TransLiteral Foundation

स्वच्छन्दभैरवतन्त्र - सप्तमः पटलः

स्वच्छन्दभैरवतन्त्र हे एक असे तंत्र आहे, ज्यापासून प्रत्यक्ष भैरव मदतीला उभे राहतात.


सप्तमः पटलः
क्रिया ज्ञाता मया देव त्वत्प्रसादान्महेश्वर ।
कालांशकं च देवेश कथयस्व प्रसारतः ॥१॥
कालो द्विधात्र विज्ञेयः सौरश्चाध्यात्मिकः प्रिये ।
सुवारकरणे लग्ने सुयोगे सुदिने प्रिये ॥२॥
तेजोऽपचयराशौ तु दक्षिणायनमुत्तरं ।
ग्रहणं चन्द्रसूर्याभ्यां कालश्च ऋतवस्तथा ॥३॥
पक्षो मासश्च वेला वि- षुवद्राश्यन्तरं तथा ।
पुण्यापुण्योदयो देवि सौर एष प्रकीर्तितः ॥४॥
आध्यात्मिकं पुनर्देवि कथयामि निबोध मे ।
षाट्कोशिकस्तु यो देहो भूततन्मात्रसंयुतः ॥५॥
स मनोबुद्ध्यहङ्कार- बुद्धिकर्मेन्द्रियैर्गुणैः ।
सर्वतत्त्वैस्तथा देवैः समधिष्ठितविग्रहः ॥६॥
तत्रात्मा प्रभुशक्तिश्च वायुर्वै नाडिभिश्चरन् ।
नाभ्यधोमेढ्रकन्दे च स्थिता वै नाभिमध्यतः ॥७॥
तस्माद्विनिर्गता नाड्यस्तिर्यगूर्ध्वमधः प्रिये ।
चक्रवत्संस्थितास्तत्र प्रधाना दश नाडयः ॥८॥
द्वासप्ततिसहस्राणि नाड्यस्ताभ्यो विनिर्गताः ।
पुनर्विनिर्गताश्चान्या आभ्योऽप्यन्याः पुनः पुनः ॥९॥
यावत्यो रोमकोट्यस्तु तावत्यो नाडयः स्मृताः ।
यथा पर्ण पलाशस्य व्याप्तं सर्वत्र तन्तुभिः ॥१०॥
शरीरं सर्वजन्तूनां तद्वद्व्याप्तं तु नाडिभिः ।
मारुतापूरिताः सर्वा आत्मशक्तिचराः सदा ॥११॥
पृथग्वृत्तिप्रभेदेन भिन्नाश्चारप्रभेदतः ।
चारवृत्तिप्रभेदेन संज्ञाभेदो वरानने ॥१२॥
नाडिनां चैव वायूनां भेदो ज्ञेयः सहस्रशः ।
प्रधाना दश याः प्रोक्ता नाडयश्च वरानने ॥१३॥
तासां मध्ये तु देवेशि वायवो ये व्यवस्थिताः ।
नाडीनां चैव वायूनां संज्ञावृत्तीर्निबोध मे ॥१४॥
इडा च पिङ्गला चैव सुषुम्ना च तृतीयका ।
गान्धारी हस्तिजिह्वा च पूषा चैव यशस्विनी ॥१५॥
अलम्बुसा कुहूश्चैव शंखिनी दशमी स्मृता ।
एताः प्राणवहाः प्रोक्ताः प्रधाना दश नाडयः ॥१६॥
प्राणोऽपानः समानश्च उदानो व्यान एव च ।
नागः कूर्मोऽथ कृकरो देवदत्तो धनञ्जयः ॥१७॥
वायवो नाडयश्चैव चक्रवत्संस्थिताः प्रिये ।
तासु संचरतः सिद्धिं योगं चैव वरानने ॥१८॥
जपतश्च वरारोहे जपसिद्धिमवाप्नुयाथ् ।
दशानां तु परं देवि नाडीत्रयमुदाहृतं ॥१९॥
बिन्दुनादात्मके द्वे वै मध्ये शक्त्यात्मिका स्मृता ।
हृच्चक्रे तु समाख्याताः साधकानां हितावहाः ॥२०॥
प्राणो वै चरते तासु अहोरात्रविभागतः ।
तथा ते कथयिष्यामि प्रविभज्य यथास्फुटं ॥२१॥
प्रभुशक्तिसमाकृष्टा मरुत्प्राणात्मसंस्थिताः ।
त्रय एतेऽविभागेन संचरन्ते समन्ततः ॥२२॥
अध ऊर्ध्वं वहेद्यस्मात्सर्वनाडीः प्रवाहयन् ।
वृत्तिसंज्ञाप्रभेदेन वर्णरूपाण्यनेकधा ॥२३॥
द्वासप्ततिसहस्रेभ्यो जायन्ते दश वै प्रिये ।
कोटिधातो वरारोहे स एकः संव्यवस्थितः ॥२४॥
प्राणापानमयः प्राणो विसर्गापूरणं प्रति ।
नित्यमापूरयन्नेव प्राणिनामुरसि स्थितः ॥२५॥
प्राणनं कुरुते यस्मात्तस्मात्प्राणः प्रकीर्तितः ।
अहोरात्रगतिं प्राणे अधुना कथयामि ते ॥२६॥
तुटयः षोडश प्राणे पूर्वं हि कथिता मया ।
बाह्ये नैव तु कालेन ते लवाः परिकीर्तिताः ॥२७॥
ताभिश्चतसृभिर्देवि प्राणे यामो विधीयते ।
तैरेव प्रहरैर्देवि चतुर्भिस्तु दिनं भवेथ् ॥२८॥
रात्रिश्चतुर्भिर्विज्ञेया अहोरात्रस्त्वतोऽष्टभिः ।
शिवो धर्मेण हंसस्तु सूर्या हंसः प्रभान्वितः ॥२९॥
आत्मा वै हंस इत्युक्तः प्राणो हंससमन्वितः ।
तस्योदयात्कलेत्कालः ग्रहाणामुदयो भवेथ् ॥३०॥
ऋक्षाणि राशयश्चैव तारास्त्वंशास्तथैव च ।
प्राणे वै उदयन्त्येते अहोरात्रेण सुव्रते ॥३१॥
अहोरात्रोदयस्त्यैव विभागं कथयामि ते ।
हृदयोर्ध्वे तु कण्ठाधो यावद्वै प्रवहेत्प्रिये ॥३२॥
अङ्गुलेन विहीने तु प्रथमः प्रहरः स्मृतः ।
द्वितीय ऊर्ध्वे विज्ञेयो मध्याह्नस्तालुमध्यतः ॥३३॥
अत्र होमो जपो ध्यानं कृतं वै मोक्षदं भवेथ् ।
नासाग्र्यत्र्यङ्गुलोर्ध्वे तु यावत्प्राप्तस्तु सुव्रते ॥३४॥
प्रहरस्तु तृतीयोऽसौ भवेद्वै वरवर्णिनि ।
शक्त्यन्ते च चतुर्थस्तु प्रहरोऽहः प्रकीर्तितं ॥३५॥
चतुर्थान्ते तु देवेशि प्राणसूर्यः सदास्तगः ।
ततोऽस्तमयसन्ध्यात्र तुट्यर्धं तु भवेत्प्रिये ॥३६॥
तत्कालं तु विलम्ब्यैवं पुनश्चाधः प्रवर्तते ।
स च चन्द्रोदयो देवि रजनी च विधीयते ॥३७॥
पूर्वोक्तक्रमयोगेन यामेष्वेवं चरत्यसौ ।
तालुके चार्धरात्रस्तु पुनरेवं विधीयते ॥३८॥
हृत्पद्मं तु यदा प्राप्तः प्रभातसमयस्तदा ।
तुट्यर्धं तु वरारोहे पूर्वसंध्या भवेत्ततः ॥३९॥
तस्मात्समुदयश्चैव सूर्यस्य स भवेत्पुनः ।
पूर्ववत्क्रमयोगेन स चरेद्धि सदा शुभे ॥४०॥
वासरे तु चरेत्सूर्यो धारायां संचरेच्छशी ।
चन्द्रसूर्योदयो ह्येष मया ते परिकीर्तितः ॥४१॥
भ्ॐआद्याश्च ग्रहा ह्येवं चरन्ति प्रविभागशः ।
प्राणे चाप्युदयन्त्येते प्रहरे प्रहरे प्रिये ॥४२॥
वेला वारो भवेद्यस्य स चरेत्प्रहरद्वयं ।
राहुश्चरति सोमेन केतुश्चरति भास्वता ॥४३॥
ये ग्रहास्ते च वै नागा लोकपालाष्टकं च ते ।
मूर्तयश्चैव ते चाष्टावष्टौ ते च गणेश्वराः ॥४४॥
ते च पञ्चाष्टका रुद्रास्तथा योगाष्टकाः परे ।
अनन्तादिशिखण्ड्यन्तास्ते च विद्येश्वराष्टकाः ॥४५॥
सकलाद्यानि तत्त्वानि स्थितानि परतस्त्विह ।
पूर्वोक्ता भैरवाश्चाष्टौ सर्वे ते च व्यवस्थिताः ॥४६॥
ग्रहादीन्समधिष्ठाय सर्वेषूदयकारकाः ।
राशिभिः सह नक्षत्रैस्त उद्यन्ति अहर्निशं॥ ४७॥
मध्याह्ने चार्धरात्रे च उदयोऽभिजितो भवेथ् ।
अभीप्सितं फलं तत्र साधकानां भवेदिह ॥४८॥
अहोरात्रविभागोऽयं एवं ते कथितो मया ।
अधुना पक्षमासांश्च वर्षाणि कथयामि ते ॥४९॥
आध्यात्मिकाहोरात्रेण बाह्ये काष्ठा विधीयते ।
मासेनाध्यात्मिकेनैव बाह्ये चैव कला भवेथ् ॥५०॥
तत्र त्रिंशदहोरात्रा मासस्तु वरवर्णिनि ।
मासैद्वदशभिश्चैव बाह्येऽथ घटिका भवेथ् ॥५१॥
शतानि त्रीण्यहोत्रात्राः षष्टिरेव तथाधिका ।
वर्षमेतत्समाख्यातं बाह्ये वै घटिका च सा ॥५२॥
घटिकाः षष्टिस्त्वहोरात्रे बाह्ये तु प्रवहन्ति वै ।
ता एवान्तरचारेण षष्टिः संवत्सराः स्मृताः ॥५३॥
प्राणसंख्यां पुनस्तेषु कथयाम्यधुना तव ।
षट्शतानि वरारोहे सहस्राण्येकविंशतिः ॥५४॥
अहोरात्रेण बाह्येन अध्यात्मं तु सरधिपे ।
प्राणसंख्या समाख्याता ज्ञातव्या साधकेन तु ॥५५॥
प्रणहंसे सदा लीनः साधकः परतत्त्वविथ् ।
तस्यायं जप उद्दिष्टः सिद्धिमुक्तिफलप्रदः ॥५६॥
अधः प्रवहणे सिद्धिर्हृत्पद्मं यावदागतः ।
मुक्तिश्चैव भवेदूर्ध्वे परतत्त्वे तु सुव्रते ॥५७॥
मनोऽप्यन्यत्र निक्षिप्तं चक्षुरन्यत्र पातितं ।
यथा प्रवर्तते प्राणस्त्वयत्नादेव सर्वदा ॥५८॥
नास्योच्चारयिता कश्चित्प्रतिहन्ता न विद्यते ।
स्वयमुच्चरते हंसः प्राणिनामुरसि स्थितः ॥५९॥
मासवत्सरसंख्या तु एषा ते कथिता मया ।
चन्द्रसूर्योपरागं तु कथयामि ततः परं ॥०॥
अहोरात्रस्तु यः प्रोक्तः प्राणेऽस्मिन्सुरसुन्दरि ।
स एव पक्षद्वितयं मासं च कथयामि ते ॥६१॥
तुट्यर्धं चाप्यधश्चोर्ध्वं विश्रमः परिकीर्तितः ।
मध्ये पञ्चदशोक्ता यास्तिथयस्ताः प्रकीर्तिताः ॥६२॥
प्रथमोदये तु हृत्पद्मात्तुट्यर्धं तु दिनं भवेथ् ।
द्वितीये चैव तुट्यर्धे यदा चरति शर्वरी ॥६३॥
राशयो ग्रहनक्षत्राण्युदयन्ति यथाक्रमं ।
अस्मिन्नेवमहोरात्रे पूर्ववच्च वरानने ॥६४॥
तुटिभिः पञ्चदशभिः पक्षः स तु विधीयते ।
तिथिच्छेदे ऋणं ज्ञेयं वृद्धौ चैव धनं भवेथ् ॥६५॥
ऋणं चैव भवेत्कासो निःश्वासो धन उच्यते ।
कृष्णपक्षोर्ध्वचारेण संहारः संक्षयो भवेथ् ॥६६॥
क्रूरकर्माणि वै तत्र कुर्वन्सिद्धिमवाप्नुयाथ् ।
शुभकर्माणि कृष्णे च न च सिद्ध्यन्ति सुव्रते ॥६७॥
शक्तिं वै विशति प्राणे या तुटिस्तु विधीयते ।
अमावस्या तु सा ज्ञेया कृष्णपक्षे वरानने ॥६८॥
शक्तेर्मध्योर्ध्वभागे तु तुट्यर्धं यत्प्रकीर्तितं ।
पक्षसंधिस्त्वसौ ज्ञेयोऽमावस्यार्धप्रतिपदा ॥६९॥
तिथिच्छेदेन वै तत्र सूर्यस्य ग्रहणं भवेथ् ।
रविबिम्बान्तरे देवि चन्द्रबिम्बं तदा भवेथ् ॥७०॥
तदन्तरे भवेद्राहुरमृतार्थी वरानने ।
अमृतं स्रवते चन्द्रो राहुश्च ग्रसते तु तं ॥७१॥
पीत्वा त्यजति तद्लिम्बं तदा मुक्तः स उच्यते ।
आदित्यग्रहणं चैव लोके तदुपदिश्यते ॥७२॥
राहुरादित्यचन्द्रौ च त्रय एते ग्रहा यदा ।
दृश्यन्ते समवायेन तन्महाग्रहणं भवेथ् ॥७३॥
स कालः सर्वलोकानां महापुण्यतमो भवेथ् ।
तत्र स्नानं तथा दानं पूजाहोमजपादिकं ॥७४॥
यत्कृतं साधकैर्देवि तदनन्तफलं भवेथ् ।
तां चैवार्धतुटिं त्यक्त्वा शुक्लपक्षोदयो भवेथ् ॥७५॥
शक्तिगर्भादधः सृष्टिस्तस्माद्वृद्धिः प्रजायते ।
तदारभ्य च कर्माणि शुभान्यभ्युदयानि च ॥७६॥
ध्यानमन्त्रादियुक्तस्य सिद्धिन्ते नात्र संशयः ।
प्राणहंसो यदा प्राप्तस्त्वधस्तां प्रथमां तुटिं ॥७७॥
पूर्वमर्धं त्वहः प्रोक्तं तुट्यर्धमपरं निशा ।
राशयो ग्रह ऋक्साणि योगाश्च करणानि च ॥७८॥
पूर्ववत्क्रमयोगेन तान्युद्यन्ति त्वहर्निशं ।
प्रतिपत्सा तु विज्ञेया चन्द्रश्चैककलो भवेथ् ॥७९॥
द्वितीयायां द्वितीया तु वृद्धिमेति क्रमेण तु ।
तिथयश्चैवमारभ्य यावत्पञ्चदशी तुटि ॥८०॥
पौर्णमासी तु विज्ञेया तिथिर्वै साधकेन तु ।
तत्र पूजा जपो ध्यानं संपूर्णं सफलं भवेथ् ॥८१॥
संपूर्णश्च भवेत्तस्यां चन्द्रो वै चारुलोचने ।
तस्याश्चार्धतुटिर्या तु पक्षसंध्या तु सा स्मृता ॥८२॥
तस्यार्धं पौर्णमासी तु प्रतिपदर्धेन संस्थिता ।
हृत्पद्मसंधिमध्ये तु सोमस्य ग्रहणं भवेथ् ॥८३॥
आदित्येन विना लोके सोमग्रहणमुच्यते ।
तत्रैव च महत्पुण्यं ध्यानहोमजपादिभिः ॥८४॥
पक्षद्वयेऽपि देवेशि ग्रहणं चन्द्रसूर्ययोः ।
नानादिद्धिप्रदं ह्येतथ्साधकस्याभियोगिनः ॥८५॥
मोक्षश्चैव पुनर्भद्रे पक्षद्वयसमुज्झितः ।
पक्षद्वयं परित्यज्य पूवोक्तकरणेन तु ॥८६॥
उन्मन्यन्ते स्थितो नित्यं परवृत्त्यवलम्बकः ।
परित्यज्य त्वधः सर्वं ध्यानमास्थाय योजयेथ् ॥८७॥
तस्य मुक्तिर्न संदेहस्त्वन्यथा सिद्धिभाग्भवेथ् ।
पक्षद्वयेऽपि ग्रहणं भवेद्वै सर्वदेहिनां ॥८८॥
एवमेतत्समाख्यातं यावदायुर्वरानने ।
अत्रैवाध्यात्माहोरात्रे त्वथाब्दोदय उच्यते ॥८९॥
हृत्पद्मादूर्ध्वपर्यन्तं राशयः षड्व्यवस्थिताः ।
अङ्गुलैः षड्भिरेकैको हृत्पद्माद्याव शक्तितः ॥९०॥
अङ्गुले अङ्गुले ह्यत्र तिथयः पञ्च संस्थिताः ।
तस्याप्यर्धं दिनं पूर्वं अपरार्धं निशा भवेथ् ॥९१॥
षट्पञ्चकास्तिथीनां ये ते ःओरात्रास्तु मासिकाः ।
त्रिंशता तैरहोरात्रैर्द्विपक्षो मास उच्यते ॥९२॥
मासि राश्युदये ह्येष अधोर्ध्वप्राणसंचरे ।
हृदयादुदयस्थानात्संक्रान्तिर्मकरे स्थिता ॥९३॥
षडङ्गुलान्यधस्त्यक्त्वा कुम्भे संक्रमते पुनः ।
कण्ठोर्ध्वे द्व्यङ्गुलं त्यक्त्वा मीने संक्रमते पुनः ॥९४॥
गलोर्ध्वाद्यावत्ताल्वन्तं त्यक्त्वा मेषेऽथ संक्रमेथ् ।
नासान्तं यावत्संक्रान्तिरङ्गुलानि षडेव हि ॥९५॥
एषा वै विषुसंक्रान्तिरुत्तरे संव्यवस्थिता ।
जपहोमार्चनध्यानान्महाभ्युदयकारिका ॥९६॥
नासाग्रं तु परित्यज्य प्राणहंसो वृषे चरेथ् ।
षडङ्गुलानि संत्यज्य संक्रमेन्मिथुने पुनः ॥९७॥
शक्त्यन्तं यावदध्वानं संक्रान्तिर्मिथुने स्मृता ।
मकराच्च समारभ्य मिथुनान्तं च सुव्रते ॥९८॥
उत्तरयणमत्रैतदैहिकीसिद्धिवर्जितं ।
स्नानं ध्यानं तथा दानं पूजाहोमजपादिकं ॥९९॥
साधकाद्यैः कृतं यच्च सहस्त्रानेकधा भवेथ् ।
इह जन्मनि नाप्नोति परत्रैवोपतिष्ठते ॥१००॥
दिनानि तत्र वर्धन्ते मकरान्मिथुनान्तिकं ।
तत्काले संहरेद्वीर्यं जगत्यस्मिंश्चराचरे ॥१०१॥
हंसो रश्मिभिराकृष्य गर्भस्थं कारयेत्तु तं ।
गर्भस्थानेकधारूपं यद्गृहीतं पुरातनं ॥१०२॥
कर्कटादेः समारभ्य सर्वं वर्षति तत्पुनः ।
तस्मादारभ्य मकराद्ध्यानहोमजपादिकं ॥१०३॥
परलोकनिमित्ताय तदनन्तफलं भवेथ् ।
पुरश्चर्यानिमित्ताय मन्त्रग्रहव्रतं च यथ् ॥१०४॥
मीनादावारभेत्सर्वं मन्त्रसिद्ध्यर्थमात्मनः ।
बाह्येऽपि तरवो लोके ऋतुषट्कसमीरितं ॥१०५॥
कुसुमानन्दमायान्ति कुसुमायुधदीपकं ।
मन्त्राः कालानुरूपेण व्रतचर्यादिनेरिताः ॥१०६॥
ज्ञेयबोधप्रदीप्ताश्च सिद्धिमुक्तिप्रसाधकाः ।
अध्यात्मशब्दरूपात्मा षड्रसास्वादनेरितः ॥१०७॥
हंसबोधप्रदीप्तस्तु गलके मीनमाश्रितः ।
शब्दसंवेदनं तस्य स्फुटं तत्र भवेद्यतः ॥१०८॥
तदारभ्य जपात्तस्य सर्वमेव प्रवर्तते ।
मिथुनान्तं च देवेशि ततः सिद्धिः प्रजायते ॥१०९॥
सहंसो बिन्दुशक्तिस्थः सिद्धिद्वारैरधोमुखः ।
कर्कटादौ स वर्षेत्तु तुलान्तं तालुकान्तरे ॥११०॥
कण्ठादधस्ततो देही हृत्पद्मात्सर्वतो व्रजेथ् ।
तस्मादिहात्मसिद्ध्यर्थं पुष्ट्यर्थं चैव साधयेथ् ॥१११॥
दक्षिणायनजे काले यस्मात्सृष्टिः प्रजायते ।
शक्त्यधो हृदये हंसः संक्रमेत्कर्कटे प्रिये ॥११२॥
षडङ्गुलानि संत्यज्य सिंहे वै संक्रमेत्पुनः ।
षडङ्गुलैः पुनस्त्यक्तैः कन्यां संक्रमते पुनः ॥११३॥
नासिकाग्रात्तु ताल्वन्तं त्यक्त्वैवं विषुवद्भवेथ् ।
तुलासंक्रान्तिरेषोक्ता दक्षिणं विषुवद्भवेथ् ॥११४॥
साधनं यत्कृतं तत्र इह जन्मनि कामदं ।
मृत्योर्जयं तथा शान्तिं पुष्टिं तस्मात्समारभेथ् ॥११५॥
तस्मात्स षड्रसाहारो गलाधः प्रीणयेत्तनुं ।
षडङ्गुलानि त्यक्त्वा तु वृश्चिके क्रमते पुनः ॥११६॥
कण्ठोर्ध्वं द्व्यङ्गुलं त्यक्त्वा कण्ठाधश्चतुरङ्गुलं ।
वृश्चिकं तु परित्यज्य धन्विसंक्रान्तिरुच्यते ॥११७॥
षडङ्गुलादधस्तात्तु धन्विस्थश्चरते हृदि ।
हृत्पद्मान्तं तु वै हंसश्चरित्वा ऊर्ध्वगोदयः ॥११८॥
मकरादिषु संक्रान्तौ द्वादशैवं चरेत्सदा ।
अमुनोक्तक्रमेणैव आयुर्वै सर्वदेहिनां ॥११९॥
ऐहिकामुष्मिकी सिद्धिरधमा मध्यमोत्तमा ।
अयनद्वयमाख्यातं मोक्षसिद्धिर्द्वयोज्झिता ॥१२०॥
अयनद्वयपर्यन्त उन्मन्यन्ते सदा स्थितः ।
तत्रस्थो वै जपध्यानान्मोक्षसिद्धिमवाप्नुयाथ् ॥१२१॥
मोक्षं गत्वा तु नागच्छेत्प्रतिज्ञा भैरवस्य तु ।
अस्मिन्नब्दोदये भूयो द्वादशाब्दोदयं शृणु ॥१२२॥
चैत्रसंवत्सरे यस्मान्मासानामुदयो भवेथ् ।
तदादि साधकैस्तस्मात्कर्तव्यं मन्त्रसाधनं ॥१२३॥
द्वादशाब्दः स विज्ञेयश्चैत्रमासाद्वरानने ।
लक्षणं तस्य वक्ष्यामि प्राणोऽस्मिन्प्रविभागशः ॥१२४॥
तत्र संवत्सरेणैव अमुनोक्तेन सुव्रते ।
अहोरात्रस्तु यः प्रोक्तो द्वादशांशं भजेत्प्रिये ॥१२५॥
द्वादश ते अहोरात्रा द्वादशाब्दे भवन्ति वै ।
पञ्चभिस्तांस्तु संगुण्य द्वादशाब्द ऋतुर्भवेथ् ॥१२६॥
तमेव द्विगुणं कृत्वा कालस्तु स विधीयते ।
त्रिगुणेनैतदयने वत्सरः षङ्गुणेन तु ॥१२७॥
संक्रान्तयो द्वादशात्र यद्वदब्दे प्रकीर्तिताः ।
द्वादशाब्दोदये प्राणे वत्सरास्ते प्रकीर्तिताः ॥१२८॥
द्वादशाब्दे त्वहोरात्राः तेषां सङ्ख्यां निबोध मे ।
सहस्राणि तु चत्वारि त्रिशती विंशतिस्तथा ॥१२९॥
द्वादशाब्दोदये देवि प्राणेऽस्मिन्कथिता मया ।
षष्ट्यब्दोदयमत्रैव पुनश्च कथयामि ते ॥१३०॥
आनन्दाद्यास्तु ते ज्ञेयाः षष्ट्यब्दास्तु वरानने ।
ते चाध ऊर्ध्वगे प्राणे एकस्मिन्सुरसुन्दरि ॥१३१॥
चरन्ति प्रविभागेन तथा ते कथयाम्यहं ।
आनन्दप्रभृतेर्देवि मन्त्रमाराधयेत्तु यः ॥१३२॥
तस्यानन्दस्तु देवेशि मन्त्रेण सह जायते ।
द्वादशाब्दे त्वहोरात्रं पञ्चधा भेदयेच्च तं ॥१३३॥
षष्ट्यब्दे ते त्वहोरात्राः पञ्चैव परिकीर्तिताः ।
ते वै षङ्गुणितास्तत्र मास एकः प्रकीर्तितः ॥१३४॥
तैश्च द्वादशभिर्देवि वर्षमेकं विधीयते ।
अङ्गुले तु सपञ्चांशे मानमेतत्प्रकीर्तितं ॥१३५॥
षडङ्गुलैस्तु पञ्चाब्दाः षष्ट्यब्द उदयन्ति ते ।
हृत्पद्माद्याव शक्त्यूर्ध्वं त्रिंशदब्दोदयो भवेथ् ॥१३६॥
शक्त्यधो यावद्धृत्पद्मं त्रिंशदब्दोदयो भवेथ् ।
षष्ट्यब्दे ये त्वहोरात्राः सङ्ख्यां तेषु वदाम्यहं ॥१३७॥
विंशतिस्तु सहस्राणि सहस्रं षट्शताधिकं ।
अहोरात्रास्तु षष्ट्यब्दे सङ्ख्यातास्तु वरानने ॥१३८॥
षष्ट्यब्दोदय आख्यातः प्राण एकत्र ते मया ।
चन्द्रसूर्योपरागे च पक्षमासायनेषु च ॥१३९॥
युगादिषु युगान्तेषु यच्च संवत्सरेऽप्यथ ।
वर्षद्वादशके चैव षष्ट्यब्देऽथ वरानने ॥१४०॥
स्नानदानेन यज्ञैश्च पूजाहोमजपेन च ।
ज्ञानयोगादिभिश्चैव बाह्ये काले तु यत्कृतं ॥१४१॥
अमुनोक्ते वरारोहे तत्फलं लभते महथ् ।
प्राणहंसगतिं चारे ज्ञात्वैकस्मिंस्तु तद्भजेथ् ॥१४२॥
स्वसंवेद्यो भवेच्चारो नाडीचारजयात्स्फुटं ।
अथवा स जपादेवं अत्यर्थमुपबृंहितः ॥१४३॥
मन्त्री योगं विजानाति ज्ञात्वा सर्वज्ञतां व्रजेथ् ।
पुनरेव प्रवक्ष्यामि नाडित्रयविभागतः ॥१४४॥
दक्षिनोत्तरसंक्रान्तौ विषुवच्चारतस्तथा ।
यथा चरत्यसौ हंसो जगत्यस्मिंश्चराचरे ॥१४५॥
अन्तःस्थः कालरूपेण कलाभिः कलयञ्जगथ् ।
नाडित्रयकृताधारो मार्गत्रयव्यवस्थितः ॥१४६॥
गुणत्रयसमाविष्टस्त्रिधावस्थाव्यवस्थितः ।
कारणैः षड्भिराक्रान्तः शक्तित्रितयसंयुतः ॥१४७॥
इच्छाज्ञानक्रियाविद्धः सोमसूर्याग्निमध्यगः ।
दक्षनासापुटे चैव नाडी वै पिङ्गला स्मृता ॥१४८॥
इडा चैव तु वामेन सुषुम्ना मध्यतः स्थिता ।
दक्षिणे देवमार्गस्तु पितृमार्गस्तथोत्तरे ॥१४९॥
मध्यमः शिवमार्गस्तु तत्र गत्वा न जायते ।
दक्षिणे सत्त्वजाग्रत्स्थः स्वप्नस्थो वामतो रजः ॥१५०॥
मध्ये तमस्तु विज्ञेयं सुषुप्तावस्थ एव च ।
ब्रह्मेश्वरश्च दक्षस्थो वामे विष्णुसदाशिवौ ॥१५१॥
मध्ये रुद्रशिवौ प्रोक्तौ सर्वातीतः परः शिवः ।
ज्येष्ठाज्ञाने च दक्षे च क्रिया वामा तथोत्तरे ॥१५२॥
रौद्री चेच्छा च मध्यस्था परा शक्तिः परापरा ।
दक्षिणो तु स्थितः सूर्यो वामे सोमो विराजते ॥१५३॥
पाके प्रकाशकत्वे च मध्यस्थश्चैव पावकः ।
पाचयेत्सर्वपाकं हि सोमादिगुणसम्भवं ॥१५४॥
प्रकाशयेत्स्वसामर्थ्यात्परतत्त्वमनामयं ।
राशयश्च ग्रहाः सर्वे ऋक्षयोगादयश्च ये ॥१५५॥
चन्द्रसूर्यपथेनैव ते चरन्त्यनुपूर्वशः ।
सूर्यसोमौ च ते सर्वे भुञ्जते क्रमशः प्रिये ॥१५६॥
सोमसूर्यात्मकास्ते वै पथित्रयव्यवस्थिताः ।
वायति तपति सूर्यः सोमो वर्षति चामृतं ॥१५७॥
सोमसूर्यात्मकं यस्माज्जगत्स्थावरजङ्गमं ।
सौरो दक्षिणमार्गस्तु उत्तरायणसंज्ञितः ॥१५८॥
वामः स्ॐयस्तु यः प्रोक्तस्तत्र वै दक्षिणायनं ।
सोमसूर्यात्म विषुवत्पुटद्वयविनिःसृतं ॥१५९॥
उदक्संक्रान्तयः पञ्च पञ्च वै दक्षिणायने ।
दक्षिणोत्तरयोर्मध्ये संक्रान्त्या विषुवद्द्वयं ॥१६०॥
सौरश्च दक्षिणो मार्गस्त्वभिचारप्रसिद्धिदः ।
आप्यायने तथा पुष्टौ शान्तिके स्ॐय उत्तरः ॥१६१॥
दक्षिणादुत्तरं याति उत्तरद्दक्षिणं यदा ।
दक्षिणोत्तरसंक्रान्तिः सा चैवं संविधीयते ॥१६२॥
दक्षिणस्यां यदा नाड्यं संक्रामेत्तु यदोत्तरं ।
यावदर्धं तु तत्रस्थं मध्येनोत्तरतो वहेथ् ॥१६३॥
तावत्तद्विषुवत्प्रोक्तं उत्तरं तूत्तरायणे ।
उत्तराद्दक्षिणायां तु संक्रामन्स वरानने ॥१६४॥
यावदर्धं वहेत्तत्र अर्धं दक्षिणतो वहेथ् ।
विषुवद्दक्षिणं तावद्दक्षिणायनजं प्रिये ॥१६५॥
तत्र पूजा जपो होमो यत्कृतं मुक्तिदं भवेथ् ।
ध्यानयोगेन दीक्षायां तत्स्थो वै मोचयेद्गुरुः ॥१६६॥
बाह्ये चैव त्वहोरात्रे अध्यात्मं तु वरानने ।
चतुर्विंशतिसंक्रान्तीः प्राणहंसस्तु संक्रमेथ् ॥१६७॥
अहनि द्वादश प्रोक्ता रात्रौ वै द्वादश स्मृताः ।
पूर्वाह्णे विषुवत्त्वेकं मध्याह्ने तु द्वितीयकं ॥१६८॥
तृतीयं चापराह्णे वै अर्धरात्रे चतुर्थकं ।
चतुर्धा विषुवत्प्रोक्तं अहोरात्रेण मुक्तिदं ॥१६९॥
चतुर्विंशतिसंक्रान्त्यः समधातोः स्वभावतः ।
शतानि नव वै हंस एकामेकां वहेत्सदा ॥१७०॥
एतन्मानं समाख्यातं अन्यथा प्रवहेद्यदा ।
इष्टं चैवाप्यनिष्टं च तदा संसूचयेत्तु सः ॥१७१॥
आत्मार्थं वा परार्थं वा तस्माद्योगी निरूपयेथ् ।
पूर्वोदये तु संप्राप्ते भास्करस्य वरानने ॥१७२॥
जीवितं मरणं चैव तदारभ्य विचारयेथ् ।
सुसंयतमना योगी वीरो योगासनस्थितः ॥१७३॥
संस्मरन्नात्मजं प्राणं सुषुम्नान्तर्गतं प्रिये ।
सुप्रशान्तस्तदा तिष्ठेत्प्राणैकगतमानसः ॥१७४॥
प्राणसंक्रान्तिकालो वै पिङ्गलैकस्थितो वहेथ् ।
प्रवाहे विषुवद्देवि ज्ञात्वा कालं समादिशेथ् ॥१७५॥
एकाब्दं जीवितं ज्ञेयं अहोरात्रेण सुव्रते ।
अब्दद्वयं स जीवेत्तु अहोरात्रद्वयेन तु ॥१७६॥
त्र्यब्दं तु त्रिभिरेवात्र चतुर्भिश्चतुरब्दकं ।
पञ्चाब्दं पञ्चदिवसैः षड्भिः षड्वर्षमेव च ॥१७७॥
सप्तभिः सप्त वर्षाणि जीवेदष्टाष्टभिर्दिनैः ।
नवभिर्नववर्षाणि दशभिर्दश एव च ॥१७८॥
दिनैकादशकेनैव वर्षैकादशकं प्रिये ।
दिनैर्द्वादशभिर्योगी जीवेद्वर्षाणि द्वादश ॥१७९॥
सप्तयामप्रवाहेण षण्मासानथ जीवति ।
प्रहरान्षड्वहेद्यस्य मासांस्त्रीन्वै स जीवति ॥१८०॥
पञ्चप्रहरवाहेन द्वयर्धमासायुर्व सः ।
चतुर्भिः प्रहरैदेवि मासमेकं स जीवति ॥१८१॥
प्रहरत्रयवाहेन मासार्धं चैव जीवति ।
प्रहरद्वयं वहेद्यस्य दिनान्यष्टौ स जीवति ॥१८२॥
चतुरः प्रहराञ्जीवेत्प्रहरं तु वहेद्यदा ।
प्रहरार्धं वहेद्यस्य स जीवेत्प्रहरद्वयं ॥१८३॥
सद्यो मृत्युर्भवेत्तस्य यस्य हंसस्त्रिमार्गगः ।
यदारभ्य निरूप्येत प्राणे वै कालमीश्वरं ॥१८४॥
मासः पक्षो दिनं वर्षं तदहः प्रभृति प्रिये ।
संलक्ष्यैवं प्रयत्नेन तत्काले निश्चयो भवेथ् ॥१८५॥
उत्तरायणजे काले एवं ते कथितं मया ।
अयुक्तस्यापि च प्राणे मृत्युज्ञानं निबोध मे ॥१८६॥
कर्णरन्ध्रकृताङ्गुष्ठो घोषं न शृणुते यदा ।
मरणं तस्य देवेशि षण्मासेन विनिर्दिशेथ् ॥१८७॥
घोषमध्ये परं शब्दं चीरवाक्चिञ्चिनीरवं ।
मासमेकं स जीवेत्तु न शृणोति यदा प्रिये ॥१८८॥
उत्पाटं चैव काणं च मृत्युयोगं च मे शृणु ।
संक्रान्तिपञ्चकं प्राणो मुखरन्ध्रे वहेद्यदा ॥१८९॥
तमुत्पाटं वदेद्योगं स्थानात्स्थानान्तरं व्रजेथ् ।
वित्तनाशस्तथोद्वेगो रोगवृद्धिश्च जायते ॥१९०॥
सुहृद्गृहविनाशश्च तेजोहानिश्च जायते ।
दक्षिणे पुट एकस्मिन्दक्षिणायनवर्जिते ॥१९१॥
संक्रान्त्यष्टकवाहेन काणयोगो भवेद्धि सः ।
भगन्धरोऽनुग्रन्थश्च नेत्ररोगश्च कामला ॥१९२॥
शूलं विस्फोटिका दुःखं उरोदोषा भवन्ति च ।
वामनासापुटेनैव संक्रान्तीश्च त्रयोदश ॥१९३॥
ज्वरः शिरोऽर्तिः शूलं च अर्शासि स्तम्भ एव च ।
मूत्रकृच्छ्रं प्रमेहश्च पाण्डुरोगश्च जायते ॥१९४॥
इडास्थः श्लेष्मणा व्याधिं प्रकोपयति सुव्रते ।
यस्मिंश्चारे निरूप्येत तत्कालदिवसे परे ॥१९५॥
व्याधिभिः पीड्यते सर्वैर्वामवामेतरेतरे ।
अथान्यत्स्पर्शविज्ञानं नासाधस्तात्तथोपरि ॥१९६॥
ऊर्ध्वेन स्पृशतश्चोर्ध्वं रुग्दोषाः प्राक्प्रचोदिताः ।
वाचाक्रोशाभिभवनं दक्षिणेन वहेद्यदा ॥१९७॥
मध्ये मध्यपुटस्पर्शी पराभिभवतां व्रजेथ् ।
इतश्चेतश्च बहुधा संक्रान्त्येका वहेद्यदा ॥१९८॥
पूजनं बहुसंमानं लाभस्तस्य भवेत्तदा ।
मन्दचारे सुषुम्नायां प्राणहंसो वहेद्यदा ॥१९९॥
भूलाभो धर्म ऐश्वर्यं भवेच्चात्र प्रियागमः ।
द्वादशैव तु संक्रान्तीर्वहेद्विषुवतैकतः ॥२००॥
तदैकवत्सरेणैव मरणं तु समादिशेथ् ।
ह्रसेत्संक्रान्तिरेकैका मास एको ह्रसेत्तदा ॥२०१॥
संक्रान्त्येका वरारोहे त्रिंशत्प्राणक्षयोदया ।
दिने दिने वहेद्बाह्ये यावत्त्रिंशद्दिनानि तु ॥२०२॥
मासान्ते तु भवेन्मृत्युः सद्य एव वरानने ।
मृत्युयोगः समाख्यातो मया ते वरवर्णिनि ॥२०३॥
अब्दं मासं तथा पक्षं तिथिं वेलां यदाभ्यसेथ् ।
यत्कालात्तु समारभ्य तत्कालं तु समादिशेथ् ॥२०४॥
इडासुषुम्नामार्गेण प्राणचारं विदुर्बुधाः ।
दक्षिणायनजे काले एवं ते कथितं शुभं ॥२०५॥
एवं शरीरजे काले मृत्युं चाशुभमेव च ।
ज्ञात्वा योगी जयेन्मृत्युं अशुभान्यप्यशेषतः ॥२०६॥
ध्यात्वा कालेशस्वच्छन्दं हंसं वा सकलेश्वरं ।
नासिकारन्ध्रमार्गस्थः स सृजेत्संहरेज्जगथ् ॥२०७॥
तत्रस्थः कलयेत्सर्वं सर्वभूतेष्ववस्थितः ।
तत्स्थं ध्यात्वा जयेन्मृत्युं नाकलस्थं कलेत्प्रभुः ॥२०८॥
ध्यानयुक्तस्य षण्मासात्सर्वज्ञत्वं प्रवर्तते ।
कालत्रयं विजानाति कालयुक्तस्तु योगविथ् ॥२०९॥
कालहंसं स तु जपन्ध्यायन्वापि महेश्वरि ।
स भवेत्कालरूपी वै स्वच्छन्दः कालवच्चरेथ् ॥२१०॥
हतमृत्युर्जरां त्यक्त्वा रोगैः सर्वभयोज्झितः ।
विज्ञानं श्रवणं दूरान्मननं चावलोकनं ॥२११॥
सर्वैश्वर्यगुणावाप्तिर्भवेत्कालजयात्सदा ।
दक्षनासापुटे ध्यात्वा ब्राह्मैश्वर्यमवाप्नुयाथ् ॥२१२॥
तदायुस्तत्समं वीर्यं भूतकालं च वेत्त्यतः ।
भविष्यज्ज्ञो भवेद्वामे विष्णुतुल्यबलश्च सः ॥२१३॥
तत्समं चैतदैश्वर्यं तदायुर्योगिराड्भवेथ् ।
भूतं भव्यं भविष्यच्च सर्वं जानाति मध्यतः ॥२१४॥
नित्यं वै ध्यानयोगेन रुद्रस्य समतां व्रजेथ् ।
आयुषा बलवीर्येण रूपैश्वर्येण तत्समः ॥२१५॥
ब्रह्मणः परभावेन ऐश्वरं पदमाप्नुयाथ् ।
विष्णोः सदाशिवैश्वर्यं परभावादवाप्नुयाथ् ॥२१६॥
रुद्रस्य यः परो भावो ध्यात्वा तं तु शिवो भवेथ् ।
एवं मृत्युजयः ख्यातः अमृतं ध्यायतो जयः ॥२१७॥
नाडिभिन्नालरन्ध्रस्थं हृत्पद्मं षोडशच्छदं ।
ध्यात्वा सितं सुविकचं कलाषोडशकान्वितं ॥२१८॥
संपूर्णावयवं चन्द्रं कर्णिकाकारविग्रहं ।
तन्मध्ये चिन्त्यमात्मानं शुद्धस्फटिकनिर्मलं ॥२१९॥
श्रीरामृतार्णवावस्थ- कल्लोलामृतपूरितं ।
उपरिष्टाद्द्वितीयाब्जं शक्तामृतमहोदधौ ॥२२०॥
तच्चाधो मुखपद्मं तु परिपूर्णेन्दुकर्णिकं ।
तन्मध्ये चिन्तयेद्धंसं अधो बिन्दुशिखान्वितं ॥२२१॥
वर्षन्तममृतं दिव्यं समन्तात्संविचिन्तयेथ् ।
आत्मोर्ध्वरन्ध्रमार्गेण प्रविष्टं तच्च चिन्तयेथ् ॥२२२॥
सितं सुबहुलं सान्द्रं अमृतं मृत्युनाशनं ।
तेनाप्लावितमात्मानं पूर्यमाणं विचिन्तयेथ् ॥२२३॥
पद्मनालनिबद्धैश्च नाडीरन्ध्रमुखैः सदा ।
अमृतापूरितं देहं सर्वमेव विचिन्तयेथ् ॥२२४॥
एवं वै नित्ययुक्तात्मा अमृतेशसमो भवेथ् ।
व्याधीन्मृत्युं जरां त्यक्त्वा क्रीडते त्वणिमादिभिः ॥२२५॥
एवं तस्यामृतध्यानात्कालमृत्युजयो भवेथ् ।
अथवा परतत्त्वस्थः सर्वकालैर्न बाध्यते ॥२२६॥
चिन्तयेत्परमं तत्त्वं कालचारविवर्जितं ।
कलाकलङ्कनिर्मुक्तं निष्कलं परमं पदं ॥२२७॥
निष्कलं चात्मतत्त्वं तु कलङ्को देह उच्यते ।
संयुक्तः कारणैः षड्भिः सर्वतत्त्वसमन्वितः ॥२२८॥
वर्णो बिन्दुस्तथा नादो व्यापिनीशक्तिसंयुतः ।
समनावधिपर्यन्तः कलङ्काधार उच्यते ॥२२९॥
आधेयः परमो ह्यात्मा तत्पराप्युन्मना स्मृता ।
तस्याश्चान्ते परं तत्त्वं सकलाकलवर्जितं ॥२३०॥
व्यापकं सर्वतोभद्रं सर्वान्तः सर्वतोमुखं ।
पञ्चपञ्चकतत्त्वस्थं अष्टादशगुणान्वितं ॥२३१॥
यद्यस्मिंस्तु परं वेत्ति तदा मुच्येत बन्धनाथ् ।
कारणानि च मन्त्राश्च निवृत्त्याद्याः कलास्तथा ॥२३२॥
बिन्दुश्चैवार्धचन्द्रश्च निरोधी नाद ऊर्ध्वर्गः ।
शक्तिश्च व्यापिनी चैव समनात्मा तथोन्मना ॥२३३॥
पञ्चपञ्चकमेतद्धि कथितं ते वरानने ।
तत्त्वान्येव तु षट्त्रिंशत्गुणांश्चैव निबोध मे ॥२३४॥
अहंकारो धीर्मनश्च इन्द्रियार्थास्तथैव च ।
ग्रहणं स्पर्श आधारः शक्तिश्चैवाष्टमी स्मृता ॥२३५॥
एते चाष्टौ गुणाः अष्टौ भैरवा भैरवाव्ष्टकं ।
प्राणहंसस्तथा शक्तिः गुणा अष्टादश त्विमे ॥२३६॥
एतेषु तत्परं तत्त्वं उच्चारालम्बनादृते ।
अक्षराक्षरनिर्मुक्तं परं तत्त्वमनक्षरं ॥२३७॥
अक्षरेषु कुतो मोक्ष आकाशो कुसुमं कुतः ।
यावदुच्चार्यते वाचा यावल्लेख्येऽपि तिष्ठति ॥२३८॥
तावत्स सकलो ज्ञेयो निष्कलो भेदवर्जितः ।
सृष्टिसंहारनिर्मुक्तः क्रियाकालविवर्जितः ॥२३९॥
अधश्चारे भवेत्सृष्टिरूर्ध्वे संहार उच्यते ।
अधश्चारेण जातोऽसौ उर्ध्वे चैव मृतो भवेथ् ॥२४०॥
सूतकं मृतकं त्यक्त्वा तिष्ठेद्वै तत्त्ववृत्तितः ।
तत्त्ववृत्तिश्च व्याख्याता सर्वाध्वोपाधिवर्जिता ॥२४१॥
तत्त्वाध्वधर्मनिर्मुख्तः कारणैश्च विवर्जितः ।
तत्त्ववृत्तौ स्थितो योगी सर्वारम्भविवर्जितः ॥२४२॥
रागद्वेषविनिर्मुक्तो विषादानन्दवर्जितः ।
नाकाङ्क्षेन्न च निन्देत्तु विषयांश्च कदाचन ॥२४३॥
समः शत्रौ च मित्रे च ब्राह्मणे श्वपचे समः ।
तुल्यदर्शी भवेन्नित्यं सर्वं शिवमयं स्मरेथ् ॥२४४॥
आत्मानं च तथैवैवं सर्वथैव सदा स्मरेथ् ।
सर्वतत्त्वानि भूतानि वर्णा मन्त्राश्च ये स्मृताः ॥२४५॥
नित्यं तस्य वशास्ते वै शिवभावनयानया ।
नचासौ कुरुते पुण्यं नैव पापं च सुव्रते ॥२४६॥
कृतकृत्यः प्रसन्नात्मा कृत्यं चास्य न विद्यते ।
इह लोके परस्मिंश्च परिपूर्णस्तु सर्वदा ॥२४७॥
धर्माधर्मविनिर्मुक्तः पुण्यपापविवर्जितः ।
न चास्य भक्ष्याभक्ष्यं हि न पेयापेयमेव च ॥२४८॥
नापवित्रं हि तस्यास्ति न पवित्रं हि सुव्रते ।
निरपेक्षो ह्यसौ नित्यं सर्वापेक्षाविवर्जितः ॥२४९॥
नास्य क्षेत्रं नास्य तीर्थं नियमो यम एव च ।
क्षेत्रं तस्य परा शक्तिर्यतः सर्वं प्रसूयते ॥२५०॥
सर्वाध्वानो यतो देवि तत्रस्थाः प्रचरन्ति वै ।
तीर्थं चैव परं शान्तं नित्यं चानन्दविश्वगं ॥२५१॥
येन व्याप्तमिदं विश्वं अनन्तं विश्वशक्तिभिः ।
नित्यं विरक्तिः संसाराद्यमोऽयं परिकीर्तितः ॥२५२॥
नियमो भावना नित्यं परतत्त्वैकतानता ।
नात्मनो भावयेज्जातिं न कुलं न च बान्धवान् ॥२५३॥
आचरेत्सर्ववर्णत्वं न च वर्णेषु वर्तयेथ् ।
परभावनया नित्यं परधर्मेण वर्तयेथ् ॥२५४॥
सर्वज्ञः परितृप्तश्च परिपूर्णः स्वभावतः ।
स्वतन्त्रोऽलुप्तसामर्थ्यस्त्वनादिनिधनाश्रितः ॥२५५॥
अनादिबोधो ह्यतुलः कालवेलाविवर्जितः ।
चारोच्चारविनिर्मुक्तस्त्वहोरात्रविवर्जितः ॥२५६॥
न दिवा जागरं कुर्यान्न च रात्रौ स्वपेत्क्वचिथ् ।
स्वभावेनैव संतिष्ठद्दिनरात्रिविवर्जितः ॥२५७॥
एवं वै वर्तते योगी परेण समतां व्रजेथ् ।
न च तं कलयेत्कालः कल्पकोटिशतैरपि ॥२५८॥
जीवन्नेव विमुक्तोऽसौ यस्यैषा भावना सदा ।
शिवो हि भावितो नित्यं न कालः कलयेच्छिवं ॥२५९॥
योगी स्वच्छन्दयोगेन स्वच्छन्दगतिचारिणा ।
स स्वच्छन्दपदे युक्तः स्वच्छन्दसमतां व्रजेथ् ॥२६०॥
स्वच्छन्दश्चैव स्वच्छन्दः स्वच्छन्दो विचरेत्सदा ।
एवं वै मृत्युलिङ्गानि रिष्टान्यन्यानि यानि च ॥२६१॥
योगाज्जानाति योगीन्द्रो नादजान्तर्गतानि च ।
निर्जित्यैतानि योगेन एवमुक्तव्रमेण तु ॥२६२॥
अयोगी यानि जानाति अयुक्तो वापि सुव्रते ।
बहिर्लिङ्गानि तान्यत्र अङ्गारिष्टानि मे शृणु ॥२६३॥
शुष्कताल्वोष्ठकण्ठश्चेदकस्माद्धूसरच्छविः ।
स्कन्धौ च भङ्गमायातः षण्मासान्मृत्युमाप्नुयाथ् ॥२६४॥
सुनीलं मण्डलं व्योम्नि यः पश्यति दिने दिने ।
सितं हरितकृष्णं च वत्सरार्धान्म्रियेत सः ॥२६५॥
विरश्मिं पश्यति रविं सोमं वै लक्ष्मवर्जितं ।
तारां ज्योत्स्नां च कृष्णां वै पश्येत्षण्मासजीवितः ॥२६६॥
हिरण्यवर्णं पुरुषं पिङ्गलं कृष्णमेव च ।
स्वप्ने संपश्यते यो वै षण्मासान्सोऽपि जीवति ॥२६७॥
आत्मनो ह्यशिरच्छायां पश्येत्षण्मासजीवितः ।
तैलाभ्यङ्गं तथा पानं रक्तस्रगनुलेपनं ॥२६८॥
रक्ताम्बराणि कृष्णानि स्वप्ने पश्यति वै यदा ।
प्रेतैः पिशाचै रक्षोभिः श्वगोमायुकसूकरैः ॥२६९॥
वृतं यातं गृद्ध्रकाकैर्महिषैरुष्ट्रगर्दभैः ।
अङ्गभक्षणमुद्वाहं नग्नं चातीव विह्वलं ॥२७०॥
स्वप्ने च पश्यते यो वै वर्षमेकं स जीवति ।
शंखावर्ते भुजामध्ये गुल्फयोर्मर्मसन्धिषु ॥२७१॥
सोऽवश्यं वधमायाति यस्यैतत्स्पन्दनं न हि ।
सोमार्कमण्डलं देहे ध्रुवं चैव त्वरुन्धतीं ॥२७२॥
न पश्यति महायानं सोऽवश्यं म्रियते नरः ।
तालुरन्ध्रगतो धूमो महायानं तदुच्यते ॥२७३॥
जिह्वा त्वरुन्धतीत्युक्ता नासाग्रं ध्रुव उच्यते ।
नेत्रान्ते करजाक्रान्ते मण्डलं सोमसूर्ययोः ॥२७४॥
न पश्येद्गगनेऽप्येतत्सोऽवश्यं म्रियते नरः ।
स्थूलोऽकस्माच्च जायेत अकस्माद्वै भवेत्कृशः ॥२७५॥
अतिक्रुद्धोऽतिभीतश्च वर्षमेकं स जीवति ।
कृष्णाम्बरधरं कृष्णं लोहदण्डकरोद्यतं ॥२७६॥
नरं चाभिमुखं स्वप्ने दृष्ट्वा मासत्रयायुषं ।
हृदयं शुष्यते यस्य स्नातमात्रस्य तत्क्षणाथ् ॥२७७॥
गात्रं चैवाप्यनुष्णं च ऋतुमेकं स जीवति ।
धनुर्निशि दिवा चोल्का व्यभ्रे विद्युत्प्रदर्शनं ॥२७८॥
दिग्दाहोऽप्लुष्टदेशेऽपि मासमेकं स जीवति ।
चक्षुषी स्रवतो यस्य शब्दं न शृणुयात्स्फुटं ॥२७९॥
नाघ्राति गन्धं वाग्जाड्यं मासमेकं गतायुषः ।
रक्तपद्मोपमं वक्त्रं जिह्वा कृष्णा च यस्य वै ॥२८०॥
गात्रे वर्णान्यनेकानि हृदयं यस्य रोदिति ।
तालुकम्पोऽथ नाभेश्च अर्धमासं स जीवति ॥२८१॥
प्रत्यक्षकाकनासीरो दीपधूमं न जिघ्रति ।
पूर्वदृष्टं न जानाति चतुर्मासं स जीवति ॥२८२॥
बिन्दुं यस्तु न पश्येत्तु नित्यं वक्त्रानुगं हितं ।
नित्यं वहति हिक्कां तु वर्षमेकं स जीवति ॥२८३॥
बहिर्लिङ्गानि चैतानि अङ्गारिष्टानि यानि च ।
पूजया जपहोमेन ध्यानधारणया प्रिये ॥२८४॥
कृतरक्षाविधानेन जीयन्ते नात्र संशयः ।
नाडीनां शोधनं चैव वायूनां च जयः कथं ॥२८५॥
स्थानं रूपं च शब्दं च कर्म ब्रूहि मम प्रभो ।
परमो योगसद्भावो गुह्याद्गुह्यतरः प्रिये ॥२८६॥
यो न कस्यचिदाख्यातस्तं योगं शृणु तत्त्वतः ।
सुप्रशस्ते भूप्रदेशे नाग्नितोयसमीपतः ॥२८७॥
वालुकाशर्कराहीने शुष्कवृक्षविवर्जिते ।
निःशब्दकीटवल्मीके ईतिभिः परिवर्जिते ॥२८८॥
पुण्ये धर्मिष्ठसंवासे तत्र योगं समभ्यसेथ् ।
देवदेवं समभ्यर्च्य भैरवं सविनायकं ॥२८९॥
पूर्वाचार्यान्नमस्कृत्य युक्तो ध्यानपरायणः ।
आसनं स्वस्तिकं बद्ध्वा पद्मकं भद्रमेव वा ॥२९०॥
सापाश्रयं सार्धचन्द्रं योगपट्टं यथासुखं ।
दहनोत्पूयने कृत्वा प्लावयेदमृतेन च ॥२९१॥
सबाह्याभ्यन्तरेणैव सकलीकरणं ततः ।
अन्तर्यागं यथापूर्वं उच्चार्यं च परं तथा ॥२९२॥
दशधा योगमार्गेण हंसस्वच्छन्दमभ्यसेथ् ।
मन्त्रं बिन्दुमतीतं तु नादान्तज्योतिराकृतिं ॥२९३॥
संकल्प्य कल्पनालक्ष्यं ध्यायेद्वै तेन सर्वगं ।
अपसव्येन पूर्येत सव्येनैव विरेचयेथ् ॥२९४॥
नाडीसंशोधनं चैतन्मोक्षमार्गपथस्य च ।
रेचनात्पूरणाद्रोधात्प्राणायामस्रिधा स्मृतः ॥२९५॥
सामान्या बहिरेते तु पुनश्चाभ्यन्तरे त्रयः ।
आभ्यन्तरेण रेच्येत पूर्येताभ्यन्तरेण तु ॥२९६॥
निष्कम्पं कुम्भकं कृत्वा कार्याश्चाभ्यन्तरास्त्रयः ।
नाभ्यां हृदयसंचारान्मनश्चेन्द्रियगोचराथ् ॥२९७॥
प्राणायामश्चतुर्थस्तु सुप्रशान्त इति श्रुतः ।
प्राणरोधे तु संपूर्णे नाभौ नीत्वा समुच्छ्वसन् ॥२९८॥
शनैर्विमोचयेद्वायुं वामनासापुटेन तु ।
वायवी धारणाङ्गुष्ठे आग्नेयी नाभिमध्यतः ॥२९९॥
माहेयी कण्ठदेशे तु वारुणी घण्टिकाश्रया ।
आकाशधारणा मूर्ध्नि सर्वसिद्धिकरी स्मृता ॥३००॥
एकद्वित्रिचतुष्पञ्च- संख्योद्धातैः प्रसिद्ध्यति ।
संनिरुद्धे तु वै प्राणे मूर्ध्नि गत्वा निवर्तते ॥३०१॥
स उद्घात इति प्रोक्तो ज्ञातव्यो योगिभिः सदा ।
रागद्वेषौ प्रहीयेते प्राणायामैः सुधारितैः ॥३०२॥
धारणाभिर्दहेत्पापं प्रत्याहारेऽक्षसंयमः ।
हृद्गुदे नाभिकण्ठे च सर्वसन्धौ तथैव च  ॥३०३॥
प्राणाद्याः संस्थिता ह्येते रूपं शब्दं च मे शृणु ।
द्रुततारनिभो रक्त इन्द्रगोपकसंनिभः ॥३०४॥
क्षीराभः स्फटिकाभश्च पञ्चानां रूपलक्षणं ।
घण्टाकंसाब्दमधुरो गजनादो महाध्वनिः ॥३०५॥
प्राणादिनां तु पञ्चानां अयं शब्द उदाहृतः ।
जल्पितं हसितं गीतं नृत्तं युद्धगतिः कलाः ॥३०६॥
शिल्पं च सर्वकर्माणि प्राणस्यैव विचेष्टितं ।
प्रवेशयेदन्नपानं तन्मलं स्रावयेदधः ॥३०७॥
अन्धत्वं श्रोत्ररोगं च अपानस्तु करिष्यति ।
अशितं लीढपीतं च समानः समतां नयेथ् ॥३०८॥
क्षोभो हिक्का तथा छिक्का उदानस्य विचेष्टितं ।
स्वेदश्च रोमहर्षश्च शूलं दाहोऽङ्गभञ्जनं ॥३०९॥
व्यानस्यैतानि कर्माणि स्पर्शं चैव स विन्दति ।
अङ्गुष्ठजानुहृदये लोचने मूर्ध्नि संस्थिताः ॥३१०॥
नागाद्याः बहुरूपाश्च कर्म त्वेषां निबोध मे ।
आह्लादोद्वेगजनकः शोषणस्त्रासनस्तथा ॥३११॥
नागः कूर्मश्च कृकरो देवदत्तश्च पञ्चमः ।
अतिनिद्राकरश्चान्यो योजकश्च धनंजयः ॥३१२॥
श्वाससंकोचनच्छेदा घुर्घुरोत्क्रमणं तथा ।
नागादीनां तु पञ्चानां मृत्युकाले विचेष्टितं ॥३१३॥
न चैव याति चोत्क्रान्तौ तनुं त्यक्त्वा धनञ्जयः ।
आकुञ्चयति वै कूर्मः शोषयेच्च कलेवरं ॥३१४॥
प्राणमेव जयेत्पूर्वं जिते प्राणे जितं मनः ।
जिते मनसि शान्तस्य परं तत्त्वं प्रकाशते ॥३१५॥
प्राणापानं गुदे ध्यायेत्प्राणसमानं नाभितः ।
प्राणोदानं तु कण्ठे तु प्राणव्यानं तु सर्वगं ॥३१६॥
नागाद्याः प्राणसंयुक्ताः स्वस्थानेषु निरोधयेथ् ।
निरुद्धस्य च यः कालस्तं वक्ष्यामि निबोध मे ॥३१७॥
तालात्प्रभृति तं ध्यायेद्यावत्पञ्चशतं गतं ।
जितोऽनिलो भवत्येव संक्रान्त्युत्क्रान्तिकर्मणि ॥३१८॥
दिव्या कान्तिः शुभो गन्धः प्रज्ञा चास्य विवर्धते ।
दिव्या दृष्टिश्च श्रवणं दिव्या वाक्च प्रजायते ॥३१९॥
वायुवद्विचरेल्लोकान्सिद्धान्देवांश्च पश्यति ।
मनसा चिन्तितावाप्तिः प्रवर्तेत गुणाष्टकं ॥३२०॥
सर्वकामसुसंपूर्णः सर्वद्वन्द्वविवर्जितः ।
संसारबन्धनिर्मुक्तः शिवतुल्यश्च जायते ॥३२१॥
प्राणापानौ तु संयोज्य ह्रस्वकोटिसमन्वितौ ।
नाभ्याधारे च योगीन्द्रः स्वेदः कम्पश्च जायते ॥३२२॥
पुनरेव तु हृत्स्थौ हि प्राणापानौ निरोधयेथ् ।
दीर्घकोटिसमायोगात्तत्क्षणाच्च पतेद्भुवि ॥३२३॥
कण्ठस्थं च तथैवेह प्राणमेव निरोधयेथ् ।
प्लुतकोटिसमायोगात्स्वप्नवृत्तिस्ततो भवेथ् ॥३२४॥
भ्रूमध्ये बिन्दुयोगेन प्राणरोधं तु कारयेथ् ।
सुषुप्तं जायते तत्र क्षणाच्चैव प्रबुद्ध्यते ॥३२५॥
मूर्धद्वारं समाश्रित्य निष्कलं ध्यानमारभेथ् ।
एवमभ्यसतस्तस्य प्रत्ययस्तु तदा भवेथ् ॥३२६॥
पिपीलकण्टकावेधो मूर्ध्वद्वारं विभिन्दतः ।
भित्त्वा क्रमेण सर्वणि उन्मन्यन्तानि यानि तु ॥३२७॥
पूर्वोक्तलक्ष्णैर्देवि त्यक्त्वा स्वच्छन्दतां व्रजेथ् ।
जायते उन्मनस्त्वं हि देहेनानेन साधके ॥३२८॥
संक्रामेत्परदेहेषु क्षुत्तृष्णाभ्यां न बाध्यते ।
अतीतानागतं चैव त्रैलोक्ये यत्प्रवर्तते ॥३२९॥
प्रत्यक्षं तद्भवेत्तस्य सर्वज्ञत्वं च जायते ।
प्रसङ्गेऽध्यात्मकालस्य ज्ञानं विज्ञानमेव च ॥३३०॥
सर्वमेतत्समाख्यातं अंशकांश्च निबोध मे ॥३३१॥

इति स्वच्छन्दतन्त्रे सप्तमः पटलः

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2012-06-16T02:48:50.6700000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

marginal productivity

  • सीमांतिक उत्पादकता 
  • सीमांत उत्पादनक्षमता 
  • सीमांतिक उत्पादकता 
RANDOM WORD

Did you know?

Why Cows are considered secred in Hinduism?
Category : Hindu - Philosophy
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.