TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

स्वच्छन्दभैरवतन्त्र - षष्ठः पटलः

स्वच्छन्दभैरवतन्त्र हे एक असे तंत्र आहे, ज्यापासून प्रत्यक्ष भैरव मदतीला उभे राहतात.


षष्ठः पटलः
समयाचारयुक्तस्य साधकस्य वरानने ।
जायते विविधा सिद्धिः गिरिगह्वरमाश्रिते ॥१॥
सुशुद्धे भूप्रदेशे तु सर्वशल्यविवर्जिते ।
प्रच्छन्ने विजने रम्ये भैरवं तत्र पूजयेथ् ॥२॥
जपित्वाक्षरलक्षं तु बहुरूपस्य सुव्रते ।
पञ्चप्रणवसंयोगाज्जपतः सिद्ध्यते ध्रुवं ॥३॥
मुच्यते न तु सन्देहो भेदनात्प्रणवस्य तु ।
ह्रस्वं दीर्घं प्लुतं सूक्ष्मं अतिसूक्ष्मं परं शिवं॥ ४॥
प्रणवं पञ्चधा ज्ञात्वा भित्त्वा मोक्षो न संशयः ।
प्रणवः पञ्चधावस्थः हंसेन सह संयुक्तः ॥५॥
यत्किञ्चिद्वाङ्मयं लोके शिवज्ञाने प्रतिष्ठितं ।
शिवज्ञानं च तत्रस्थं हंसः प्रणवसंयुतः ॥६॥
विना प्रणवसंयोगाज्जीव एको व्यवस्थितः ।
यथाप्रकृति संयुक्तो न च तिष्ठति चैकतः ॥७॥
तथा षष्ठेन सम्भिन्नो देहे जीवः प्रवर्तते ।
चोदितस्तु यदा तेन तदा चोर्ध्वं प्रवर्तते ॥८॥
प्रत्यक्षमपि तत्तत्त्वं महामायाविमोहिताः ।
कथितं नाभिजानन्ति विना शास्त्रेण चोदनां ॥९॥
षष्ठश्चोर्ध्ववहो ज्ञेयः स्वभावमुखसंस्थितः ।
अप्रकाशः स्वदेहस्थो गुणभूतः प्रवर्तते ॥१०॥
निर्गुणस्तु यदा देव एकाकी कालवर्जितः ।
विज्ञातव्यं न किञ्चित्स्यात्केवलो निष्कलस्तु सः ॥११॥
तस्य रूपं शरीरं च नास्ति वर्णः क्रिया तथा ।
स कथं गृह्यते सूक्ष्म अग्राह्यो नित्यमव्ययः ॥१२॥
एतस्मात्कारणाद्देवि षष्ठं बीजं नियोजितं ।
पञ्चपञ्चकसंयुक्तो देहे सकलनिष्कलः ॥१३॥
ग्रहणं तु यदा तस्य योगी योगविचिन्तकः ।
योगेनावाहितस्यापि भावमात्रं तु भावयेथ् ॥१४॥
यदा करोति सृष्टिं च ऊर्ध्वं बिन्दुः प्रवर्तते ।
बिन्दूपरि च यच्छान्तः शिवः परमकारणं ॥१५॥
तत्र बिन्दुर्लयं याति तत्स्थानं दुर्लभं सुरैः ।
षष्ठस्वरसमायोगादभ्यासादचिराल्लभेथ् ॥१६॥
षष्ठश्च पञ्चमश्चैव तस्य देवि गुणाः स्मृताः ।
सगुणः सकलो ज्ञेयो निर्गुणो निष्कलः शिवः ॥१७॥
सकलो ग्रहसंयुक्तो निष्कलो भावमाश्रितः ।
सकले जप्यमाने तु जप्तो भवति निष्कलः ॥१८॥
सुरासुराणां देवेन यजनोपायहेतुना ।
रूपं तु सकलं तस्य द्विधावस्थं प्रकाशितं ॥१९॥
प्रथमं प्राकृतं रूपं विकृतं च द्वितीयकं ।
प्रकृतिर्विकृतिश्चैव उभे षष्ठेन संयुते ॥२०॥
ये पदार्थाः पुरा प्रोक्तास्तत्रासावुच्छ्वसन्मुहुः ।
प्रवर्तते च एतेन पुनस्तेन निवर्तते ॥२१॥
प्रणवः पञ्चधावस्थः त्रिवर्णश्च त्रिदैवतः ।
बिन्दुनादसमायुक्तः प्रणवः परिपठ्यते ॥२२॥
अकारश्च उकारश्च मकारश्च तृतीयकः ।
वर्णत्रयमिदं प्रोक्तं ब्रह्माद्या देवतास्त्रयः ॥२३॥
बिन्दुनादसमायोगादीश्वरश्च सदाशिवः ।
एते वै प्रणवाः पञ्च हंसः प्राणयुतः सदा ॥२४॥
परमात्मा शिवो हंसस्त्वपरेण समन्वितः ।
परतः प्रणवान्पञ्च पुनरेव वदाम्यहं ॥२५॥
शक्तिश्च व्यापिनी चैव समनात्मा च निष्कलः ।
उन्मना च तथा देवि प्रणवाः पञ्च कीर्तितः ॥२६॥
परतः परमो हंसः सर्वं व्याप्य व्यवस्थितः ।
एते वै प्रणवाः पञ्च परापरविभागशः ॥२७॥
परापरेण हंसेन नित्यमेव प्रणामिताः ।
प्रवर्तन्ते हि सर्वत्र भुक्तिमुक्तिफलप्रदाः ॥२८॥
पञ्चभिस्तु युतस्त्वेभिः स पञ्चप्रणवात्मकः ।
तत्रस्थः एकरूपस्तु निष्कलस्तत्त्वतः स्मृतः ॥२९॥
तद्योगादपि तद्बीजं सर्वबीजप्ररोहकं ।
प्रवर्ततेऽयतो यस्माद्देवासुरनिकेतनं ॥३०॥
तत्र मन्त्राश्च वर्णाश्च प्रतिष्ठां यान्ति नान्यथा ।
तस्य बोद्धाद्विमुच्यन्ते अहिकञ्चुकवत्प्रिये ॥३१॥
तावद्भ्रमति संसारे यावत्तत्त्वं न विन्दति ।
विदिते तु पुरे तत्त्वे न भूयो जायते क्वचिथ् ॥३२॥
अकृतार्थो नरस्तावद्यावद्धंसं न विन्दति ।
प्रणवेन समायुक्तं कृतार्थ इति निर्दिशेथ् ॥३३॥
उच्चारं च ततो ज्ञात्वा उच्चरेत्तं वरानने ।
उच्चारस्त्रिविधो देवि हंसस्य समुदाहृतः ॥३४॥
हकारोकारसंयुक्त- बिन्द्वन्ते तु तृतीयकः ।
सृष्टिन्यासेन तूच्चारः संहारयोग उच्यते ॥३५॥
एवमादिक्रमेणैव मन्त्रमुच्चारयेद्बुधः ।
बिन्दुस्थं त्रितयं कृत्वा वक्त्रमुद्घाटयेत्ततः ॥३६॥
ईषदुद्घाटिते वक्त्रे तदा नादं विजानत ।
नादस्थं पञ्चधा चैव शक्तिस्थं पञ्चधा पुनः ॥३७॥
व्यापिन्यां पञ्चधा चैव समनानिष्कलात्मनोः ।
उन्मना च परं तत्त्वं सर्वं व्याप्य व्यवस्थितं ॥३८॥
एवं ज्ञात्वा विमुच्यन्ते शिवतत्त्वविदो जनाः ।
अन्यथा नैव मुच्यन्ते बिन्द्वन्ते ये व्यवस्थिताः ॥३९॥
ज्योतीरूपं तु बिन्दुस्थं नादस्थं शब्दरूपकं ।
शक्तिस्थं स्पर्शगं चैव तदूर्ध्वं शून्यरूपकं॥ ४०॥
ब्रह्मादिपञ्चकं यच्च तेषां शून्यं च तत्पदं ।
परापरविभागेन ते सर्वत्र व्यवस्थिताः ॥४१॥
शून्यातीता तु समना शुद्धात्मा तून्मना तथा ।
सर्वातीतं परं तत्त्वं सर्वं व्याप्य व्यवस्थितं॥ ४२॥
मन्त्ररूपाश्च विज्ञेया बिन्दुधर्मात्तु देवताः ।
तत्रस्था सर्वकर्माणि साधयन्ति न संशयः ॥४३॥
तत्त्वं च उन्मनात्मा तु समना शून्यमेव च ।
स्पर्शश्चैव तथा शब्दो रूपं च तदनन्तरं॥ ४४॥
मन्त्रात्मनि स्थिताः सर्वे ज्ञातव्या दैशिकेन तु ।
तत्रस्था ज्ञानयोगं च प्रयच्छन्ति वरानने ॥४५॥
कर्मकाले तु सकलान्शिरः पाण्यादिभिर्युतान् ।
जपेत्तु सकलान्देवि निष्कलेन समन्वितान्॥ ४६॥
ध्यायेज्ज्योतिर्मयान्सर्वान्शब्दसिद्धिप्रदायकान् ।
शक्तिस्थाः शक्तिदाः प्रोक्ताः शून्यस्था व्यापकाः स्मृताः ॥४७॥
क्रमाज्ज्ञानप्रदास्ते वै समनास्था वरानने ।
कैवल्यदास्ततश्चोर्ध्वे सर्वज्ञाश्चोन्मने पदे ॥४८॥
तत्त्वेन वेधिताः सर्वे ये मया परिकीर्तिताः ।
तज्ज्ञात्वा सिद्धिदाः सर्वे मुक्तिदाश्च न संशयः ॥४९॥
पञ्चप्रणवसंयुक्तं तत्त्वं ते कथितं मया ।
पञ्चप्रणवपूर्वेण ओंकाराद्ययुतेन तु ॥५०॥
नमस्कारावसानेन बहुरूपेण सुव्रते ।
जपतः सिद्धिमाप्नोति लक्षेनाक्षरसंख्यया ॥५१॥
प्रणवाद्येन संयुक्तं मन्त्रमेवं जपेत्सदा ।
जपान्ते तु पुनर्होमं दशमांशेन कारयेथ् ॥५२॥
नृमांसं पुरसंयुक्तं घृतेन च परिप्लुतं ।
ततः सिद्धिमवाप्नोति अधमां मध्यमोत्तमं ॥५३॥
त्रिगुणेन तु जप्येन स्वच्छन्दसदृशो भवेथ् ।
ब्रह्मविष्ण्विन्द्रदेवानां सिद्धदैत्योरगेशिनां ॥५४॥
भयदाता च हर्ता च शापानुग्रहकृद्भवेथ् ।
दर्पं हरति कालस्य पातयेद्भूधरानपि ॥५५॥
स्फोटयेद्बिल्वयन्त्राणि दिग्गजानपि चालयेथ् ।
ब्रह्मराक्षसवेतालान्क्रूरग्रहविनायकान् ॥५६॥
स्मरणान्नाशयेद्देवि अवध्यस्त्रिदशैरपि ।
प्राकृतान्यपि कर्माणि सिद्ध्यन्ति जपलक्षतः ॥५७॥
तानि सम्यक्प्रवक्ष्यामि यथावदनुपूर्वशः ।
मोहना सहदेवा च भूधात्री चक्रलाञ्छना ॥५८॥
रामवल्ल्या सहैकत्र आत्मबीजेन पोषयेथ् ।
भक्षे पाने च दातव्यं वशीकरणमुत्तमं ॥५९॥
उत्तवारणिमूलं तु पुष्यर्क्षेण तु ग्राहयेथ् ।
आत्मेन्द्रियेण संयुक्तं वशीकरणमुत्तमं ॥०॥
श्रवणाक्षिमलं लाला रुधिरेन्द्रियसंयुतं ।
भूकदम्बसमोपेतं दातव्यं पयसा निशि ॥६१॥
अप्रवासे प्रदातव्यं म्रियते विरहेण सा ।
षष्टिं कनकबीजानि षोडश मणिचन्द्रिकाः ॥६२॥
नरगोदन्तसंयुक्ताः प्रदद्याद्यस्य भामिनी ।
एष कापालिको योगो गच्छन्तमनुगच्छति ॥६३॥
श्वेतार्कमूलं मञ्जिष्ठा चटकस्य शिरस्तथा ।
गृहोद्भवस्य कुष्ठं च स्वरक्तेन्द्रियसंयुतं ॥४॥
भक्ष्ये पाने प्रदातव्यं वशीकरणमुत्तमं ।
मोहना चैव कान्तारी मयूरशिखया युता ॥६५॥
आत्मलालेन्द्रियैर्युक्तं वशीकरणमुत्तमं ।
लज्जालुका च गोरम्भा चण्डालीकर्मकं तथा ॥६६॥
नागेन्द्रपदमिश्रं तदात्मबीजसमन्वितं ।
एष योगवरो दिव्यो दीयते यस्य सुव्रते ॥६७॥
मधुरेण समायुक्तो यावदायुर्वशी स तु ।
चणका माषमुद्गाश्च अपानेन विनिर्गताः ॥६८॥
वान्तं घृतं तथा रेतः स्त्रीरजो हृन्मलं तथा ।
मूत्रं रक्तं तथा केशो लाला चैव वरानने ॥६९॥
पुत्रजानिः कृताह्वा च नागेन्द्रपदसंयुता ।
मोहना विष्णुक्रान्ता च धात्री चैवैकतः स्थिता ॥७०॥
पुष्यर्क्षेण नियुञ्जीत गर्वितानां वरानने ।
भक्ष्ये पाने प्रदातव्यो योगस्त्रिदशपूजितः ॥७१॥
उच्चाटनं प्रवक्ष्यामि शत्रूणां गर्वितात्मनां ।
काकोलूकस्य पक्षांश्च खरोष्ट्रमूत्रमृत्तिका ॥७२॥
कृत्वा प्रतिकृतिं प्राज्ञः काकरक्तेन लेपयेथ् ।
काकोलूकस्य पक्षांश्च गुदे तस्य विनिक्षिपेथ् ॥७३॥
तां चतुष्पथे निखनेत्श्मशानाग्निमथोपरि ।
प्रज्वाल्य होमयेत्तत्र काकपक्षांश्च सुव्रते ॥७४॥
उद्भ्रान्तपत्रसहितान्खरमूत्रेण भावितान् ।
यस्य नाम समुद्दिश्य यकाराद्यन्तरोधितं ॥७५॥
मन्त्रावसाने विन्यस्तं विसर्गान्तं प्रचाटयेथ् ।
भ्रमते काकवत्पृथ्वीं शत्रुर्व्याधिनिपीडितः ॥७६॥
पिण्याकं निम्बपत्त्राणि मृत्किण्वं तु तुषाणि च ।
शत्रोः प्रतिकृतिं कृत्वा अक्षपुष्पैस्तु वेष्टितां ॥७७॥
श्मशाने निखनेत्तां तु वह्निं प्रज्वाल्य चोपरि ।
पुष्पैर्विभीततरुजैर्यस्य नाम्ना तु होमयेथ् ॥७८॥
विद्विष्टो वै भवेच्छत्रुः कामदेवसमोऽपि यः ।
प्रियङ्गुलतिकामिश्रं गुग्गुलुं घृतवेधितं ॥७९॥
हृत्वा त्वष्टशतं देवि सुभगः सम्प्रजायते ।
जातिकुट्मलकैर्मिश्रैस्त्रिमध्वक्तैस्तिलैर्हुतैः ॥८०॥
सुभगत्वमवाप्नोति रूपहीनोऽपि यो नरः ।
तिलैर्लवणसम्मिश्रैस्त्रिमध्वक्तैर्हुतैः प्रियैः ॥८१॥
सप्ताहाद्वशमायाति या स्त्री रूपेण गर्विता ।
राजिका लवणं चैव मधुक्षीरघृतप्लुतं ॥८२॥
होमयेन्नामसम्मिश्रं यस्याकर्षेत्तु तं द्रुतं ।
नरस्य रोचनां गृह्य द्विरदस्य मदेन तु ॥८३॥
भावयित्वाभिमन्त्र्यैतन्मन्त्रेणाष्टशतं जपेथ् ।
स्नाने विलेपने मद्ये गन्धे वा यस्य दीयते ॥८४॥
स वश्यो भवति क्षिप्रं धनदः प्राणदस्तथा ।
अथवा मारयेत्क्षिप्रं शत्रुं निश्चितमात्मनः ॥८५॥
अपकारशतैर्युक्तं कृतघ्नं दुष्टचेतसं ।
कपालद्वयमादाय नाम शत्रोः समालिखेथ् ॥८६॥
कपालसम्पुटस्थं तद्विषाङ्गारेण भावितं ।
रुधिरेण समायुक्तं हुम्फट्कारविदर्भितं ॥८७॥
महाप्रेतवनं गत्वा स्वच्छन्दं पूजयेत्ततः ।
कृष्णमाल्योपहारैश्च ततः कर्म समारभेथ् ॥८८॥
विज्ञाप्य भैरवं देवं शत्रुं मे विनिपातय ।
अनुज्ञातस्तु देवेन गृहित्त्वा तच्छिरोद्वयं ॥८९॥
तत्र गत्वा महादेवि कपालासनसंस्थितः ।
तत्रस्थो रोषसम्पूर्णो दक्षिणाभिमुखः स्थितः ॥९०॥
आत्मनो भैरवं रूपं ज्ञात्वा घोरं सुभीषणं ।
क्रुद्धः समुच्चरेन्मन्त्री द्वात्रिंशाक्षरसम्मितं ॥९१॥
विलोमेन महाभागे शत्रुनाम ततोऽन्तगं ।
हुम्फड्द्वयं समुच्चार्य काद्ये चास्फालयेद्भृशं ॥९२॥
खण्डशश्चूर्णिते यावत्तावच्छतुर्विनश्यति ।
सप्तरात्रेण देवेशि प्रयोगस्त्वनिवर्तकः ॥९३॥
एवं शतसहस्राणि अन्यकल्पोत्थितानि च ।
प्रयोगाणां करोत्येष मन्त्रराजेश्वरेश्वरः ॥९४॥
अनुलोमगतं देवं वौषत्कारान्तसंस्थितं ।
क्षीरं तु होमयेद्देवि शान्त्यर्थे हितकारकं ॥९५॥
वषदाप्यायने शस्तं स्वाहान्तं वशकर्मणि ।
मन्त्राणां तर्पणार्थं च नत्यन्तं चार्चने स्मृतं ॥९६॥
एतद्धि कथितं देवि साधकस्य सुमेधसः ।
क्रियाकालांशयुक्तस्य अक्लेशात्तु सुखावहं ॥९७॥


इति स्वच्छन्दतन्त्रे पञ्चप्रणवाधिकारः षष्ठः पटलः

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2012-06-16T02:46:54.9970000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

spectrum lines

  • स्त्री./अ.व. पंक्ति रेखा 
RANDOM WORD

Did you know?

यज्ञोपवीत ( जानवे ) म्हणजे काय? त्याला किती दोरे असतात? त्याच्या गाठीला काय म्हणतात
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site