TransLiteral Foundation

स्वच्छन्दभैरवतन्त्र - दशमः पटलः १३

स्वच्छन्दभैरवतन्त्र हे एक असे तंत्र आहे, ज्यापासून प्रत्यक्ष भैरव मदतीला उभे राहतात.


दशमः पटलः १३
भुक्तिमुक्तिप्रदाता च साधकानां क्रियावतां ।
कोटयः सप्तमन्त्राणां आसने तस्य संस्थिताः ॥१२०१॥
आसनं लक्षपत्राढ्यं चन्द्रकोट्ययुतप्रभं ।
वामाद्यैर्विभुपूर्वैश्च पञ्चवक्त्रैस्त्रिलोचनैः ॥१२०२॥
ताराद्यैः शक्तिभेदैश्च प्राग्दिशः परिवारितं ।
ज्ञानशक्तिः क्रियाशक्तिर्वामे दक्षिणतः स्थिते ॥१२०३॥
इच्छाशक्तिः परादेवि यया सर्वमधिष्ठितं ।
उत्पत्तिस्थितिसंहारांस्तिरोभावमनुग्रहं ॥१२०४॥
यया करोति देवेशः सर्वदा सर्वमध्वनि ।
तस्योत्सङ्गगता सा तु नित्यं चैवात्मवर्तिनी ॥१२०५॥
सा चेच्छा देवदेवस्य शिवस्य परमात्मनः ।
स एवापररूपेण पञ्चमन्त्रमहातनुः ॥१२०६॥
इच्छारूपधरः श्रीमान्देवदेवः सदाशिवः ।
शक्तयस्तस्य याः प्रोक्ताः तथा वै मन्त्रनायकाः ॥१२०७॥
एकैकं परितो देवि पद्मैरर्बुदकोटिभिः ।
तथा खर्वनिखर्वैश्च प्रतिरूपैर्महाबलैः ॥१२०८॥
विद्यारूपैः स्वरूपाढैरप्रमेयगुणान्वितैः ।
सर्वलक्षणसंपन्नैः सर्वाभरणभूषितैः ॥१२०९॥
हास्यलास्यविलासाढ्यैर्भ्रूक्षेपोन्मदविभ्रमैः ।
चन्द्रकोटिशतप्रख्यैः प्रस्रवद्भिरिवामृतं ॥१२१०॥
ताभिः सार्धं सदा रुद्राः प्रकीडन्तीच्छया प्रभोः ।
पुरवरैः सर्वतोभद्रैश्चन्द्रकोटिसमप्रभैः ॥१२११॥
मायाधर्मविनिर्मुक्ता निर्मला विगतज्वराः ।
अधिकारं प्रकुर्वन्ति सर्वज्ञामोघशक्तयः ॥१२१२॥
अधिकारक्षये शान्ता जायन्ते सर्वगाः शिवाः ।
परप्रेर्याः पुनर्भूयो न भवन्ति कदाचन ॥१२१३॥
सुशिवावरणं ख्यातं मन्त्रगर्भं वरानने ।
बिन्द्वावरणमूर्ध्वेऽतश्चन्द्रकोटिसमप्रभं ॥१२१४॥
तत्र पद्मं महादीप्तं दशकोटिसमन्वितं ।
तत्र पद्मे स्थितो देवः शान्त्यतीतो महाद्युतिः ॥१२१५॥
पञ्चवक्त्रो विशालाक्षो दशबाहुस्त्रीलोचनः ।
तडित्सहस्रपुञ्जाभः स्फुरन्माणिक्यमण्डितः ॥१२१६॥
निवृत्तिश्च प्रतिष्ठा च विद्या शान्तिस्तथैव च ।
परिवारः स्मृतस्तस्य शान्त्यतीतस्य सुव्रते ॥१२१७॥
तस्य वामे तु दिग्भागे शान्त्यतीता व्यवस्थिता ।
पञ्चवक्त्राः स्मृताः सर्वा दशबाह्विन्दुशेखराः ॥१२१८॥
बिन्दुतत्त्वं समाख्यातं पुरकोट्यर्बुदैर्वृतं ।
अर्धचन्द्रस्तदूर्ध्वे तु तदूर्ध्वे तु निरोधिका ॥१२१९॥
एते द्वे तु महास्थाने पञ्चपञ्चकलान्विते ।
ज्योत्स्ना ज्योत्स्नावती कान्तिः सुप्रभा विमला शिवा ॥१२२०॥
अर्धचन्द्रे स्थिताह्येता निरोधिन्यां शृणु प्रिये ।
रुन्धनी रोधनी रौद्री ज्ञानबोधा तमोपहा ॥१२२१॥
अर्धमात्रः स्मृतो बिन्दुः स्वरूपश्च चतुष्कलः ।
तस्याप्यर्धमर्धचन्द्रस्त्वष्टांशश्च निरोधिका ॥१२२२॥
निरोधयति देवान्सा ब्रह्माद्यांस्तु वरानने ।
निरोधिनीति विख्याता तां भित्त्वा तु वरानने ॥१२२३॥
सादाख्यपरभावेन पञ्चमन्त्रकहातनुः ।
तस्योर्ध्वे तु स्मृतो नादः स किञ्जल्करजः प्रभः ॥१२२४॥
महद्भिः पुरुषैर्व्याप्तः सूर्यकोट्ययुतप्रभैः ।
तेषां वै नायिका वक्स्ये भुवने पञ्चसङ्ख्यया ॥१२२५॥
इन्धिका दीपिका चैव रोचिका मोचिका तथा ।
ऊर्ध्वगा तु समाख्याता कलात्वेषा तु पञ्चमी ॥१२२६॥
तस्मिन्पद्मं सुविस्तीर्णं ऊर्ध्वगेशः स्थितः प्रभुः ।
चन्द्रार्बुदप्रतीकाशः पञ्चवक्त्रस्त्रिलोचनः ॥१२२७॥
चन्द्रार्धशेखरः शान्तो दशबाहुर्महातनुः ।
इन्धिकादिवृतो देवः शूलपाणिर्जटाधरः ॥१२२८॥
ऊर्ध्वगा तु कला तस्य नित्यमुत्सङ्गगामिनी ।
ततः सुषुम्णाभुवनं सुषुम्णा तत्र संस्थिता ॥१२२९॥
सुषुम्णेशः स्थितस्तत्र चन्द्रकोट्ययुतप्रभः ।
दशबाहुस्त्रिनेत्रश्च श्वेतपद्मोपरिस्थितः ॥१२३०॥
शशाङ्कशेखरः श्रीमान्पञ्चवक्त्रो महातनुः ।
इडा च पिङ्गला चैव वामदक्षिणतः स्थिते ॥१२३१॥
सुषुम्णा तु वरारोहे तुषारकणधूसरा ।
श्वेतपद्मकरा देवी पद्ममालाविभूषिता ॥१२३२॥
पञ्चवक्त्रा सुशोभाढ्या त्रिनेत्रा शूलधारिणी ।
तस्योत्सङ्गगता देवी ध्यातव्या साधकादिभिः ॥१२३३॥
ग्रथितस्तु तया सर्वस्त्वध्वायमध ऊर्ध्वगः ।
नाड्याधारस्तु नादो वै भित्त्वा सर्वमिदं जगथ् ॥१२३४॥
अधःशक्त्या विनिर्गतय यावद्ब्रह्माणमूर्ध्वतः ।
नाड्या ब्रह्मबिले लीनस्त्वव्यक्तध्वनिरक्षरः ॥१२३५॥
नदते सर्वभूतेषु शिवशक्त्या त्वधिष्ठितः ।
एवं ज्ञात्वा वरारोहे शोधयेत्तं शिवाध्वरे ॥१२३६॥
ततो ब्रह्मबिलं ज्ञेयं रुद्रकोट्यर्बुदान्वितं ।
तत्र ब्रह्मा परो ज्ञेयः शशाङ्कशतसप्रब्भः ॥१२३७॥
दशबाहुस्त्रिनेत्रश्च पञ्चवक्त्रेन्दुशेखरः ।
त्रिशूलपाणिर्भगवाञ्जटामुकुटमण्डितः ॥१२३८॥
ब्रह्माणि तु परा शक्तिर्या सा मोक्षपथे स्थिता ।
द्वारं या मोक्षमार्गस्य रोधयित्वा व्यवस्थिता ॥१२३९॥
मोक्षमार्गप्रदात्री च ब्रह्मोत्सङ्गे च संस्थिता ।
तां भित्त्वात्र वरारोहे गन्तव्यमूर्ध्वतः प्रिये ॥१२४०॥
अत ऊर्ध्वं स्थिता शक्तिः प्रसुप्तभुजगाकृतिः ।
आधारो भुवनानां सा तां प्रवक्ष्यामि सुव्रते ॥१२४१॥
सूक्ष्मा चैव सुसूक्ष्मा च तथा चान्यामृतामिता ।
व्यापिनी मध्यतो ज्ञेया शेषाः पूर्वादितः क्रमाथ् ॥१२४२॥
पञ्चवक्त्रास्त्रिनेत्राश्च सुतेजस्का महाबलाः ।
शक्तितत्त्वं समाख्यातं शिवतत्त्वं शृणु प्रिये ॥१२४३॥
पुरश्रेष्ठैरनेकैस्तु समन्तात्परिवारितं ।
हेमप्राकाररचितं रत्नमाणिक्यमण्डितं ॥१२४४॥
अशेषभोगसम्पन्नं सर्वकामगुणोदयं ।
भुवनानि प्रवक्ष्यामि तत्रैव संस्थितानि तु ॥१२४५॥
व्यापकं व्योमरूपं च अनन्तानाथनाश्रितं ।
कारणानां पञ्चकं च शिवतत्त्वे व्यवस्थितं ॥१२४६॥
तत्र पद्मं सुविस्थीर्णं अनन्तानन्तसम्भवं ।
तस्य पद्मस्य मध्यस्थो देवश्चायमनाश्रितः ॥१२४७॥
पञ्चवक्त्रधरः शान्तः सर्वज्ञः परमेश्वरः ।
दशबाहुर्महादीप्तः सृष्टिसंहारकारकः ॥१२४८॥
सर्वानुग्रहकर्ता च प्रणतार्तिविनाशनः ।
भुक्तिमुक्तिप्रदाता च सूर्यकोट्यर्बुदप्रभः ॥१२४९॥
स्फुरन्मुकुटमाणिक्यः समन्तादुपशोभितः ।
दिव्याम्बरधरो देवो दिव्यगन्धानुलेपनः ॥१२५०॥
पद्मासनोन्नतोरस्कः शशाङ्ककृतशेखरः ।
आबद्धमणिपर्यङ्कश्चामरोत्क्षेपवीजितः ॥१२५१॥
रुद्रकोट्यर्बुदानीकैः समन्तादुपशोभितः ।
व्यापिनी व्योमरूपा चा- नन्तानाथात्वनाश्रिता ॥१२५२॥
पञ्चवक्त्रा महावीर्या दशबाह्विन्दुशेखराः ।
त्रिनेत्राः शूलहस्ताश्च कारणैश्च समन्विताः ॥१२५३॥
पूर्वाद्युत्तरपर्यन्ता एताश्चैव व्यवस्थिताः ।
अनाश्रितो मध्यगस्तु संस्थितः प्रभुरव्ययः ॥१२५४॥
अनाश्रितकला देवी तस्योत्सङ्गे च संस्थिता ।
एवं वै शिवतत्त्वं तु कथितं तव सुन्दरि ॥१२५५॥
शोधयित्वा ततश्चोर्ध्वं शक्तिश्चैव परा स्मृता ।
समना नाम सा ज्ञेया मनश्चोर्ध्वं न जायते ॥१२५६॥
परिपाट्या स्थितानां तु पृथिव्यादिशिवावधौ ।
सर्वेषां कारणानां च कर्तृभूता व्यवस्थिता ॥१२५७॥
बिभर्त्यण्डान्यनेकानि शिवेन समधिष्ठिता ।
तत्रारुढस्तु कुरुते शिवः परमकारणं ॥१२५८॥
सृष्टिस्थितिसमाहारं तिरोभावमनुग्रहं ।
हेतुकर्ता महेशानः सर्वकारणकारणं ॥१२५९॥
समना नाम या शक्तिः सा तस्य करणं स्मृतं ।
तयाधितिष्ठेद्देवेशो ह्यधःकारणपञ्चकं ॥१२६०॥
अनाश्रितस्य देवस्य कारणं सेयमाश्रिता ।
स वै प्रेरयते भूयस्त्वनाथं तु जगत्पतिं ॥१२६१॥
अनाथश्चाप्यनन्तेशं अनन्तो व्योमरूपिणं ।
व्योमव्यापी महादेवो व्यापिनं बोधयेत्प्रभुं ॥१२६२॥
व्यापिनी करणं तस्य कर्ता वै व्याप्यसौ प्रभुः ।
कर्मरूपा स्थिता माया यदधः शक्तिकुण्डली ॥१२६३॥
नादबिन्द्वात्मकं कार्यं इत्यादिजगदुद्भवः ।
यत्सदाशिवपर्यन्तं पार्थिवाद्यं च सुव्रते ॥१२६४॥
तत्सर्वं प्राकृतं ज्ञेयं विनाशोत्पत्तिसंयुतं ।
या सा शक्तिः पुरा प्रोक्ता समना त्वध्वमूर्धनि ॥१२६५॥
स्फुरत्सूर्यसहस्राभ- किरणानन्तभास्वरा ।
ध्यात्वा चैतां समावाह्य स्थापयेत्तु विधानविथ् ॥१२६६॥
उपचारं ततः कृत्वा वागीश्यावाहनं तथा ।
स्थापनं पूजनं चैव पशोर्यागं तथैव च ॥१२६७॥
गर्भधारित्वजनने अधिकारं तथैव च ।
योगं भोगं लयं चैव निष्कृतिं तदनन्तरं ॥१२६८॥
भुवनाधिपहोमं च भुवनाधिपवासिनां ।
भुवनानां यथायोगं होमं कृत्वा वरानने ॥१२६९॥
त्रितत्त्वं शधयेच्चातोऽवयवांश्च यथाक्रमं ।
विश्लेषपाशच्छेदौ च कृत्वा पूर्णां तु पातयेथ् ॥१२७०॥
प्रायश्चित्तं ततो हुत्वा कर्तरीमभिमन्त्रयेथ् ।
शिखां च्छित्वा समर्प्यैतां शिशुं संस्नापयेद्गुरुः ॥१२७१॥
आचार्यः प्रयतो भूत्वा सकलीकरणादिकं ।
स्रुचोऽग्रे तु शिखां कृत्वा हुत्वा स्नायादनन्तरं ॥१२७२॥
सकलीकरणं कृत्वा आचार्यस्तु वरानने ।
शिशोरपि विधिं कृत्वा शिवकुम्भं समर्चयेथ् ॥१२७३॥
भैरवं मध्यदेशस्थं भैरवाग्निं समर्चयेथ् ।
पूर्णां सम्पूर्य विधिवद्वाममन्त्रमनुस्मरन् ॥१२७४॥
पूर्वोक्तलक्षणेनैव प्रोच्चरेत्तं प्रयत्नतः ।
हेयाध्वानमधः कुर्वन्नेचयेत्तं वरानने ॥१२७५॥
यावत्सा समना शक्तिः तदूर्ध्वे चोन्मना स्मृता ।
नात्र कालः कलाश्चारो न तत्त्वं न च देवताः ॥१२७६॥
सुनिर्वाणं परं शुद्धं गुरुवक्त्रं तदुच्यते ।
तदतीतं वरारोहे परं तत्त्वमनामयं ॥१२७७॥
गुरुवक्त्रप्रयोगेण तस्मिन्योज्येत शाश्वते ।
निष्कम्पे कारणातीते विरजे निर्मले शुभे ॥१२७८॥
सर्वज्ञे परमे तत्त्वे व्योमातीते ह्यतीन्द्रिये ।
इत्यध्वा चैष वै प्रोक्तः समासेन मयानघे ॥१२७९॥
ज्ञात्वा चैवं महादेवि प्रयाति परमं पदं ।
देहे देवे च शिष्ये च कलशे ह्यग्निमध्यतः ।
एवं ज्ञात्वा वरारोहे मुच्यते मोचयत्यपि ॥१२८०॥


इति स्वच्छन्दतन्त्रे दशमः पटलः समाप्तः

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2012-06-16T04:50:15.9200000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

आडखिळा

  • पु. १ ( ल .) प्रतिबंध ; प्रतिबंधक गोष्ट , वस्तु ( उदा अनिष्ट शिक ; मांजर आडवें येणें ; कामांत खो घालणें ). २ विध्न ; अडचण ( येणें , आणणें ). आड ) 
  • पु. लगोरीची रचना ; ज्यावर नेम धरावयाचा असें स्थळ ; निशाण ; लक्ष्य . आपणचि आडखिळा कीजे । तो कौतुकें जैसा विंधोनि पाडिजे । - ज्ञा ११ . ४७८ . [ आड + सं . कीलक ; प्रा . खिल्ल = खिळविणें ? ] 
RANDOM WORD

Did you know?

एखाद्या वास्तुला वास्तुशास्त्रानुसार कोणतेच उपाय नसल्यास, मग कांहीे उपाय आहे काय?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.