TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

स्वच्छन्दभैरवतन्त्र - दशमः पटलः २

स्वच्छन्दभैरवतन्त्र हे एक असे तंत्र आहे, ज्यापासून प्रत्यक्ष भैरव मदतीला उभे राहतात.


दशमः पटलः २
निर्गमैः सगवाक्षैश्च दिव्यवस्त्रविभूषितैः ।
तन्त्रीमुरजवाद्यैश्च गेयतूर्यरवाकुलैः ॥१०१॥
नानाभुवनपङ्क्त्योघैः सर्वरत्नसमुज्ज्वलैः ।
प्रासादैस्तुङ्गशिखरैश्चन्द्रातपसमप्रभैः ॥१०२॥
रथ्यामार्गवरारामैः सदापुष्पफलान्वितैः ।
कोकिलारावमधुरैः शिखिषट्पदसेवितैः ॥१०३॥
हंसकारण्डवाकीर्णैश्चक्रवाकोपशोभितैः ।
सारसारावसंघुष्ट- पद्मिनीषण्डमण्डितैः ॥१०४॥
तडागैः स्वच्छतोयाढ्यैर्दीर्घिकाभिर्युतानि तु ।
पुरुषैश्च महाकायैर्महाबलपराक्रमैः ॥१०५॥
सर्वैश्वर्यस्वरूपाढ्यैः सर्वलक्षणसंयुतैः ।
दिव्यवस्त्रैः सुताम्बूलैर्दिव्यगन्धानुलेपनैः ॥१०६॥
दिव्याभरणसंयुक्तैर्मुकुटै रत्नमण्डितैः ।
शिवाराधनसक्ता ये तत्प्रसादेन साधकाः ॥१०७॥
ते विशन्ति महादेवि पातालं सिद्धसेवितं ।
रसं रसायनं दिव्यं सिद्धद्रव्यं लभन्ति ते ॥१०८॥
क्रीडन्ति चान्ये सततं दिव्यानां योषितां गणैः ।
कामिनः कामरूपैस्तु मत्तमातङ्गगामिभिः ॥१०९॥
सर्वाभरणसंयुक्तैः कामशास्त्रसुपेशलैः ।
दिव्यवस्त्रपरीधानैः स्तनभारसमानतैः ॥११०॥
मध्यक्षामैः प्रसन्नास्यैस्तरलायतलोचनैः ।
सकिङ्किणीनितम्बैश्च हारकेयूरशोभितैः ॥१११॥
सुगन्धिगन्धलिप्ताङ्गैः काञ्चीमेखलमण्डितैः ।
एवं ते कथिता देवि पातालान्तरवासिनः ॥११२॥
त्रयोऽसुरास्तथा नागा राक्षसाश्च विभागतः ।
एकैकत्र च पाताले कथितास्ते वरानने ॥११३॥
पातालसप्तके ज्ञेयास्तथान्ये भुवनाधिपाः ।
बलोह्यतिबलश्चैव बलवान्बलविक्रमः ॥११४॥
सुबलो बलभद्रश्च बलाध्यक्षश्च कीर्तिताः ।
एतैः शुद्धैरिमे शुद्धाः सप्तपातालवासिनः ॥११५॥
यदूर्ध्वे चैव सौवर्णं पातालं परिकीर्तितं ।
तत्र वसत्यसौ देवो हाटकः परमेश्वरः ॥११६॥
पुरकोटिसहस्रैस्तु समन्तात्परिवारितः ।
सिद्धैरुद्रगणैर्दिव्यैर्भगिनीमातृभिर्वृतः ॥११७॥
योगिनीयोगकन्याभी रुद्रैश्चैव सकन्यकैः ।
सिद्धद्रव्यसमैर्मन्त्रैश्चिन्तामणिरसायनैः ॥११८॥
सिद्धविद्यासमृद्धं वै हाटकेशस्य मन्दिरं ।
हठत्प्रवेशयेल्लोकां स्तद्भावगतमानसान् ॥११९॥
तेनासौ हाटकः प्रोक्तो देवदेवो महेश्वरः ।
तस्योर्ध्वे तु सहस्राणि योजनानां तु विंशतिः ॥१२०॥
भूकटाहः समुद्दिष्टः समन्तात्तु वरानने ।
अतो भगवती पृथ्वी नानाजनपदाकुला ॥१२१॥
तस्या मध्ये महामेरुः सौवर्णश्च वरानने ।
तस्याचलस्य विस्तारं ऊर्ध्वाधः कथयामि ते ॥१२२॥
योजनानां सहस्राणि चतुरशीतिरुच्छ्रितः ।
षोडशैव सहस्राणि अधोभागे प्ररोपितः ॥१२३॥
तान्येव मूलविस्तारः द्विगुणो मूर्धविस्तरः ।
तस्योर्ध्वे तु सभा दिव्या नाम्ना चैव मनोवती ॥१२४॥
चतुर्दशसहस्राणि योजनानां प्रमाणतः ।
सर्वरत्नसुशोभाढ्या स्त्रीसहस्रसमन्विता ॥१२५॥
सर्वभोगगणोपेता ब्रह्मणस्तु महात्मनः ।
सिद्धविद्याधराकीर्णा ऋषिभिः परिवारिता ॥१२६॥
तस्या ईशानदिग्भागे ज्योतिष्कं शिखरं स्मृतं ।
सूर्यकोटिप्रतीकाशं गणप्रथमसेवितं ॥१२७॥
सर्वर्तुकुसुमोपेतं देवगन्धर्वसेवितं ।
स्त्रीसहस्रसमाकीर्णं सर्वैश्वर्यसमन्वितं ॥१२८॥
तत्रास्ते भगवान्देवस्त्र्यम्बकः परमेश्वरः ।
लोकपालैर्वृतोऽसौ हि ब्रह्मविष्ण्विन्द्रनायकः ॥१२९॥
ममांशं तं विजानीयाः सुरसिद्धनमस्कृतं ।
अधिकारं प्रकुरुते परेच्छासंप्रचोदितः ॥१३०॥
सभाया ब्रह्मणोऽधस्तात्सहस्राणि चतुर्दश ।
योजनानां परित्यज्य चक्रवाटः समन्ततः ॥१३१॥
स्वर्गाष्टकं समुद्दिष्टं तत्र तिष्टन्ति लोकपाः ।
पूर्वेणेन्द्रस्य विख्याता पुरी नाम्नामरावती ॥१३२॥
तेजोवती तथाग्नेय्यां चित्रभानोः प्रकीर्तिता ।
दक्षिणे यमराजस्य नाम्ना संयमनी पुरी ॥१३३॥
कृष्णाङ्गारा तु नैऋत्यां राक्षसेशस्य कीर्तिता ।
पश्चिमेन जलेशस्य नाम्ना शुद्धवती स्मृता ॥१३४॥
वायव्यां तु पुरी वायोर्नाम्ना गन्धवहा प्रिये ।
उत्तरेणापि सोमस्य पुरी नाम्ना महोदया ॥१३५॥
ऐशान्यामीशराजस्य पुरी नाम्ना यशोवती ।
एतासामुत्तरे देवि शृणु षड्विंशतिं पुरीः ॥१३६॥
दक्षिणेनामरावत्याः कामवत्यप्सरः पुरी ।
सौवर्णी सिद्धसङ्घानां तस्या वै दक्षिणेन तु ॥१३७॥
तस्या वै दक्षिणेनान्या पद्मरागोपशोभिता ।
आदित्यानां पुरीख्याता नाम्नाचांशुमती शुभा ॥१३८॥
साध्यानां राजती दिव्या ख्याता वै कुसुमावती ।
वह्नेः पश्चिमदिग्भागे विश्वेषां रेवती पुरी ॥१३९॥
तस्यास्तु पश्चिमे देवि दिव्या वै विश्वकर्मणः ।
पश्चिमे धर्मराजस्य मातृनन्दा पुरी स्मृता ॥१४०॥
क्रीडन्ति मातरस्तत्र मधुपानविघूर्णिताः ।
रुद्राणां पश्चिमे तस्या रोहिता नाम काञ्चनी ॥१४१॥
तत्र शूलधरा रुद्रा यमस्य परिचारकाः ।
तस्याः पश्चिमतो ज्ञेया नाम्ना गुणवती पुरी ॥१४२॥
एकादशानां रुद्राणां वज्रप्राकारतोरणा ।
निरृतेः पूर्वभागे तु पिङ्गला नाम वै पुरी ॥१४३॥
स्वकर्मसंज्ञा देवेशि पिशाचास्तत्र संस्थिताः ।
नैरृत्युत्तरसामीप्ये पुरी कृष्णावती स्मृता ॥१४४॥
निस्त्रिंशा नाम तत्रैव वसन्ति राक्षसाः सदा ।
तस्या अप्युत्तरे भागे पुरी हैमी सुखावती ॥१४५॥
मित्रो वसति तत्रैव बहुभृत्यजनावृतः ।
तस्या अप्युत्तरे हैमी गान्धर्वी नाम विशृता ॥१४६॥
वसन्ति तत्र गन्धर्वा दिव्यकन्यासमावृताः ।
दशकोटिसहस्राणि तेषां संख्या प्रकीर्तिता ॥१४७॥
भूतानां सिद्धसेना तु वरुणस्य तु दक्षिणे ।
हेमसंज्ञा वसूनां तु वरुणस्यापि चोत्तरे ॥१४८॥
तस्यास्तूत्तरतो देवि नाम्ना सिद्धवती पुरी ।
सर्वविद्याधराणां तु सा पुरी परिकीर्तिता ॥१४९॥
वायोर्दक्षिणतो देवि सिद्धा नाम्ना पुरी स्मृता ।
वसन्ति किन्नरास्तत्र पुरैर्हेमार्कसप्रभैः ॥१५०॥
वायोः पूर्वेण गान्धर्वी हैमी चित्ररथस्य तु ।
गन्धर्वराजमुख्यस्य दिव्यगन्धर्वनादिता ॥१५१॥
आस्ते भगवती साक्षात्सप्रस्वरविभूषिता ।
ग्रामत्रयपरीधाना जातिमेखलमण्डिता ॥१५२॥
मूर्च्छनातानचित्राङ्गी नानातालकलोदया ।
लक्षणव्यञ्जनोपेता मध्यमेनावगुण्ठिता ॥१५३॥
गन्धर्वैर्गीयमाना सा तत्र देवी सरस्वती ।
नारदाद्यैश्च ऋषिभिर्नागकिन्नरसेविता ॥१५४॥
तस्याःपूर्वेण चित्रा वै तुम्बुरुर्नारदस्य च ।
सोमस्य पश्चात्प्रमदा गुह्यकानां पुरी स्मृता ॥१५५॥
पूर्वेणैव तु सोमस्य नाम्ना चित्रवती पुरी ।
सर्वधातुमयी चित्रा कुबेरस्य महात्मनः ॥१५६॥
षड्विंशतिसहस्रैस्तु कोटीनां परिवारितः ।
यक्षाणामुत्तमः श्रीमानास्ते भोगैरनुत्तमैः ॥१५७॥
तस्या पूर्वे शुभा नाम्ना जाम्बूनदमयी पुरी ।
तत्र वै कर्मदेवास्तु देवत्वं कर्मणा गताः ॥१५८॥
पश्चिमेनेशराजस्य विष्णोर्वै श्रीमती पुरी ।
तत्रास्ते श्रीपतिः श्रीमानतसीपुष्पसन्निभः ॥१५९॥
शङ्खचक्रगदापाणिः पीतवासा जनार्दनः ।
ईशस्य दक्षिणेभागे नाम्ना पद्मवती पुरी ॥१६०॥
महापद्मोपविष्टस्य पद्ममालाधरस्य तु ।
पद्मपत्रायताक्षस्य ब्रह्मणः पद्मजन्मनः ॥१६१॥
तस्या दक्षिणतो देवि नाम्ना कामसुखावती ।
अश्विनौ तत्र देवेशि तथा धन्वन्तरिः स्थितः ॥१६२॥
उत्तरेत्वमरावत्या महामेघेति विश्रुता ।
विनायकानां सा दिव्या वसतिस्तत्र कल्पिता ॥१६३॥
दशकोटिसहस्राणि वीर्यवन्तः शुभास्तथा ।
विनायका महादीप्ता अग्निज्वलिततेजसः ॥१६४॥
असुराणां वधार्थाय अङ्गुष्ठान्निर्मिता मया ।
एवंविधैरधश्चोर्ध्वं मेरुः पुरवरैर्वृतः ॥१६५॥
पुर्यश्च याः समाख्याता मेरोश्चैव समन्ततः ।
पुरकोटिसहस्रैस्तु सर्वास्ताः संभृताः प्रिये ॥१६६॥
सर्वैश्वर्यसुसंपूर्णाः सर्वरत्नसमुज्ज्वलाः ।
दिव्यस्त्रीभिः समाकीर्णा दिव्यपुंभिः समाकुलाः ॥१६७॥
आनन्दः सततं देवि देवानां च पुरे पुरे ।
विमाननगरारामैश्चतुरोद्यानमण्डपैः ॥१६८॥
छत्रध्वजपताकाभिर्गजवाजिसमाकुलैः ।
द्वन्द्वभीनन्दिशब्दैश्च शङ्खकाहलनिःस्वनैः ॥१६९॥
गीतनृत्तैस्तथाकीर्णं देवानां मन्दिरं सदा ।
इष्टापूर्तरता देवि ये नरा पुण्यभारते ॥१७०॥
त्र्यम्बकं सकृदर्चन्ति मेरुं गच्छन्ति ते नराः ।
गङ्गातोयसुसंसिक्ताः क्रीडन्ति सुरसत्तमाः ॥१७१॥
कथं गङ्गासमुत्पन्ना सुरसिद्धनमस्कृता ।
कथयस्व प्रसादेन समासात्सुरसत्तम ॥१७२॥
गङ्गायाश्च समुत्पत्तिं कथयिष्यामि सुव्रते ।
जगन्माता महादेवि मम पत्नी पुरा हि सा ॥१७३॥
ममनेत्रोदकं चैव करजैश्छादिते मम ।
पुनरुद्घाटिते नेत्रे जगन्मातः पुरा त्वया ॥१७४॥
मन्नेत्रेभ्योऽस्रवत्तोयं त्वदीयाङ्गुलिभिः प्रिये ।
दशधा निःसृता गङ्गा कपालावरणे मम ॥१७५॥
सप्तैव संस्थितास्तत्र एका विष्णुपुरे स्थिता ।
द्वितीया ब्रह्मलोकोर्ध्वे तृतीया सत्यलोकगा ॥१७६॥
स्वर्गे चैवपुनः सा वै संस्थिता सोममण्डले ।
सोमाच्चैव विनिः सृत्य पुरकाशे व्यवस्थिता ॥१७७॥
ततोऽहं संस्तुतो देवि ब्रह्मविष्णुपुरःसरैः ।
गङ्गानदीं महापुण्यां मर्त्यानां हितकाम्यया ॥१७८॥
अवतार्य महादेव मर्त्यलोकं विसर्जय ।
ततो मया सुरेशानि प्रोक्ता सा त्वपराजिता ॥१७९॥
लोकानां तु हितार्थाय आगच्छ सुरसुन्दरि ।
आगत्य मम मूर्धानं मेरुमूर्ध्नि पुनर्गता ॥१८०॥
तस्मान्निर्गत्य देवेशि चतुर्दिक्षूदधिं गता ।
पूर्वे सीता समुद्दिष्टा सुवहा दक्षिणेन तु ॥१८१॥
सुनन्दा पश्चिमे भागे भद्रसोमा तथोत्तरे ।
मन्दरस्तु महादेवि गन्धमादनसंज्ञकः ॥१८२॥
विपुलश्च सुपार्श्वश्च पूर्वाद्या उत्तरान्तकाः ।
विष्कम्भाश्च समाख्याताः वर्णांश्चैव निबोध मे ॥१८३॥
सितं चैव हरिद्राभं नीलं दाडिमसप्रभं ।
प्राग्विष्कम्भसमीपे तु नाम्ना चित्ररथं वनं ॥१८४॥
तत्रारुणोदकं नाम तडागं पद्ममण्डितं ।
गन्धमादनसामीप्ये नन्दनं तु महावनं ॥१८५॥
तस्यमध्येऽम्बुजच्छन्नं मानसं तु सरोवरं ।
विपुलस्य समीपे तु वैभ्राजं तु महावनं ॥१८६॥
सितोदं तस्य मध्ये तु तडागं विमलोदकं ।
वनं पितृवनं नाम स्वपार्श्वस्य समीपतः ॥१८७॥
तस्यान्तस्तु महाभद्रं तडागं च मनोरमं ।
कल्पद्रुमांश्च चतुरः कथयामि निबोध तान् ॥१८८॥
मन्दरेऽथ कदम्बं स्यान्मस्तके तु व्यवस्थितं ।
सहस्रयोजनायामं शाखापञ्चशतोच्छ्रितं ॥१८९॥
पुष्पैः कुम्भप्रमाणैश्च भ्राजते तत्सुपुष्पितं ।
तत्प्रमाणा स्मृता जम्बूर्गन्धमादनमूर्धनि ॥१९०॥
तस्याः फलसमूहोत्थो रसो ज्ञेयोऽमृतोपमः ।
तेन जम्बूनदी जाता प्रिये वेगवती भृशं ॥१९१॥
मेरुं प्रदक्षिणीकृत्य जम्बूमूलं विशेत्स्वकं ।
तत्संपर्कात्समुत्पन्नं कनकं देवभूषणं ॥१९२॥
तेन जाम्बूनदं लोके ज्ञायते भूषणोत्तमं ।
तत्र वृक्षालतागुल्माः पक्षिणः श्वापदादयः ॥१९३॥
जाम्बूनदमयाः सर्वे ये चान्ये तत्रवासिनः ।
विपुलेऽपि तथाश्वत्थः केतुमाल इति श्रुतः ॥१९४॥
तस्येन्द्रेणासुराञ्जित्वा रत्नमाला प्रलम्बिता ।
तेनासौ केतुमालेति ख्यातः सिद्धनिषेवितः ॥१९५॥
न्यग्रोधश्च सुपार्श्वे तु तत्तुल्यः परिकीर्तितः ।
अनेकगुणसंपन्नो मेरुः ख्यातः समासतः ॥१९६॥
तत्पार्श्वस्थान्प्रिये देशान्काथयामि समासतः ।
मेरुमध्याच्चतुर्दिक्षु लक्षार्धं तु समासतः ॥१९७॥
लवणोदधिपर्यन्तं जम्बुद्वीपं समन्ततः ।
पर्वतान्तरितास्तत्र नव भागा भवन्ति हि ॥१९८॥
दक्षिणे चैव दिग्भागे त्रयो ज्ञेया महीधराः ।
निषधो हेमकूटश्च हिमवानिति ते त्रयः ॥१९९॥
उत्तरे चापि मेरुस्तु नीलः श्वेतोऽथ शृङ्गवान् ।
प्राक्पश्चिमायाता ह्येते षडेव तु महीधराः ॥२००॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2012-06-16T02:57:15.1400000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

बातचीत

  • ना. उहापोह , गप्पागोष्टी , चर्चा , बोलणी , वाटाघाटी , वार्तालाप , विचार - विनिमय , संभाषण . 
RANDOM WORD

Did you know?

जन्मानंतर पाचवी पूजनाचे महत्व काय?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site