि भुवनानि वरानने ।
नानाकाराणि चित्राणि सर्वरत्नमयानि च ॥६८७॥
परिमण्डलानि दीर्घाण्यर्धचन्द्राकृतीनि च ।
पुरुषाकृतीनि चान्यानि नन्द्यावर्ताकृतीनि च ॥६८८॥
पर्वताकृतिरूपाणि गजयुथाकृतीनि च ।
शरावाकृतीनि चान्यानि ज्वालारूपाकृतीनि च ॥६८९॥
महाविमानरूपाणि त्रिशूलाकृतिमन्ति च ।
मुरजाकृतीनि चान्यानि त्र्यश्राकृतिपुराणि च ॥६९०॥
महापुरुषरूपाणि शतशृङ्गाकृतीनि च ।
सहस्रशृङ्गावर्तानि तथान्यानि वरानने ॥६९१॥
कोटिशृङ्गाणि चान्यानि असंख्यशिखराणि च ।
वृत्तानि चतुरश्राणि त्रिकोणान्यपराणि च ॥६९२॥
दिव्यचित्रपताकानि दिव्यघण्टाध्वजानि च ।
भेरिनादस्वराढ्यानि दिव्यगीतध्वनीनि च ॥६९३॥
दिव्यदुन्दुभिनादानि महावेणुस्वनानि च ।
नानावादित्रघोषाणि भुवनानि च सर्वदा ॥६९४॥
शुक्लानि स्फटिकाभानि पद्मरागाकृतीनि च ।
चन्द्रकान्तसवर्णानि मुक्तादामनिभानि च ॥६९५॥
लाक्षारससवर्णानि कानिचिद्वरवर्णिनि ।
इन्द्रगोपकवर्णानि इन्द्रनीलनिभानि च ॥६९६॥
नीलोत्पलसवर्णानि विद्युत्पुञ्जनिभानि च ।
बालादित्यसवर्णानि पद्मगर्भनिभानि च ॥६९७॥
चन्द्रप्रभानि चान्यानि चन्द्रकोटिनिभानि च ।
मध्याह्नार्कसवर्णानि सूर्यकोटिनिभानि च ॥६९८॥
अशोकस्तवकाभानि हरितालनिभानि च ।
शक्रचापसवर्णानि गोक्षीरधवलानि च ॥६९९॥
सिन्दूरकुङ्कुमाभानि गोरोचननिभानि च ।
तप्तहेमसवर्णानि निर्धूमाग्निनिभानि च ॥७००॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2012-06-16T04:43:10.1230000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

material injury

  • स्त्री. महत्त्वपूर्ण क्षति 
RANDOM WORD

Did you know?

पंचप्राणांना भोजनापूर्वी आहुती का द्यावी ?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.