TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

स्वच्छन्दभैरवतन्त्र - एकादशः पटलः

स्वच्छन्दभैरवतन्त्र हे एक असे तंत्र आहे, ज्यापासून प्रत्यक्ष भैरव मदतीला उभे राहतात.


एकादशः पटलः
श्रीदेव्युवाच
अध्वायं तु मया ज्ञातस्त्वत्प्रसादात्सुराधिप ।
जगत्सृष्टिस्त्वया देव सूचिता न तु वर्णिता ॥१॥
अध्वसृष्टिं महादेव कथयस्व प्रसादतः ।

श्रीभैरव उवाच
योऽसौ सूक्ष्मः परो देवः कारणं सर्वगः शिवः ॥२॥
निमित्तकारणं सोऽत्र कथितस्तव सुव्रते ।
अकामात्संसृजेत्सर्वं जगत्स्थावरजङ्गमं ॥३॥
स्वतेजसा वरारोहे व्योम संक्षोभ्य लीलया ।
उपादानं तु तत्प्रोक्तं संक्षुब्धं समवायतः ॥४॥
तस्माच्छून्यं समुत्पन्नं शून्यात्स्पर्शसमुद्भवः ।
तस्मान्नादः समुत्पन्नः पूर्वं वै कथितस्तव ॥५॥
अष्टधा स तु देवेशि व्यक्तः शब्दप्रभेदतः ।
घोषो रावः स्वनः शब्दः स्फोटाख्यो ध्वनिरेव च ॥६॥
झाङ्कारो ध्वङ्कृतश्चैव अष्टौ शब्दाः प्रकीर्तिताः ।
नवमस्तु महाशब्दः सर्वेषां व्यापकः स्मृतः ॥७॥
नदत्यसौ सदा यस्मात्सर्वभूतेष्ववस्थितः ।
तस्मात्सदाशिवो देवो व्यक्तो वै दृक्क्रियात्मकः ॥८॥
नादाद्बिन्दुः समुत्पन्नः सूर्यकोटिसमप्रभः ।
स चैव दशधा ज्ञेयो दशतत्त्वफलप्रदः ॥९॥
दशधा वर्णरूपेण दशदैवतसंयुतः ।
बिन्दोः सदाशिवो ज्ञेयः सोऽष्टभेदाङ्गसंयुतः ॥१०॥
पञ्चब्रह्मकलाभिश्च विद्याङ्गैः शक्तिभिर्युतः ।
पञ्चभिश्च महाज्ञानैर्मूर्तिभिश्च समन्वितः ॥११॥
स एवापररूपेण परमात्मा शिवोऽव्ययः ।
द्विधावस्थः स च ज्ञेयः सोच्चारोच्चारवर्जितः ॥१२॥
मुद्रामन्त्रस्वरूपेण स एव च पुनर्द्विधा ।
क्रियाज्ञानस्वरूपेण इच्छारूपस्वरूपतः ॥१३॥
शब्दावबोधरूपेण वस्तुरूपस्वरूपतः ।
स्थूलः सूक्ष्मः परश्चैव परातीतो निरञ्जनः ॥१४॥
व्योमरूपस्वरूपेण समनोन्मन एव च ।
उन्मनातीतो देवेशि शिवो ज्ञेयः शिवागमे ॥१५॥
उन्मनासमनास्थानं शिवेन समधिष्ठितं ।
पञ्चकारणरूपेण तदधः पुनरेव सः ॥१६॥
कारणं पञ्चकं देवि अधिष्ठाय त्वधस्ततः ।
व्यापकः शक्तिमूर्धस्थो बिलद्वारमनाश्रितः ॥१७॥
अनन्तश्च सुषुम्नेशस्त्वनाथश्चोर्ध्वगस्तथा ।
व्योमरूपी महादेवि बिन्द्वीशः परिकीर्तितः ॥१८॥
अनाश्रितः स्वयं ब्रह्मा समधिष्ठाय संस्थितः ।
अनाथो विष्णुरित्युक्तस्त्वनन्तो रुद्र एव च ॥१९॥
व्योमरूपीश्वरः प्रोक्तो व्यापी चैव सदाशिवः ।
व्यापकश्च पुनर्देवि हाटकः परमेश्वरः ॥२०॥
विद्यामन्त्रगणैर्युक्तः सप्तपातालनायकः ।
अनन्तश्चैव देवेशि रुद्रः कालाग्निविग्रहः ॥२१॥
अनाथोऽनन्तरूपेण स्थितश्चाध्वनि धारकः ।
अनाश्रितो महादेवि स्थितो वै हूहुकः प्रभुः ॥२२॥
स्वशक्त्याश्रितः स भवांस्तेन गीतस्त्वनाश्रितः ।
तस्याश्रितं जगत्सर्वं उन्मन्यन्तं वरानने ॥२३॥
संस्थितश्चाम्भसो मूर्ध्नि शक्त्याधारस्तु हूहुकः ।
अप्तत्त्वं चैव तदध आग्नेयं तदनन्तरं ॥२४॥
वायव्यं नाभसं चैव तन्मात्राणीन्द्रियाणि च ।
विषयाश्च मनश्चैव अहंकारस्त्वनुक्रमाथ् ॥२५॥
बौद्धं गौणं च देवेशि प्राकृतं पौरुषं तथा ।
नियतिः कालरागौ च विद्या चैव कला तथा ॥२६॥
मायातत्त्वं तथा विद्या ईश्वरश्च सदाशिवः ।
बिन्द्वर्धेन्दुनिरोधी च नादो नाडी त्वतः परं ॥२७॥
अधो ब्रह्मबिलं देवि शक्तितत्त्वं ततः परं ।
पञ्चकारणसंयुक्ता व्यापिनी च ततः परं ॥२८॥
समना उन्मना चैव प्रक्रियाण्डैर्युता प्रिये ।
एवं वै प्रक्रियाण्डं तु अधोर्ध्वं संव्यवस्थितं ॥२९॥
एवंविधान्यधोऽधो वै ऊर्ध्वोर्ध्वं च समन्ततः ।
यथा आत्माणवो देवि असंख्याता व्यवस्थिताः ॥३०॥
एवं वै प्रक्रियाण्डानि त्वसंख्येयान्यनेकशः ।
एकेन वर्णितेनेह सर्वोऽध्वा वर्णितः प्रिये ॥३१॥
यथा ह्येकं तथा सर्वं प्रक्रियाण्डं स्थितं प्रिये ।
सर्वेषां प्रक्रियाण्डानां स्वस्वरूपेण सुव्रते ॥३२॥
व्यापकस्तु शिवः सूक्ष्मः सबाह्याभ्यन्तरं स्थितः ।
सर्वातिशयनिर्मुक्तः सर्वकारणवर्जितः ॥३३॥
सृष्टिसंहारनिर्मुक्तः प्रपञ्चातीतगोचरः ।
निर्मलो विमलः शान्तस्त्वध ऊर्ध्वं व्यवस्थितः ॥३४॥
आकाशस्य यथा नोर्ध्वं न मध्यं नाप्यधः क्वचिथ् ।
एवं सर्वगतो देवः शिवः परमकारणं ॥३५॥
व्याप्य देवि जगत्सर्वं व्योमसु व्योमवत्स्थितः ।
एवं ज्ञात्वा वरारोहे न भूयो जन्मभाग्भवेथ् ॥३६॥
कारणानां पुनर्व्याप्तिं कथयामि समासतः ।
तत्त्वे तु पार्थिवे ब्रह्मा अधिष्ठाता व्यवस्थितः ॥३७॥
अप्तत्त्वे तु स्थितो विष्णू रुद्रस्तेजसि संस्थितः ।
ईश्वरो वायुतत्त्वे तु आकाशे तु सदाशिवः ॥३८॥
आदित्यश्च स्मृतो ब्रह्मा सोमो विष्णुश्च सुव्रते ।
ग्रहाणामधिपो रुद्रो नक्षत्राणां तथेश्वरः ॥३९॥
यजमानस्तु देवेशि स्वयं देवः सदाशिवः ।
सद्योजातस्तु वै ब्रह्मा वामो विष्णुः प्रकीर्तितः ॥४०॥
अघोरो रुद्र इत्युक्तस्तथा पुरुष ईश्वरः ।
ईशानस्तु वरारोहे स्वयं देवः सदाशिवः ॥४१॥
सद्योजातस्तु ऋग्वेदो वामदेवो यजुः स्मृतः ।
अघोरः सामवेदस्तु पुरुषोऽथर्व उच्यते ॥४२॥
ईशानश्च सुरश्रेष्ठः सर्वविद्यात्मकः स्मृतः ।
लौकिकं देवि विज्ञानं सद्योजाताद्विनिर्गतं॥ ४३॥
वैदिकं वामदेवात्तु आध्यात्मिकमघोरतः ।
पुरुषाच्चातिमार्गाख्यं निर्गतं तु वरानने ॥४४॥
मन्त्राख्यं तु महाज्ञानं ईशानात्तु विनिर्गतं ।
तथा तत्त्वविभागेन पुनश्च शृणु सुव्रते ॥४५॥
चतुर्विंशतितत्त्वानि ब्रह्मा व्याप्य व्यवस्थितः ।
प्रधानान्तं तु देवेशि पौरुषं तु जनार्दनः ॥४६॥
नियतेरथ मायान्तं रुद्रो व्याप्य व्यवस्थितः ।
विद्या तथैश्वरं तत्त्वं व्याप्तं चैवेश्वरेण तु ॥४७॥
ऊर्ध्वं सदाशिवो देवः सर्वं व्याप्य व्यवस्थितः ।
तत्त्वत्रयविभागेन पुनर्वक्ष्यामि सुव्रते ॥४८॥
आत्मतत्त्वे तु वै ब्रह्मा मायान्ते च व्यवस्थितः ।
विद्यातत्त्वे तथा विष्णुर्यावत्सादाख्यगोचरं॥ ४९॥
शिवतत्त्वे तथा रुद्रो विज्ञेयस्तु वरानने ।
सादाख्यमूर्ध्वमध्वानं सर्वं व्याप्य व्यवस्थितः ॥५०॥
रौद्र्या अधिष्ठितात्मा वै स रुद्रः परिकीर्तितः ।
व्याप्तश्च वामया विष्णुर्ज्येष्ठया च पितामहः ॥५१॥
ज्ञानशक्तिः स्मृतो ब्रह्मा क्रियाशक्तिर्जनार्दनः ।
इच्छाशक्तिः परो रुद्रः स शिवः परिगीयते ॥५२॥
विष्णुः सदाशिवो देवो ब्रह्मा चैवेश्वरस्तथा ।
सदाशिवः शिवाद्देवि उत्पन्नः प्रभुरीश्वरः ॥५३॥
तस्माद्विद्या ततो माया विद्यायाः पुनरीश्वरः ।
ज्ञानशक्तिकराग्रेण स्वेच्छया परमेश्वरः ॥५४॥
सप्त कोटीस्तु मन्त्राणां सृजेज्ज्ञानक्रियात्मिकाः ।
ते च सादाख्यपर्यन्ते पार्थिवाद्ये तु सुव्रते ॥५५॥
अनुग्रहं प्रकुर्वन्ति देहिनां भुवने स्थिताः ।
शिवशक्तिसमाविष्टास्त्रिनेत्राश्चन्द्रमौलयः ॥५६॥
रुद्रमूर्तिभिरेकोऽसौ शिवः परमकारणं ।
जगद्व्याप्य स्थितो मायी शूलपाणिरनेकधा ॥५७॥
ज्ञानशक्त्या पुनश्चैव समालोक्य वरानने ।
इच्छाशक्त्या समाविष्टः क्रियाशक्त्या तु सुव्रते ॥५८॥
मायातत्त्वं जगद्बीजं नित्यं विभुतयाव्ययं ।
तत्स्थं कृत्वात्मवर्गं तु युगपत्क्षोभयेत्प्रभुः ॥५९॥
हेलादण्डाहतायाश्च बदर्या वा फलानि तु ।
तिर्यगूर्ध्वमधस्ताच्च निर्गच्छन्ति समासतः ॥६०॥
मुक्तेस्तु भाजनं येऽत्र अनुध्याताः शिवेन तु ।
ऊर्ध्वं गच्छन्ति ते सर्वे शिवं परमनिर्मलं ॥१॥
विद्याया भाजनं तिर्यङ्- मन्त्ररूपा भवन्ति वै ।
संसारभाजनं ये तु मलकर्मकलान्विताः ॥६२॥
अधस्तात्ते व्रजन्त्यत्र घोरेऽध्वन्यतिदारुणे ।
तस्मात्कला समुत्पन्ना विद्या रागस्तथैव च ॥६३॥
कालो नियतितत्त्वं च पुंस्तत्त्वं प्रकृतिस्तथा ।
सत्त्वं रजस्तमश्चैव प्रकृतेस्तु गुणास्त्रयः ॥६४॥
सत्त्वं प्रकाशजनकं प्रवृत्तिजनकं रजः ।
तमोऽवष्टम्भकं प्रोक्तं विज्ञेयं तु गुणत्रयं ॥५॥
सत्त्वं ब्रह्मा रजो विष्णुस्तमो रुद्रः प्रकीर्तितः ।
ब्रह्मत्वे सृजते लोकान्विष्णुत्वे स्थितिकारकः ॥६६॥
रुद्रत्वे संहरेत्सर्वं जगदेतच्चराचरं ।
जाग्रत्स्वप्नसुषुप्तं च तिस्रोऽवस्थाश्च तद्गताः ॥६७॥
गुणेभ्यो धिषणा जाता भावभेदैः समन्विता ।
ब्रह्मा तत्राधिपत्येन बुद्धितत्त्वे व्यवस्थितः ॥६८॥
सर्वज्ञं च तमेवाहुर्बौद्धानां परमं पदं ।
गुणेष्वारहतानां च प्रधानं वेदवादिनां ॥९॥
पौरुषं चैव सांख्यानां सुखदुःखादिवर्जितं ।
षड्विंशकं च देवेशि योगशास्त्रे परं पदं ॥७०॥
व्रते पाशुपते प्रोक्तं ऐश्वरं परमं पदं ।
मौसुले कारुके चैव मायातत्त्वं प्रकीर्तितं ॥७१॥
क्षेमेशो ब्रह्मणः स्वामी तेषां तत्परमं पदं ।
तेजेशो वैमलानां च प्रमाणे च ध्रुवं पदं ॥७२॥
दीक्षाज्ञानविशुद्धात्मा देहान्तं याव चर्यया ।
कपालव्रतमास्थाय स्वं स्वं गच्छति तत्पदं ॥७३॥
जपभस्मक्रियानिष्ठास्ते व्रजन्त्यैश्वरं पदं ।
सर्वाध्वानो विनिष्क्रान्तं शैवानां तु परं पदं॥ ७४॥
बुद्धितत्त्वादहङ्कारः पुनर्जातस्त्रिधा प्रिये ।
सात्त्विको राजसश्चैव तामसश्च प्रकीर्तितः ॥७५॥
भूतादिर्वैकृतश्चैव तैजसश्च त्रिधा स्थितः ।
तन्मात्राण्यथ भूतादेस्तेभ्यो भूतान्यजीजनथ् ॥७६॥
शब्दः स्पर्शश्च रूपं च रसो गन्धश्च पञ्चमः ।
एतानि पञ्च ख्यातानि तन्मात्राणि क्रमेण तु ॥७७॥
शब्दाद्व्योम समुत्पन्नं स्पर्शद्वायुस्तथा पुनः ।
रूपात्तेजः समुत्पन्नं आपो जाता रसात्पुनः ॥७८॥
गन्धात्तु पृथिवी जाता समासात्कथितं तव ।
कर्मेन्द्रियाणि जातानि तस्माद्वैकारिकादथ ॥७९॥
वाक्पाणिपादं पायुश्च उपस्थश्चेति पञ्चमं ।
बुद्धीन्द्रियाणि पञ्चैव तैजसात्तु भवन्त्यथ ॥८०॥
श्रोत्रं त्वक्चक्षुषौ जिह्वा नासिका चैव पञ्चमी ।
उभयात्म मनः प्रोक्तं व्याप्तृ सर्वेन्द्रियाणि तु ॥८१॥
आत्मोपकारकाण्येव कथितानि यथार्थतः ।
आत्मा चैवान्तरात्मा च बाह्यात्मा चैव सुन्दरि ॥८२॥
निरात्मा परात्मात्मैतान्कथयामि समासतः ।
अबुधश्च बुधश्चैव बुध्यमानस्तथैव च ॥८३॥
प्रबुद्धः सुप्रबुद्धश्च पुनश्च कथयामि ते ।
प्रधानसाम्यमाश्रित्य सुखदुःखविवर्जितः ॥८४॥
यदा तस्मिन्स्थित्वा देवि तदात्मा तु स उच्यते ।
पुर्यष्टकसमायोगात्पर्यटेत्सर्वयोनिषु ॥८५॥
अन्तरात्मा स विज्ञेयो निबद्धस्तु शुभाशुभैः ।
बुद्धिकर्मेन्द्रियैर्युक्तो महाभूतैः समावृतैः ॥८६॥
बाह्यात्मा तु तदा देवि भुङ्क्तेऽसौ विषयान्सदा ।
भूतभावविनिर्मुक्तस्तत्त्वधर्मकलोज्झितः ॥८७॥
मलधर्मैकयुक्तात्मा मायाधर्मतिरस्कृतः ।
निरात्मा तु तदा ज्ञेयः परमात्माथ कथ्यते ॥८८॥
मलकर्मकलाद्यैस्तु निर्मुक्तश्च यदा प्रिये ।
सर्वाध्वसमतीतश्च मायामोहोज्झितश्च यः ॥८९॥
निर्मलत्वं यदा याति पदं परममव्ययं ।
परमात्मा तदा देवि प्रोच्यते प्रभुरव्ययः ॥९०॥
अबुधं च पुनर्देवि कथयामि समासतः ।
तत्त्वभूतात्मसंहारे कलाक्षित्यन्तगोचरे ॥९१॥
मायासाम्यनिशायां वै संहृत्य परमेश्वरः ।
निर्व्यापारो भवेत्तावद्यावद्वै नोदय पुनः ॥९२॥
सुखदुःखाद्यभावश्च ह्यात्मवर्गस्य कर्मणः ।
मलनिद्राविमूढात्मा रुद्धचैतन्यदृक्क्रियः ॥९३॥
न विजानाति शब्दादीनात्मानं च वरानने ।
कारणं न विजानाति न च स्थानं स्वकं प्रिये ॥९४॥
सर्वमेतन्न जानति यतो लुप्ताक्षदृक्क्रियः ।
अबुधस्तिष्ठते तत्र यावन्माया अहर्मुखं ॥९५॥
अबुधस्तु समाख्यातः बुधं चैव निबोध मे ।
परिपाकगते कर्मण्- ईश्वरेच्छाकरोद्धृते ॥९६॥
प्रकाशं नायनं यद्वदनुगृह्णाति भास्करः ।
करणान्यनुगृह्णाति तद्वदीश्वर आत्मनां ॥९७॥
कलोन्मीलितचैतन्यो विद्यादर्शितगोचरः ।
रागोऽस्य रञ्जकत्वेन विषयानन्दलक्षणः ॥९८॥
कालो वै कलयत्येनं तुट्यादिप्रलयावधिः ।
नियतिर्निश्चितं नित्यं योजयेच्च शुभाशुभे ॥९९॥
परमाणुसहस्रांशान्न च न्यूनं न चाधिकं ।
पुम्भावं तमनुप्राप्य तत्त्वे च पुरुषाह्वये ॥१००॥
पुरं प्रधानमित्युक्तं प्रपञ्चानेकसंकुलं ।
तत्पुरं पोषयेद्यस्मात्तस्माद्वै पुरुषः स्मृतः ॥१०१॥
यतः श्रीकण्ठनाथस्तु नियत्या कर्मतः पशुं ।
प्रधानपाशजालेव वेष्टयेदसमञ्जसं ॥१०२॥
बुद्धिस्त्रिगुणबन्धेन बुद्ध्वा वैकारिकेण तु ।
तन्मात्रेन्द्रियबन्धेन दृढं भूतैश्च वेष्टितः ॥१०३॥
बद्धः संचरति ह्येवं मायाद्यवनिगोचरे ।
संसारी प्रोच्यते तस्मात्संसरेद्यत्पुनः पुनः ॥१०४॥
शद्बादिविषया यस्माद्विद्यन्ते विषयी ततः ।
विषयाः परमित्याह नानाभेदैर्विसर्पिताः ॥१०५॥
नानाकर्मविपाकैश्च भुङ्क्ते तद्भावभावितः ।
एवं भुङ्क्ते तु वै यस्मात्तस्माद्भोक्ता स उच्यते ॥१०६॥
तस्मिंस्तज्ज्ञो वरारोहे क्षेत्रे वै कार्षको यथा ।
महाबिलाषमालोक्य कृषेद्वै लोभलाङ्गलैः ॥१०७॥
वपेच्च मोहभावेन मनोवाक्कायिकं सदा ।
धर्माधर्ममयं बीजं प्रविकीर्य समन्ततः ॥१०८॥
तस्माद्वै अङ्कुरोत्पत्तिः सुखदुःखफलोदया ।
वर्धते कामक्रोधेन सिक्ता रागाम्बुना भृशं ॥१०९॥
यस्मिन्देशे च काले च वयसा यादृशेन च ।
उप्तं शुभाशुभं कर्म तत्काले लभते फलं ॥११०॥
भुङ्क्ते तु विविधाकारं पूर्वकर्मवशाद्बुधः ।
यस्मादेवं विजानाति तस्मात्क्षेत्रज्ञ उच्यते ॥१११॥
विषयान्बुध्यते यस्माद्बुधस्तस्मात्प्रकीर्तितः ।
तदेवानिष्टरूपेण यदा भावयते पुमान् ॥११२॥
बुध्यमानस्तु स तदा अधुना कथयामि ते ।
यदा जुगुप्सते भोगान्शुभांश्चैवाशुभांस्तथा ॥११३॥
कृत्रिमानेव मन्येत परं वैराग्यमाश्रितः ।
मायाद्यवनिपर्यन्तं इन्द्रजालं तु बुध्यते ॥११४॥
पुत्रमित्रकलत्राणि सुहृत्स्वजनबान्धवाः ।
यदर्जितं मया द्रव्यं शुभेनाप्यशुभेन वा ॥११५॥
तद्भोक्ष्यन्ते त्विमे सर्वे निरातङ्का निराकुलाः ।
एकाकी चाहमेवैष यास्यामि यमसादनं ॥११६॥
तस्माच्च न शुभा ह्येते वैरिणोऽनर्थकारिणः ।
स्वामीयमप्ययं देहं नित्यमेव जुगुप्सते ॥११७॥
शुक्रशोणितसम्भूतं विषयोरगदूषितं ।
नानाव्याधिसमाकीर्णं जरामृत्युभयाकुलं ॥११८॥
सोऽहमस्मि मलाकीर्णे कथमत्र रमाम्यहं ।
नित्यमुद्विग्नचित्तस्तु चिन्तयेद्वै पुनः पुनः ॥११९॥
कथं मुक्तिर्भवेदस्मात्संसाराद्दुरतिक्रमाथ् ।
एवं प्रबुद्धो देवेशि तल्लयस्तत्परायणः ॥१२०॥
सर्वारम्भविनिर्मुक्तः प्रमुक्तः प्रोच्यते तदा ।
प्रबुद्धस्तु समाख्यातः सुप्रबुद्धं तु मे शृणु ॥१२१॥
दीक्षाज्ञानेन योगेन चर्ययाप्यथ सुव्रते ।
यदा प्राप्तः परं स्थानं अध्वातीतं निरामयं ॥१२२॥
विरजो विमलं शान्तं प्रपञ्चातीतगोचरं ।
निष्कम्पं कारणातीतं सर्वज्ञं सर्वतोमुखं ॥१२३॥
सुतृप्तानादिसम्बुद्धं स्वतन्त्रं नित्यमेव हि ।
अलुप्तशक्तिविभवं सुप्रबुद्धं सनातनं ॥१२४॥
तस्मिन्युक्तस्तदात्मा वै तद्गुणैस्तु समन्वितः ।
सुप्रबुद्धः स एवोक्तो भैरवस्य वचो यथा ॥१२५॥
न चाधिकारिता दीक्षां विना योगोऽस्ति शाङ्करे ।
अधुना कथयिष्यामि भावभेदान्वरानने ॥१२६॥
करणानि दश त्रीणि कार्यं च दशधा प्रिये ।
एकादशेन्द्रियवधा अहङ्कारस्तु वै त्रिधा ॥१२७॥
बुद्धिरष्टविधा चैव पञ्चधा तु विपर्ययः ।
नामान्येषां विभागेन कथयामि यथाक्रमं ॥१२८॥
पृथिव्यापस्तथा तेजो वायुराकाशमेव च ॥१२९॥
गन्धो रसश्च तन्मात्रे रूपतन्मात्रमेव च ।
स्पर्शः शब्दश्च पञ्चैव तन्मात्राणीरितानि तु ॥१३०॥
एतत्ते दशधा कार्यं कीर्तितं नामसंख्यया ।
वाक्पाणिपादं पायुं च उपस्थं च तथा विदुः ॥१३१॥
श्रोत्रं त्वक्चक्षुषी जिह्वा नासिका चेति कीर्तितं ।
बहिष्करणकं देवि दशधा संव्यवस्थितं ॥१३२॥
मनोहंकारबुद्ध्याख्यं त्रिधान्तःकरणं स्मृतं ।
मूकता कौण्यपङ्गुत्वं तथानुत्सर्गतापि च ॥१३३॥
निरानन्दश्च विज्ञेयो बधिरत्वं तथैव च ।
शीर्णता चैव गात्रस्य तथा चान्धत्वमेव च ॥१३४॥
अनास्वादस्त्वगन्धश्च अनवस्था मनस्यथ ।
इतीन्द्रियवधाः ख्याता एकादश तु तत्क्रमाथ् ॥१३५॥
तैजसो वैकृताख्यश्च भूतादिश्च तृतीयकः ।
अहङ्कारस्त्रिधा प्रोक्तो मया त वरवर्णिनि ॥१३६॥
धर्मो ज्ञानं च वैराग्यं ऐश्वर्यं च चतुर्थकं ।
अधर्मं च तथाज्ञानं अवैराग्यमनैश्वरं ॥१३७॥
अष्टावेते समाख्याता बुद्धेर्धर्मादयो गुणाः ।
तमो मोहो महामोहस्तामिस्रोऽन्यो विपर्ययः ॥१३८॥
अन्धतामिस्रमित्याहुरेवं पञ्च विपर्ययाः ।
भावभेदाः समाख्याताः पञ्चाशत्ते यथाक्रमं ॥१३९॥
पुनश्चाष्टौ तु ये बुद्धेर्भेदा धर्मादयः स्थिताः ।
तेषां भेदा यथा भिन्नास्तथाहं कथयामि ते ॥१४०॥
बध्नाति सप्तधा सा तु पुंसः संसारवर्त्मनि ।
मोचयेज्ज्ञानभावेन सांख्यज्ञानरतान्नरान् ॥१४१॥
ज्ञानं च सात्त्विकं प्रोक्तं त्रयोऽन्ये राजसाः स्मृताः ।
तामसाश्चाप्यधर्माद्याश्चत्वारो वै वरानने ॥१४२॥
धर्मश्च दशधा प्रोक्तो ज्ञानं चैवाष्टधा स्मृतं ।
वैराग्यं नवधा चैवं ऐश्वर्यं चाष्टधा विदुः ॥१४३॥
एत एव विपर्यस्ता अधर्माद्याः प्रकीर्तिताः ।
अक्रोधो गुरुशुश्रूषा शौचं सन्तोष आर्जवं ॥१४४॥
अहिंसा सत्यमस्तेयं ब्रह्मचर्यमकल्कता ।
एवं दशविधो धर्मः कथितस्तु वरानने ॥१४५॥
तारं सुतारं तरणं तारकं च प्रमोदकं ।
प्रमुदितं रम्यकं च सदाप्रमुदितं तथा ॥१४६॥
एतज्ज्ञानं समाख्यातं समासात्परमेश्वरि ।
अम्भा च सलिला ओधा वृष्टिसंज्ञा तथापरा ॥१४७॥
सुतारा च सुपारा च सुनेत्रा च परा स्मृता ।
अष्टमी च कुमारी स्यादुत्तमाम्भसिका तथा ॥१४८॥
वैराग्यं नवधा चैव कथितं तु मया तव ।
अणिमा लघिमा चैव महिमा प्राप्तिरेव च ॥१४९॥
प्राकाम्यं च तथेशित्वं वशित्वं च तथा परं ।
यत्रकामावसायित्वं अष्टमं परिकीर्तितं ॥१५०॥
ऐश्वर्यमष्टधा चैव कथितं तु वरानने ।
क्रोधश्चागुरुशुश्रूषा अशौचं च ततः परं ॥१५१॥
असन्तोषोऽनार्जवं च हिंसा चासत्यमेव च ।
स्तेयमब्रह्मचर्यं च तथा चैव सकल्कता ॥१५२॥
एवमेष समाख्यातो दशधाधर्मसंग्रहः ।
अतारमसुतारं च अतारणमथापि च ॥१५३॥
अतारकं च देवेशि चतुर्थं परिकीर्तितं ।
अप्रमोदोऽप्रमुदितं अरम्यकमथापि च ॥१५४॥
असदाप्रमुदितं तदज्ञानं चैवमष्टधा ।
अनम्भा असलिला च अनोघावृष्टिरेव च ॥१५५॥
असुतारमसुपारं असुनेत्रमतः परं ।
अकुमारी च विज्ञेयानुत्तमाम्भसिका तथा ॥१५६॥
अनणिमालघिमा चैवामहिमा महेश्वरि ।
अप्राप्तिरप्राकाम्यं चा- नीशित्वं च तथैव च ॥१५७॥
अवशित्वं तथा चैवा- यत्रकामावसायिता ।
अनैश्वर्यं च देवेशि अष्टधा परिकीर्तितं ।
अनैश्वर्यादिभिश्चैते पैशाचाद्या अधिष्ठिताः ॥१५८॥
यथा क्रमेण तेष्वष्टौ संस्थितान्कथयामि ते ।
अनैश्वर्यं हि पैशाचे अवैराग्यं च राक्षसे ॥१५९॥
याक्षे चैव तदज्ञानं गान्धर्वेऽधर्म एव च ।
धर्मं चैव तथैन्द्रे तु ज्ञानं स्ॐये प्रतिष्ठितं ॥१६०॥
प्राजापत्ये तु वैराग्यं ऐश्वर्यं ब्रह्मणि स्थितं ।
चतुष्षष्टिगुणं चैतत्पदे ब्राह्मे व्यवस्थितं ॥१६१॥
षट्पञ्चाशद्गुणं तच्च प्राजापत्ये व्यवस्थितं ।
अष्टचत्वारिंशद्गुणं स्ॐये वै परिकीर्तितं ॥१६२॥
चत्वारिंशद्गुणं चैव माहेन्द्रैश्वर्यमुच्यते ।
द्वात्रिंशद्गुणितं देवि गान्धर्वैश्वर्यमुच्यते ॥१६३॥
चतुर्विंशगुणं याक्षं षोडशं राक्षसं स्मृतं ।
ऐश्वर्यमष्टगुणितं पैशाचं परिकीर्तितं ॥१६४॥
एवं स्थितं तदैश्वर्यं देवयोनिषु सुव्रते ।
अन्ये सप्तस्वरूपेण संस्थिता देवयोनिषु ॥१६५॥
एत एव सुसंकीर्णा मानुषेषु व्यवस्थिताः ।
प्रधानगुणभावेन स्थावरान्तं व्यवस्थिताः ॥१६६॥
गुणत्रयस्य व्याप्तिं वै कथयामि यथास्थितां ।
सत्त्वेनाधिष्ठिता देवा ब्रह्माद्या मघवान्तकाः ॥१६७॥
गन्धर्वयक्षमनुजा दैत्याश्चैव तु राजसाः ।
यातुधानाः पिशाचाश्च तामसाः परिकीर्तिताः ॥१६८॥
रजःसत्त्वोत्कटा ज्ञेया ऋषयः संशितव्रताः ।
अन्योन्याभिभवास्ते च पृथिव्यां संव्यवस्थिताः ॥१६९॥
अत्यन्ततमसाविष्टाः स्थावराश्च सरीसृपाः ।
पादपादविहीनाश्च तामसाः परिकीर्तिताः ॥१७०॥
सरीसृपाद्या विज्ञेयाः स्थावरान्तास्तु सुव्रते ।
एषामन्तर्गताश्चान्या अनन्ता एव योनयः ॥१७१॥
मानुषेषु तथानन्ता भेदानन्त्यव्यवस्थया ।
न शक्या गदितुं ता वै कर्मानन्त्यप्रभेदतः ॥१७२॥
गुणास्तु मानुषे लोके धर्माद्या एव संस्थिताः ।
धर्माद्येषु निबद्धानि यानि ज्ञानानि सुव्रते ॥१७३॥
अधर्माद्येषु यानि स्युस्तानि ते कथयाम्यहं ।
हेतुशास्त्रं च यल्लोके नित्यानित्यविडम्बकं ॥१७४॥
वादजल्पवितण्डाभिः विवदन्ते ह्यनिश्चिताः ।
हेतुनिष्ठानि वाक्यानि वस्तुशून्यानि सुव्रते ॥१७५॥
ज्ञानयोगविहीनानि देवतारहितानि तु ।
धर्मार्थकाममोक्षेषु निश्चयो नैव जायते ॥१७६॥
अज्ञानेन निबद्धानि त्वधर्मेण निमित्ततः ।
निरयं ते प्रगच्छन्ति ये तत्राभिरता नराः ॥१७७॥
अवैराग्यादनैश्वर्यं भुञ्जते निरये सदा ।
चत्वारस्ते वरारोहे दुःखदा नरके सदा ॥१७८॥
मोहकाः सर्वजन्तूनां यतस्ते तामसाः स्मृताः ।
धर्मेणैकेन देवेशि बद्धं ज्ञानं हि लौकिकं ॥१७९॥
धर्मज्ञाननिबद्धं तु पाञ्चरात्रं च वैदिकं ।
बौद्धमारहतं चैव वैराग्येणैव सुव्रते ॥१८०॥
ज्ञानवैराग्यसम्बद्धं सांख्यज्ञानं हि पार्वति ।
ज्ञानं वैराग्यमैश्वर्यं योगज्ञानप्रतिष्ठितं ॥१८१॥
अतीतं बुद्धिभावानां अतिमार्गं प्रकीर्तितं ।
लोकातीतं तु तज्ज्ञानं अतिमार्गमिति स्मृतं ॥१८२॥
लोकाश्च पशवः प्रोक्ताः सृष्टिसंहारवर्त्मनि ।
तेषामतीतास्ते ज्ञेया येऽतिमार्गे व्यवस्थिताः ॥१८३॥
कपालव्रतिनो ये च तथा पाशुपताश्च ये ।
सृष्टिर्न विद्यते तेषां ईश्वरे च ध्रुवे स्थिताः ॥१८४॥
यस्मान्मोक्षं गमिष्यन्ति अपुनर्भवकारणं ।
लौकिकानां पुनः सृष्टिः पुनः संहार एव च ॥१८५॥
संसारचक्रमारूढा भ्रमन्ति घटयन्त्रवथ् ।
धर्माद्यरकसंयुक्तं अष्टारं चक्रकं प्रिये ॥१८६॥
ईश्वराधिष्ठितं देवि नित्यत्यादण्डकाहतं ।
मलकर्मकलाविद्धं भ्रमते कालवेगतः ॥१८७॥
लौकिकाद्येषु ज्ञानेषु ये तेष्वभिरताः प्रिये ।
हेतुशास्त्रपरा ये तु ये चान्ये पापकर्मिणः ॥१८८॥
ते सर्वे चास्य चक्रस्य नान्तं पश्यन्ति मोहिताः ।
लौकिकाद्येषु ये साध्या अतिमार्गान्तगोचरे ॥१८९॥
लीलया साधयेत्सर्वान्शिवज्ञाने महोदये ।
न सर्वैः साध्यते तद्वै यतोऽतीव सुनिर्मलं ॥१९०॥
यतो योजयते देवि अभावे परमे पदे ।
अभावं भावनातीतं प्रपञ्चातीतगोचरं ॥१९१॥
मनोबुद्ध्यादिनिर्मुक्तं हेतुवादविवर्जितं ।
प्रत्यक्षादिप्रमाणैश्च व्यतीतं प्रभु चाव्ययं ॥१९२॥
सर्वतर्कागमातीतं पाशमन्त्रविवर्जितं ।
सर्वज्ञं सर्वगं शान्तं निर्मलं निरुपप्लवं ॥१९३॥
सर्वशक्त्यात्मकं ह्येकं स्वतन्त्रानाथनादिमथ् ।
सर्वातिशयनिर्मुक्तं अनादिभववर्जितं ॥१९४॥
सर्वज्ञानपदातीतं शैवं ज्ञानं परं स्मृतं ।
एवं सृष्टानि तत्त्वानि ज्ञानानि च वरानने ॥१९५॥
तत्त्वैरेतैर्जगत्सर्वं विसृष्टं सचराचरं ।
भुवनानि विचित्राणि शतशोऽथ सहस्रशः ॥१९६॥
तत्त्वाभ्यन्तरसंस्थानि शास्त्राणि विविधानि च ।
विज्ञानं कुहकं शिल्पं सिद्धिसन्दोहलक्षणं ॥१९७॥
सर्वं तत्त्वेषु बोद्धव्यं सर्वतत्त्वेषु दृश्यते ।
प्रक्रिया शिवदीक्षा च तत्त्वैरेतैर्हि लभ्यते ॥१९८॥
नास्ति दीक्षासमो मोक्षो न विद्या मातृका परा ।
न प्रक्रियापरं ज्ञानं नास्ति योगस्त्वलक्षकः ॥१९९॥
तत्सर्वं कथितं देवि शिवज्ञानमहोदधौ ।
एवं सृष्टिः समाख्याता स्थितिः संहार उच्यते ॥२००॥
मानुषाक्षिनिमेषस्य अष्टमांशः क्षणः स्मृतः ।
क्षणद्वयं तुटिर्ज्ञेया तद्द्वयं तु लवः स्मृतः ॥२०१॥
लवद्वयं निमेषस्तु ज्ञातव्यो गणितक्रमाथ् ।
दश पञ्च निमेषाश्च काष्ठा चैव प्रकीर्तिता ॥२०२॥
त्रिंशत्काष्ठाः कला ज्ञेया मुहूर्तस्त्रिंशदेव ताः ।
मुहूर्तस्तु पुनस्त्रिंशदहोरात्रस्तु मानुषः ॥२०३॥
अहोरात्रशतैश्चैव त्रिभिः षष्ट्यधिकैः प्रिये ।
संवत्सरस्तु विज्ञेयो मानुषः कमलेक्षणे ॥२०४॥
संवत्सरशतं पूर्णं आयुर्ज्ञेयं तु मानुषं ।
दश पञ्च त्वहोरात्राः पक्षस्तु परिकीर्तितः ॥२०५॥
पक्षद्वयेन मासस्तु ऋतुर्द्विगुण एव सः ।
ऋतुद्वयेन कालः स्यादयनं च त्रिभिस्त्रिभिः ॥२०६॥
ताभ्यां द्व्याभ्यां वरारोहे वर्षं तु परिगीयते ।
दक्षिणं चायनं रात्रिरुत्तरं चायनं दिनं ॥२०७॥
पितॄणां तदहोरात्रं अनेनाब्दस्तु पूर्ववथ् ।
एवं दैवस्त्वहोरात्रस्तत्राप्यब्दादि पूर्ववथ् ॥२०८॥
द्वादशाब्दसहस्राणि विज्ञेयं तु चतुर्युगं ।
चतुर्भिस्तु कृतं देवि सहस्रैस्तु यथाक्रमं ॥२०९॥
त्रेता ज्ञेया त्रिभिर्देवि द्वाभ्यां वै द्वापरः स्मृतः ।
सहस्रेणैव वर्षाणां विज्ञेयस्तु कलिः प्रिये ॥२१०॥
सन्ध्याद्वयस्य मानं तु कथयामि युगे युगे ।
शतानि चत्वारि कृते त्वादिरन्तश्च कीर्त्यते ॥२११॥
त्रेते शतत्रयं ज्ञेयं द्वापरे तु शतद्वयं ।
कलौ चापि शतं ज्ञेयं सन्ध्यामानमिदं स्मृतं ॥२१२॥
लौकिकेन तु मानेन पुनश्च कथयामि ते ।
त्रिचत्वारिंशल्लक्षाणि सहस्राणि च विंशतिः ॥२१३॥
लौकिकेन तु मानेन त्वियं संख्या चतुर्युगे ।
एकैकस्य पुनर्देवि युगस्य कथयामि ते ॥२१४॥
दश सप्त च लक्षाणि सहस्राण्यष्टविंशतिः ।
कृतस्यैतद्भवेन्मानं त्रेतायां कथयामि ते ॥२१५॥
षण्णवतिः सहस्राणि लक्षाणि द्वादशैव तु ।
त्रेतायुगस्य मानं तु द्वापरस्य निबोध मे ॥२१६॥
चतुष्षष्टिः सहस्राणि ह्यष्टौ लक्षाणि सुव्रते ।
द्वापरस्य तु मानं च कलेस्तु कथयामि ते ॥२१७॥
द्वात्रिंशत्तु सहस्राणि लक्षाणां च चतुष्टयं ।
एतन्मानं कलेः प्रोक्तं समासात्तव सुव्रते ॥२१८॥
वर्षैस्तु मानवैर्देवि मानमेतद्युगे युगे ।
चतुर्युगैकसप्तत्या भवेन्मन्वन्तरं पुनः ॥२१९॥
सन्ध्यामानविहीनं तु युगैर्मानं प्रकीर्तितं ।
% युगैर्मानं] चोन्ज्. ढ्wइवेदि; युगैर्मलं KSठ्S
एतद्दिव्येन मानेन मानं मन्वन्तरे स्मृतं ॥२२०॥
वर्षमानैः पुनश्चैव लौकिकैः कथयामि ते ।
सप्तषष्टिस्तु लक्षाणि त्रिंशत्कोट्यो वरानने ॥२२१॥
सहस्रविंशतिर्ज्ञेयं मानं मन्वन्तरे प्रिये ।
चतुर्दशभिर्देवेशि कल्पो मन्वन्तरे भवेथ् ॥२२२॥
मन्वन्तरे व्यतिक्रान्ते चान्यस्मिन्पुनरागते ।
पञ्च वर्षसहस्राणि मध्ये सन्ध्या भवेत्सदा ॥२२३॥
आदौ सहस्रं सर्वेषां अन्ते चापि पुनस्तथा ।
कल्पो ब्रह्मदिनं प्रोक्तं चतुर्युगसहस्रकं ॥२२४॥
वर्षमानेन दिव्येन पुनश्च कथयामि ते ।
कोटिरेका तु वर्षाणां लक्षाणां चैव विंशतिः ॥२२५॥
दिव्येनैव तु मानेन ब्रह्मणस्तु दिनं भवेथ् ।
षण्णवत्या सहस्रैस्तु सन्ध्याकालः प्रकीर्तितः ॥२२६॥
लौकिकेन तु मानेन अधुना कथयामि ते ।
वर्षवृन्दानि चत्वारि त्वर्बुदत्रयमेव च ॥२२७॥
कोटिद्वयं च देवेशि दिनं पैतामहं स्मृतं ।
सन्ध्या कोटित्रयं चैव पञ्च लक्षाणि कीर्तिता ॥२२८॥
चत्वारिंशत्तथा षष्टिः सहस्राणि तथैव च ।
पश्चिमः सन्धिरेवं हि पूर्वसन्ध्यापि तत्समा ॥२२९॥
नरकैः सह सप्तानां पातालानां तथा प्रिये ।
लोकानां चैव सप्तानां स्थितिरेषा प्रकीर्तिता ॥२३०॥
संहारं च पुनर्देवि शृणुष्व कथयामि ते ।
ब्रह्मणः स्वदिनान्ते वै कल्पः संहार उच्यते ॥२३१॥
दिनेनैकेन ब्राह्मेण इन्द्राश्चैव चतुर्दश ।
राज्यं कृत्वा क्रमाद्यान्ति मन्वन्तरव्यवस्थया ॥२३२॥
ततः संहरते विश्वं सप्तलोकान्तगोचरं ।
सुप्ते पितामहे देवि ऊर्ध्वं कालाग्निरीक्षते ॥२३३॥
तस्य वै दक्षिणं वक्त्रं महाज्वालां विनिक्षिपेथ् ।
तस्माद्वक्त्रान्महाज्वाला लक्षयोजनविस्तृता ॥२३४॥
ऊर्ध्वं प्रयाति सा दीप्ता तीव्रवेगा सुदुःसहा ।
लोकेषु ये स्थिता लोका ये च पातालवासिनः ॥२३५॥
सुखदुःखोभये क्षीणे मोहं भूयिष्ठमागते ।
सत्तामात्रास्तु ते सर्वे भवन्ति ब्रह्मविष्टपे ॥२३६॥
यावन्नोदयनं भूयः सुखदुःखादिकर्मणां ।
तावत्तिष्ठन्ति ते मूढा यावद्ब्रह्मा न बुध्यते ॥२३७॥
रुद्रलोकाधिपतयः पातालपतयश्च ये ।
कूष्माण्डहाटकाद्यास्तु ते तिस्ठन्त्यतिनिर्मलाः ॥२३८॥
निर्व्यापारास्तु ते तावद्यावत्सृष्टिः पुनर्भवेथ् ।
शून्यभूतेषु लोकेषु ज्वाला दहति दुर्धरा ॥२३९॥
सा दहेन्नरकान्देवि पातालानि समन्ततः ।
त्रींल्लोकांश्चैव दहति भूर्भुवःस्वःपदान्तिकान् ॥२४०॥
धूमेन च त्रयो लोका विनश्यन्ति वरानने ।
महोजनस्तपःसंज्ञाः सत्यलोकोऽपि सुव्रते ॥२४१॥
तिष्ठन्ति मोहितात्मानो निद्रया ते मृतोपमाः ।
एवं दग्द्घा जगत्सर्वं ज्वाला वक्त्रं विशेत्पुनः ॥२४२॥
ततो वान्ति महावाता ब्रह्मनिःश्वाससम्भवाः ।
नाशयन्ति च तद्भस्म जगद्दाहोद्भवं प्रिये ॥२४३॥
ब्रह्मप्रस्वेदजं वारि तज्जगत्प्लावयेत्पुनः ।
तेनैव वारिणा देवि जगदेकार्णवं भवेथ् ॥२४४॥
निशाक्षये पुनः स्थित्वा सुखदुःखफलोदये ।
कर्मतः सर्वलोकस्य ब्रह्मा लोकपितामहः ॥२४५॥
शून्यभूतां समालोक्य भगवान्प्रभुरिच्छया ।
षड्विधां कुरुते सृष्टिं यथापूर्वव्यवस्थया ॥२४६॥
प्रथमां तामसीं सृष्टिं करोति तमसोत्कटान् ।
नरकान्विविधाकारान्पशून्वै स्थावरान्तगान् ॥२४७॥
तमोरजःसमावेशान्मानवान्संसृजेत्पुनः ।
रजःसत्त्वसमाविष्टः सृजेन्मुनिवरेश्वरं ॥२४८॥
गतनिद्रः प्रबुद्धश्च सत्त्वनिष्ठो जगत्पतिः ।
सृजेद्देवान्सलोकांश्च पूर्वयैव व्यवस्थया ॥२४९॥
ततो रुद्रेन्द्रसूर्येन्दु- नक्षत्राणि ग्रहेश्वराः ।
अधिकारं प्रकुर्वन्ति स्वे स्वे विषयगोचरे ॥२५०॥
दिने दिने सृजत्येवं संहरेच्च दिनक्षये ।
दिनमानं च यत्प्रोक्तं रात्रिसंख्या च तावती ॥२५१॥
अहोरात्रेण चानेन अब्दं वै पूर्ववत्स्मृतं ।
अब्दानां तु शते पूर्णे महाकल्पः स उच्यते ॥२५२॥
ब्राह्मे वर्षशते देवि दिव्यान्यब्दानि मे शृणु ।
एकनवतिकोटिस्तु तथा लक्षाणि विंशतिः ॥२५३॥
तथा सप्तैव खर्वाणि निखर्वाष्टकमेव च ।
ब्राह्मं वर्षशतं चैतज्ज्ञातव्यं कालवेदिना ॥२५४॥
दैविकेन तु मानेन मानमित्थं प्रकीर्तितं ।
लौकिकेन तु मानेन पुनश्चैव निबोध मे ॥२५५॥
द्वात्रिंशदब्दकोट्यस्तु तथा खर्वाष्टकं प्रिये ।
खर्वद्वयं च देवेशि निखर्वाः पञ्च एव तु ॥२५६॥
शङ्कुत्रयं पद्ममेकं सागरत्रयमेव च ।
Kषेमराज रेचोर्द्स्थत्भुल्लक रेअद्सः
...थाब्दकोट्यस्तु एकं चैवार्बुदं प्रिये ।
खर्वाशीतस्तथा चैव निखर्वाणां च पञ्चकं ।
चतुष्टयं च शङ्कूनां त्रिंशत्सागर एव च ।
एतद्देवि समाख्यातं ज्ञातव्यं च मुमुक्षुभिः ॥२५७॥
एतल्लौकिकमानेन ब्राह्ममब्दशतं स्मृतं ।
एकं दशगुणं पूर्वं शतं दशगुणं तु तथ् ॥२५८॥
शतं दशगुणं कृत्वा सहस्रं परिकीर्तितं ।
सहस्रं दशगुणितं अयुतं तद्धि कीर्तितं ॥२५९॥
दशायुतानि लक्षं तु नियुतं दशतानि च ।
दश तानि च कोटिः स्याद्दश कोटिस्तथार्बुदं ॥२६०॥
अर्बुदैर्दशभिर्वृन्दं खर्वं दशभिरेव तैः ।
दशभिस्तैर्निखर्वं तु शङ्कुः स्याद्दश तानि तु ॥२६१॥
शङ्कुभिर्दशभिः पद्मं दश पद्मानि सागरः ।
सागरैर्दशभिर्मध्यं अन्त्यं तैर्दशभिः स्मृतं ॥२६२॥
अन्त्यं दशाहतं कृत्वा परार्धं परिकीर्तितं ।
एवमष्टादशैतानि स्थानानि गणितस्य तु ॥२६३॥
महाकल्पस्य पर्यन्ते ब्रह्मा याति परे लयं ।
विष्णोश्च तद्दिनं प्रोक्तं रात्रिर्वै तत्समा भवेथ् ॥२६४॥
अनेन परिमाणेन तस्याब्दं तु विधीयते ।
वर्षाणां च शते पूर्णे सोऽपि याति परे लयं ॥२६५॥
विष्णोरायुर्यदेवोक्तं रुद्रस्यैतद्दिनं भवेथ् ।
दिने दिने सृजत्यन्यौ ब्रह्मविष्णू प्रजापती ॥२६६॥
ब्राह्मी च वैष्णवी शक्तिरधिकारपदं गता ।
यं चाधितिष्ठत्यात्मानं तत्संज्ञां स प्रपद्यते ॥२६७॥
तदाधिकारं कुरुते इच्छया परमात्मनः ।
ब्रह्मविष्ण्विन्द्ररुद्राश्च विद्येशा ईश्वरस्तथा ॥२६८॥
लोकाधिपाश्च देवेशि तथा च भुवनाधिपाः ।
ग्रहादिमातरो रुद्रा योगनक्षत्रराशयः ॥२६९॥
शक्तियुक्तास्तु ते सर्वे भवन्ति तदधिष्ठिताः ।
तत्पराक्रमवीर्यास्तु स्वकीये तु पदे स्थिताः ॥२७०॥
शिवस्यैका महाशक्तिः शिवश्चैको ह्यनादिमान् ।
सा शक्तिर्भिद्यते देवि भेदैरानन्त्यसम्भवैः ॥२७१॥
एवं वै कुरुते सृष्टिं रुद्रश्चैव दिने दिने ।
संहारं च दिनान्ते वै रात्रिर्वै तत्समा भवेथ् ॥२७२॥
दिनरात्रिप्रमाणेना- -नेन स्याद्वत्सरोऽस्य च ।
वत्सराणां शते पूर्णे शतरुद्रदिनक्षयाथ् ॥२७३॥
सोऽपि याति परं स्थानं यद्गत्वा निष्कलो भवेथ् ।
तस्मिन्स्थाने पुनश्चान्यस्तत्समश्च प्रभुर्भवेथ् ॥२७४॥
रौद्रशक्तिसमायोगाद्ब्रह्मविष्ण्विन्द्रनायकः ।
शतरुद्रास्तु देवेशि स्वाब्दानां तु शतक्षये ॥२७५॥
ते प्रयान्ति परं तत्त्वं ततोऽण्डं तु विनश्यति ।
सर्वभूतगुणाधारं सर्वतत्त्वालयालयं ॥२७६॥
सपर्वतवनोद्यान- द्वीपसागरमण्डितं ।
विमानमालाकुलितं ग्रहनक्षत्रमण्डितं ॥२७७॥
देवदानवगन्धर्व- सिद्धविद्याधरोरगैः ।
ऋषिभिर्मानुषाद्यैश्च सप्तलोकनिवासिभिः ॥२७८॥
नरकैश्चैव पातालैर्युक्तं भुवनमण्डितं ।
अशेषभुवनाधार- मण्डमप्सु प्रलीयते ॥२७९॥
ततः कालाग्निरुद्रश्च कालतत्त्वे लयं व्रजेथ् ।
अप्तत्त्वात्तु समारभ्य यावन्मायान्तगोचरं ॥२८०॥
तत्सर्वं संहरेत्कालः स्वयमेव चराचरं ।
तदूर्ध्वं शुद्धमध्वानं यावच्छक्त्यन्तगोचरं ॥२८१॥
तत्सर्वं संहरेद्घोरं अघोरो घोरनाशनः ।
त्रिष्वेवं संस्थितो रुद्रः कालरूपी महेश्वरः ॥२८२॥
ततः संहरते तोयं अमरेशशतात्यये ।
एवं भूताद्यावरण- पतयश्च शतात्यये ॥२८३॥
संहरन्ति च देवेशि सृजन्ति च परस्परं ।
एवं भूतपतीनां तु प्राप्ते वर्षशतात्यये ।
यातैस्तैर्निष्कलस्थानं ततो भूतानि शाङ्करि ।
संहरन्ति च देवेशि सृजन्ति च परस्परं ।
आपस्तेजसि लीयन्ते तत्तेजश्चानिले पुनः ॥२८४॥
तथानिलोऽम्बरं प्राप्य सह तेनैव लीयते ।
तन्मात्रेषु प्रलीयन्ते यथोत्पन्नानि च क्रमाथ् ॥२८५॥
तन्मात्राण्यप्यहङ्कारे सेन्द्रियाणि यथाक्रमं ।
स बुद्धौ सा च गहने गुणसाम्ये प्रलीयते ॥२८६॥
गुणसाम्यमनिर्देश्यं अप्रतर्क्यमनौपमं ।
तस्मिन्जगदशेषं तु प्रसुप्तमिव तिष्ठति ॥२८७॥
परमाणुप्रमाणेन लीनं संतिष्ठते जगथ् ।
षड्विंशकस्य रुद्रस्य चैतद्दिनमिह स्मृतं ॥२८८॥
प्रजाः प्रजानां पतयः पितरो मानवैः सह ।
साङ्ख्यज्ञानेन ये सिद्धाः वेदेन ब्रह्मवादिनः ॥२८९॥
छन्दः सामानि चोङ्कारो बुद्धिस्तद्देवताः प्रिये ।
अह्नि तिष्ठन्ति ते सर्वे परमेशस्य धीमतः ॥२९०॥
दिनान्ते तु प्रलीयन्ते रात्र्यन्ते विश्वसम्भवः ।
षट्त्रिंशत्तु सहस्राणि ब्रह्मणां प्रलयोद्भवाः ॥२९१॥
अव्यक्ते च दिनं प्रोक्तं रुद्राणां तन्निवासिनां ।
तस्मिन्संहरते सर्वं प्रधानस्य दिनक्षये ॥२९२॥
रात्र्यन्ते च सृजेद्भूयः श्रीकण्ठो विश्वनायकः ।
तस्याप्यनेन न्यायेन परिमाणस्थितिर्भवे ॥२९३॥
यस्मात्प्रलयकोट्यश्च व्यतीताश्च सहस्रशः ।
ततो नियतिकालौ च रागो विद्या कला तथा ॥२९४॥
परस्परं लयं यान्ति क्रमात्सर्वे स्वमानतः ।
कलाद्यवनिपर्यन्तं गहनेशदिनक्षये ॥२९५॥
नानाभुवनविन्यास- रचनादिविभूषितं ।
सगुणाधारपर्यन्त- रुद्रक्षेत्रज्ञसङ्कुलं ॥२९६॥
गहनेशे लयं याति मूलप्रकृतिकारणे ।
रात्र्यन्ते जायते भूयो गहनेशप्रचोदनाथ् ॥२९७॥
अहोरात्रस्त्वयं प्रोक्तः प्राकृतः परमेश्वरि ।
प्रलयश्च स एवोक्तो भूतानां परमेश्वरि ॥२९८॥
प्राधानिकपरार्धेन दशधागुणितेन तु ।
माया संहरते सर्वं पुनश्चैव सृजेज्जगथ् ॥२९९॥
मायाकालपरार्धस्य शतधागुणितस्य च ।
ईश्वरः कुरुते सृष्टिं पुनश्च संहरेज्जगथ् ॥३००॥
ततः सदाशिवो देवः स्वमानेन च संहरेथ् ।
सृजते च पुनर्भूय आत्मीये देव्यहर्मुखे ॥३०१॥
महाप्रलय एवोक्तः सादाख्ये तु दिनद्वये ।
बिन्दुतत्त्वे लयं याति पञ्चमन्त्रमहातनुः ॥३०२॥
बिन्दुं चैवार्धचन्द्रं तु भित्त्वा चैव निरोधिकां ।
नादतत्त्वे लयं याति गृहीत्वा सचराचरं ॥३०३॥
नादः सौषुम्नमार्गेण भित्त्वा ब्रह्मबिलं प्रिये ।
शक्तितत्त्वे लयं याति शक्तितत्त्वदिनक्षये ॥३०४॥
परार्धः स तु विज्ञेयः कालस्तु वरवर्णिनि ।
तच्च शिवतत्त्वस्थस्य व्यापीशस्याप्यहर्मुखं ॥३०५॥
ततश्च संसृजेद्भूयो व्यापी व्योमस्वरूपिणि ।
लीयते सोऽप्यनन्तेशे सोऽनाथे सोऽप्यनाश्रिते ॥३०६॥
शक्तिकालपरार्धस्य कोटिधागुणितस्य च ।
अनाश्रितस्य देवस्य दिनमेतत्प्रकीर्तितं ॥३०७॥
अनेन परिमाणेन परार्धगुणितेन तु ।
सोऽपि याति परं स्थानं कारणं स्वमनाश्रयं ॥३०८॥
स कालः साम्यसंज्ञश्च जन्ममृत्युभयापहः ।
ततोऽप्यूर्ध्वममेयस्तु कालः स्यात्परमावधिः ॥३०९॥
नित्यो नित्योदितो देवि अकल्यश्च न कल्यते ।
स चाधः कलयेत्सर्वं व्यापिन्यादिं धरावधिं ॥३१०॥
तुट्यादिभिः कलाभिश्च देव्यध्वानं चराचरं ।
ऊर्ध्वमुन्मनसो यच्च तत्र कालो न विद्यते ॥३११॥
न कल्यः कल्यते कश्चिन्निष्कलः कालवर्जितः ।
यः शाङ्कर्युन्मनातीतः स नित्यो व्यापकोऽव्ययः ॥३१२॥
तस्यादौ यादृशं रूपं कल्पान्ते चैव तादृशं ।
अरूपा रूपनिर्मुक्तः सोऽनादिर्भववर्जितः ॥३१३॥
सर्वज्ञः सर्वकर्ता च दानादिगुणवर्जितः ।
स एवापररूपेण उन्मन्या मूर्ध्नि संस्थितः ॥३१४॥
देवदेवो जगन्नाथः परमात्मा शिवोऽव्ययः ।
पर्यानुक्रमयोगेन सोऽकामात्सृजते जगथ् ॥३१५॥

देव्युवाच
अकामस्य क्रिया नास्ति निष्क्रियश्च सृजेत्कथं ।
एवं प्रश्नवरं गुह्यं कथयस्व प्रसादतः ॥३१६॥

भैरव उवाच
आदित्यस्य मणेर्यद्वत्तापिताद्रविरश्मिभिः ।
वह्निः संजायते तस्माद्रवेस्तत्र न कामिता ॥३१७॥
मणेरपि न कामित्वं तद्वद्देवस्य चेष्टितं ।
आदित्यवच्छिवो ज्ञेयः शक्तिर्मणिरिव स्थिता ॥३१८॥
ऋतुकालमिताद्वृक्षात्कालोऽङ्कुरनियोजकः ।
यद्वच्छिवसमायोगात्तद्वच्छक्तेर्जगत्स्थितिः ॥३१९॥

इति स्वच्छन्दतन्त्रे एकादशः पटलः समाप्तः

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2012-06-16T04:51:52.7630000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

चंचुबाग

  • वि. १ हुशार ; चतुर ; कर्तबगार ; शहाणा ; दक्ष . २ चपळ ; तल्लख ; चुणचुणीत . [ चंच ] 
RANDOM WORD

Did you know?

why treeepad veedhee ? narrate
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site