TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

स्वच्छन्दभैरवतन्त्र - दशमः पटलः ३

स्वच्छन्दभैरवतन्त्र हे एक असे तंत्र आहे, ज्यापासून प्रत्यक्ष भैरव मदतीला उभे राहतात.


दशमः पटलः ३
नीलश्च निषधश्चैव लक्षयामौ प्रकीर्तितौ ।
श्वेतश्च हेमकूटश्च सहस्रनवतिः स्मृतौ ॥२०१॥
हिमवान्शृङ्गवांश्चैव सहस्राशीतिरेव तु ।
लवणोदधिपर्यन्ताः सहस्रद्वयविस्तृताः ॥२०२॥
कैलासयुक्तो हिमवांस्त्रिशृङ्गश्च सजारुधिः ।
शृङ्गवांश्चन्द्रकनिभः सितः श्वेतो विराजते ॥२०३॥
नीलरत्नमयो नीलो निषधः पद्मरागभः ।
सौवर्णो हेमकूटश्च हिमाभो हिमवानिति ॥२०४॥
पूर्वेण माल्यवान्मेरोः पर्वतस्तु विराजते ।
चतुस्त्रिंशत्सहस्राणि योजनानां सुरेश्वरि ॥२०५॥
याम्योत्तरायतो भाति सहस्रं तस्य विस्तृतिः ।
तथैवापरदिग्भागे तत्तुल्यो गन्धमादनः ॥२०६॥
नीलश्च निषधश्चैव माल्यवान्गन्धमादनः ।
चत्वारिंशत्सहस्राणि योजनानां समुच्छ्रिताः ॥२०७॥
चतुर्दिक्षु गतौ मेरोर्द्वौ द्वौ सीमान्तपर्वतौ ।
जठरो हेमकूटस्तु पूर्वभागे व्यवस्थितौ ॥२०८॥
कैलासो हिमवांश्चैव दक्षभागे व्यवस्थितौ ।
निषधः पारियात्रश्च अपरेण महीधरौ ॥२०९॥
जारुधिः शृङ्गवांश्चैव उत्तरेण व्यवस्थितौ ।
मेरोः समन्ततो रम्यं इलावृतमुदाहृतं ॥२१०॥
अधस्ताच्चक्रवाटस्य नवसाहस्रविस्तृतं ।
योजनानां चतुर्दिक्षु चतुरश्रं समन्ततः ॥२११॥
नातपो भानुजस्तत्र न च सोमस्य रश्मयः ।
प्रभवन्ति हि लोकानां मेरोर्भासा प्रभासितं ॥२१२॥
प्रत्यग्राम्बुजपत्राभा जनाश्चातीव कोमलाः ।
जम्बूरसफलाहारा जरामृत्युविवर्जिताः ॥२१३॥
त्रयोदशाब्दसाहस्रं तेषामायुः प्रकीर्तितं ।
देवगन्धर्वसिद्धाश्च ऋषयोऽथ विनायकाः ॥२१४॥
गणमातृभगिन्यश्च वेताला राक्षसादयः ।
एवमाद्यैरसंख्यातैर्वृतं चैतदिलावृतं ॥२१५॥
गन्धमादनवारुण्यां समुद्रस्य च पूर्वतः ।
केतुमालमिति ख्यातं वर्षं सर्वगुणोत्तमं ॥२१६॥
नीलोत्पलदलश्यामा जनास्तत्र सुशोभनाः ।
पनसस्य रसं पीत्वा जीवन्त्ययुतमेव च ॥२१७॥
जयन्तो वर्धमानश्च अशोको हरिपर्वतः ।
विशालः कम्बलः कृष्णस्तत्र सप्त कुलाद्रयः ॥२१८॥
माल्यवत्पूर्वभागेन समुद्रस्यापरेण तु ।
वर्षं भद्राश्वसंज्ञं च तत्रापि त्वयुतायुषः ॥२१९॥
जनाश्चन्द्रप्रतीकाशाः कालाम्रफलभोजनाः ।
कौरञ्जः श्वेतपर्णश्च नीलो मालाग्रकस्तथा ॥२२०॥
पद्मश्चैव समाख्यातास्तत्र पञ्च कुलाद्रयः ।
द्वात्रिंशत्तु सहस्राणि पूर्वपश्चायते स्मृते ॥२२१॥
चतुस्त्रिंशत्सहस्राणि दक्षिणोदक्समायते ।
वर्षे द्वे तु समाख्याते कुरुवर्षनिवासिनः ॥२२२॥
कुरवोनामलोकास्ते कुरुवृक्षफलाशिनः ।
त्रयोदशसहराणि जीवन्ति स्थिरयौवनाः ॥२२३॥
युग्मं युग्मं प्रसूयन्ते वियोगभयवर्जिताः ।
श्यामापुष्पनिभाः स्निग्धाः सुरूपाः पुरुषाः स्त्रियः ॥२२४॥
सर्वरत्नमयी भूमिर्हिमवालुकया चिता ।
नवयोजनसाहस्रं धन्वाकारं प्रकीर्तितं ॥२२५॥
सूर्यकान्तेन्दुकान्तौ च द्वौ तत्र कुलपर्वतौ ।
कल्पवृक्षः कुरुर्नाम तत्रैव कुसुमोज्ज्वलः ॥२२६॥
तस्य नाम्ना तु तज्ज्ञेयं कुरुवर्षं सुशोभनं ।
तस्यचोत्तरदिग्भागे प्रविश्य लवणोदधिं ॥२२७॥
पञ्चयोजनसाहस्रं चन्द्रद्वीपं प्रकीर्तितं ।
तथा वायव्यदिग्भागे प्रविश्य लवणोदधिं ॥२२८॥
योजनानां सहस्राणि चत्वार्येव वरानने ।
दशयोजनसाहस्रं द्वीपं भद्रं प्रकीर्तितं ॥२२९॥
भद्राकारमिति ज्ञेयं सर्वकामफलप्रदं ।
अयुतायुषो जनास्तत्र दिव्यामृतफलाशिनः ॥२३०॥
चन्द्राख्येऽप्ययुतं चायुर्जीवन्ति फलभोजिनः ।
श्वेतशृङ्गवतोश्चैव मध्ये ज्ञेयं हिरण्मयं ॥२३१॥
लकुचस्य फलं प्राश्य जनास्तत्रेन्दुसन्निभाः ।
जीवन्त्यब्दसहस्राणि मानेनार्धत्रयोदश ॥२३२॥
नीलस्योत्तरदिग्भागे तथा श्वेतस्य दक्षिणे ।
रम्यकं नाम वर्षं तु न्यग्रोधफलभोजनाः ॥२३३॥
नीलोत्पलदलश्यामा जरारोगविवर्जिताः ।
द्वादशाब्दसहस्राणि तेषामायुः प्रकीर्तितं ॥२३४॥
नवसाहस्रविस्तारं रम्यकं च हिरण्मयं ।
हेमकूटस्य स्ॐयेन दक्षिणे निषधस्य तु ॥२३५॥
हरिवर्षं समाख्यातं रौप्याभास्तत्र जन्तवः ।
द्वादशैव सहस्राणि जीवन्तीक्षुरसाशिनः ॥२३६॥
अतीव शोभनं तच्च नवसाहस्रविस्तृतं ।
हेमकूटस्य याम्येन हिमवतस्त्वथोत्तरे ॥२३७॥
वर्षं किंपुरुषं नाम तत्रहेमनिभा जनाः ।
नववर्षसहस्राणि जीवन्ति प्लक्षभोजनाः ॥२३८॥
नवैव तु सहस्राणि विस्तारस्तत्र कीरितः ।
याम्ये हिमाचलेन्द्रस्य उत्तरे लवणोदधेः ॥२३९॥
भारतं नाम वर्षं तु तत्र चाल्पं सुखं स्मृतं ।
जना रोगभयत्रस्ता दुःखिता मन्दसंपदः ॥२४०॥
सुरूपा मन्दरूपाश्च सुभगा दुर्भगाः परे ।
भोगिनो मन्दभोगाश्च तथान्येऽत्यन्तदुःखिताः ॥२४१॥
गौराः श्यामास्तथा कृष्णा बभ्रवः श्वेतपिङ्गलाः ।
वर्णजातिप्रभेदेन नानाकर्मानुरूपतः ॥२४२॥
चतुर्वर्णा अन्त्यजाश्च जायन्ते भारताह्वये ।
स्वदेशभाषायुक्तानि द्वीपद्वीपान्तराणि च ॥२४३॥
पण्डिताश्च तथा मूर्खाः शिल्पविज्ञानिनस्तथा ।
योगिनो ज्ञानिनश्चैव धर्मिष्ठाः पापिनोऽपरे ॥२४४॥
याचकाश्चापि जायन्ते दातारश्चापरे जनाः ।
प्रेष्या दासाश्च बहवो मानवाः सततं प्रिये ॥२४५॥
गुणस्त्वेकः स्थितस्तत्र शुभाशुभफलार्जनं ।
नष्टासु विद्यते काचिद्युगत्रयमयी स्थितिः ॥२४६॥
चतुर्युगवती ज्ञेया भारताख्ये वरानने ।
तत्रैव यत्कृतं कर्म शुभं वा यदि वाशुभं ॥२४७॥
वसन्ति तेन लोकाश्च शिवाद्यवीचिमध्यगाः ।
महाकालस्तथैकाम्रं एवमादि वरानने ॥२४८॥
तीर्थानां कोटिरुद्दिष्टा महापुण्यफलोदया ।
गङ्गादीनां नदीनां च तत्र पञ्च शतानि च ॥२४९॥
नवयोजनसाहस्रं धन्वाकारं निबोध तं ।
नव भेदाः स्मृतास्तत्र सागरान्तरिताः प्रिये ॥२५०॥
एकैकस्य तु द्वीपस्य सहस्रं परिकीर्तितं ।
शतानि पञ्च विज्ञेयं स्थलं पञ्च जलं तथा ॥२५१॥
परस्परमगम्यास्ते तेषां नामानि मे शृणु ।
इन्द्रद्वीपं कशेरुं च ताम्रवर्णं गभस्तिमथ् ॥२५२॥
नागद्वीपं च स्ॐयं च गान्धर्वं वारुणं तथा ।
द्वीपं कुमारिकाख्यं च नवमं परिकीर्तितं ॥२५३॥
बिन्दुसरः प्रभृत्येव कुमार्याह्वं प्रकीर्तितं ।
योजनानां सहस्रं तु नानावर्णाश्रमान्वितं ॥२५४॥
ये पूर्वोक्ता गुणा लोके भारते वरवर्णिनि ।
ते तत्रैव स्थिता लोके कुमारीसंज्ञके प्रिये ॥२५५॥
भूधराः सप्त विज्ञेयास्तत्रैव तु सुशोभनाः ।
महेन्द्रो मलयः सह्यः शक्तिमानृक्षपर्वतः ॥२५६॥
विन्ध्यश्च पारियात्रश्च भान्त्येते कुलपर्वताः ।
दक्षसागरमध्यस्थान्युपद्वीपानि षट्प्रिये ॥२५७॥
अङ्गद्वीपं यवाख्यं च मलयं शङ्खसंज्ञकं ।
कुमुदं च वराहं च इत्येवं परिकीर्तितं ॥२५८॥
कथितो मलयद्वीपे मलयो नाम पर्वतः ।
तस्यपादे त्रिकूटो वै लङ्का तस्योपरिस्थिता ॥२५९॥
चामीकरमयी शुभ्रा चत्वारोद्यानमण्डिता ।
चित्रप्राकाररचिता वज्रवैडूर्यमण्डिता ॥२६०॥
अनन्तविभवास्तत्र राक्षसा देवकन्यकाः ।
रमन्ते कन्यकासक्ता महाबलपराक्रमाः ॥२६१॥
अगस्त्यशिखरं तत्र मलये भूधरोत्तमे ।
तत्राश्रमो महापुण्य आगस्त्यः स्फाटिकप्रभः ॥२६२॥
तत्रान्योन्यविरुद्धास्तु सत्त्वाः क्रीडन्त्यशङ्किताः ।
न तत्र जायते मारी नाकालः संप्रवर्तते ॥२६३॥
न जरा न च शोकश्च नोपसर्गभयं क्वचिथ् ।
न वदत्यनृतं कश्चिद्रागद्वेषौ न कुत्रचिथ् ॥२६४॥
अगस्त्यस्य प्रभावेण त्वज्ञानं दूरतो गतं ।
तत्र वै ऋषयो वीरा ज्ञानयोगकृताश्रमाः ॥२६५॥
जपाध्ययन होमादि पूजास्तुतिपरायणाः ।
त्र्यम्बकस्य महादेवि नित्यमाराधने रताः ॥२६६॥
अगस्त्यसहिताः सर्वे मोक्षाभ्युदयवादिनः ।
तिष्ठन्ति भावितात्मानः शापानुग्रहकारिणः ॥२६७॥
लक्षयोजनविस्तीर्णं जम्बुद्वीपं समन्ततः ।
लक्षयोजनविस्तीर्णं लवणाम्भः स्थितं बहिः ॥२६८॥
त्रिगुणं परिणाहेन स्थितं वै मण्डलाकृति ।
वृत्रारिभयसंत्रस्ताः प्रविष्टास्तत्र पर्वताः ॥२६९॥
द्वादशैव महावीर्यास्तान्ब्रवीमि समासतः ।
वृषभो दुन्दुभिर्धूम्रः प्रविष्टाः पूर्वभागतः ॥२७०॥
चन्द्रः कङ्कस्तथा द्रोणः प्रविष्टा उत्तरेण तु ।
अशोकोऽथ वराहश्च नन्दनश्च तृतीयकः ॥२७१॥
अपरेण नगास्तत्र प्रविष्टा लवणोदधिं ।
चक्रो मैनाकसंज्ञश्च तृतीयस्तु बलाहकः ॥२७२॥
दक्षिणेन वरारोहे प्रविष्टाश्चैव भूधराः ।
चक्रमैनाकयोर्मध्ये तिष्ठेद्वे वडवामुखः ॥२७३॥
जम्बूद्वीपं समाख्यातं प्रभवस्त्वधुनोच्यते ।
स्वायंभुवो मनुर्नाम तस्य पुत्रः प्रियव्रतः ॥२७४॥
तस्याथ दश पुत्रा वै जाता वीर्यबलोत्कटाः ।
अग्नीध्रश्चाग्निबाहुश्च मेधा मेधातिथिर्वपुः ॥२७५॥
ज्योतिष्मान्द्युतिमान्हव्यः सवनः सत्र एव च ।
मेधाः सत्रोऽग्निबाहुश्च एते प्रव्रजितास्त्रयः ॥२७६॥
सप्तद्वीपेषु ये शेषा अभिषिक्ता महाबलाः ।
जम्बुद्वीपे तथाग्नीध्राः तस्य पुत्रा नव स्मृताः ॥२७७॥
नाभिः किंपुरुषश्चैव हरिश्चैव इलावृतः ।
भद्राश्वः केतुमालश्च रम्यकश्च हिरण्मयः ॥२७८॥
नवमस्तु कुरुर्नाम नववर्षाधिपाः स्मृताः ।
अग्नीध्रतस्तु जाता वै शूराश्चातिबलोत्कटाः ॥२७९॥
तेषां नामाङ्कितानीह नववर्षाणि पार्वति ।
नाभेः पुत्रो महावीर्यो वृषभो धर्मतत्परः ॥२८०॥
तस्यापि हि सुतो ज्ञेयो भरतस्तु प्रतापवान् ।
तन्नम्नैव तु विज्ञेयं भारतं वर्षमुत्तमं ॥२८१॥
तस्याप्यष्टौ पुनः पुत्रा जाता कन्यापरा प्रिये ।
भारते त्वष्टद्वीपेऽत्र अष्टौ पुत्रा निवेशिताः ॥२८२॥
नवमस्तु कुमार्याह्वः कुमार्याः प्रतिपादितः ।
तेषां नाम्ना तु ते द्वीपा भरतेन प्रकीर्तिताः ॥२८३॥
जम्बुद्वीपं च शाकं च कुशं क्रौञ्चं च शाल्मलिं ।
गोमेदं पुष्करं चैव सप्त द्वीपानि पार्वति ॥२८४॥
अधुना संप्रवक्ष्यामि समुद्रांस्तव सुव्रते ।
क्षारः क्षीरं दधि घृतं तथा इक्षुरसोऽपि च ॥२८५॥
मदिरोदश्च स्वादूदः समुद्राः सप्त कीर्तिताः ।
जम्बुद्वीपं स्मृतं लक्षं योजनानां प्रमाणतः ॥२८६॥
परिमण्डलतो ज्ञेयः क्षारोदस्तत्समो बहिः ।
एवं द्विगुणवृद्ध्यात्र समुद्रा द्वीपसंस्थिताः ॥२८७॥
अग्नीध्रश्च समाख्यातो जम्बुद्वीपे वरानने ।
शाके मेधातिथिर्नाम वपुष्मान्कुशसंज्ञके ॥२८८॥
राजा क्रौञ्चेऽथ ज्योतिष्मान्शाल्मलौ द्युतिमान्स्मृतः ।
गोमेदे हव्यनामा तु सवनः पुष्करे तथा ॥२८९॥
त्रेतायुगसमः कालः शाकगोमेदवासिनां ।
तथा वर्णाश्रमाचारा ज्ञेयास्तत्र निवासिनां ॥२९०॥
मेधातिथेः सप्त पुत्राः शाकद्वीपेऽभिषेचिताः ।
शान्तोऽभयस्त्वशिशिरः सुखदो नन्दकः शिवः ॥२९१॥
क्षेमकश्च ध्रुवश्चेति वर्षनाम्ना तु तेऽङ्किताः ।
वर्षाणि सप्त ख्यातानि पर्वतांश्च निबोध मे ॥२९२॥
गोमेदश्चन्द्रसंज्ञश्च नारदो दुन्दुभिस्तथा ।
सोमक ऋषभश्चैव वैभ्राजश्च कुलाद्रयः ॥२९३॥
सुकृता चानसूया च सुमुखी च तृतीयका ।
विपाशा त्रिदिवा कुम्भी तथा चामृतनालिका ॥२९४॥
एता एव महानद्यो गिरिष्वेतेषु निर्गताः ।
पूर्वादारभ्य निष्क्रान्ताः प्रविष्टाः क्षीरसागरं ॥२९५॥
शाकद्वीपे तु ये लोकाः क्षीराहाराः फलाशिनः ।
चन्द्रकान्तसमाः सर्वे सुरूपाः प्रियदर्शनाः ॥२९६॥
क्रीडन्ति दिव्यनारीभिः सर्वैश्वर्यसमन्विताः ।
कुशे वपुष्मता पूर्वं सप्त पुत्रा निवेशिताः ॥२९७॥
श्वेतलोहितजीमूता हरितो वैद्युतस्तथा ।
मानसः सुव्रतश्चेति वर्षनाम्नैव चाङ्किताः ॥२९८॥
कुमुदश्चोर्वदश्चैव वाराहो द्रोणकङ्कतौ ।
महिषः कुसुमश्चैव सप्त सीमन्तपर्वताः ॥२९९॥
श्वेततोया तथा कृष्णा चन्द्रा शुक्ला च लोचनी ।
वीवृता च विवृन्दा च सप्तैतास्तु सरिद्वराः ॥३००॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2012-06-16T02:58:14.3430000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

Receipts from the management of Ex-Zamindari estates

  • भूतपूर्व जमीनदारी मालमत्तेच्या व्यवस्थापनापासून येणाऱ्या जमा रकमा 
RANDOM WORD

Did you know?

हिंदू धर्मात मुलाचे जावळ काढतात परंतु मुलीचे का काढत नाहीत?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site